________________
नानार्थवर्गः ३ ]
।
से० )। ‘भावे’ (३।३।१८) 'हलश्च' ( ३।३।१२० ) इत्यधिकरणे वा घञ् । ‘इकः काशे' (६।३।१२३ ) इति दीर्घः । यद्वाविकशनम् । अत्र वा । 'कश शब्दे' ( अ० आ० से० ) पूर्ववत् । 'वीकाशो विजने व्यक्ते' इति विश्वः । 'विकाशः पुंसि विजने प्रकाशे संदृशं समे । उचिते च' (इति मेदिनी ) ॥ निर्वेशो भृतिभोगयोः ।
व्याख्यासुधाख्यव्याख्यासमेतः ।
निर्विश्यते । निर्वेशनं च । घञ् ( ३।३।१८, १९ ) । भृतिः = वेतनम् । 'निर्वेशस्तु पुमान्भोगे वेतने मूर्च्छनेऽपि च' ( इति मेदिनी ) ॥
कृतान्ते पुंसि कीनाशः क्षुद्रकर्षकयोस्त्रिषु ॥ २१५ ॥ 'की' इत्यव्ययं कुत्सायाम् । की कुत्सितं नाशयति । पचाद्य्च् (३।३।१३४) । यद्वा, क्लिश्नाति । क्लिश्यते वा । 'क्लिशू विबाधने' (क्या० प० से० ) । 'क्लिश बन्धे ( उपतापे ) ' ( दि० आ० से०) वा । 'क्लिशेरीच्चोपधायाः कन् लोपश्च लो नाम् च ' (उ० ५/५६)। 'कीनाशः कर्षकक्षुदोपांशुघातिषु वाच्यवत्। ( यमेना)' ( इति मेदिनी ) ॥ .
पदे लक्ष्ये निमित्तेऽपदेशः स्यात्
अपदेशनम् । अपदिश्यते वा । 'दिश अतिसर्जने' ( तु० उ० अ०) । घञ् (३।३।१८,१९) । पदे =स्थाने ! 'अपदेशः पुमाँलक्ष्ये निमित्तव्याजयोरपि' इति विश्वः ॥
कुशमप्सु च ।
कौ शेते तिष्ठति । 'अन्येभ्योऽपि - ' ( वा० ३।२।१०१ ) इति ङः । कुश्यति । ‘कुश श्लेषणे' (दि० प० से ० ) । ' इगु - पध-' (३।१।१३५) इति कः । कु पापं श्यति । 'शो तनूकरणे' (दि० प० अ०)। ‘सुपि–’ ( ३।३।४ ) इति योगविभागात्कः । 'कुशो रामसुते दर्भे यो द्वीपे कुशं जले' इति विश्वः ॥ दशावस्थानेकविधापि
दशति । ‘दंश दशने' (भ्वा० प० अ० ) । मूलविभुजा - दिकः ( वा० ३।२।५) । यद्वा, - पचाद्यच् (३।१।१३४) । (जपजभदहदश - ' ( ७।४।८६) इति निर्देशादक्वित्यपि नलोपः । यद्वा,–दश्यते । ‘गुरोश्च (३।३।१०४) इत्यङ् । अनेकविधाबाल्यादिरूपा । 'दशावस्था दीपवर्त्योर्वस्त्रान्ते भूम्नि योषिति' ( इति मेदिनी ) ॥
आशा तृष्णापि चायता ॥ २१६ ॥ आ समन्तादनुते। ‘अशू व्याप्तौ ' ( खा० आ० से ० )
।
१–‘विकाशो रहसि व्यक्ते' इति हेममूलस्य 'विकाशते बिकाशः । एकदेशस्याविकृतत्वाद्वीकाशोऽपि । व्यक्ते वाच्यलिङ्गो द्वयोर्यथा - उपविश्य विकाशेषु रहस्यानि प्रकाशयेत्' इत्यनेकार्थकैरवाकर कौमुदीव्याख्यायाश्च संवादाद्धस्वेकारवान् ॥ २ - इत्यादि मेदिनीवाक्यं तु प्रकृतोपयोगि । अत्रोल्लेखस्तु 'सदृशागमे' इति काचित्क - लेखकप्रमादजपाठानुसारेण ॥
४३५
पचाद्यच् ( ३।१।१३४ ) । 'आशा ककुभि तृष्णायाम्' (इति हैमः ॥
वशा स्त्री करिणी च स्यात्
वष्टि । 'वश कान्तौ' (अ० प० से० ) । पचाद्यच् ( ३।१११३४) । स्त्री = योषिति । 'वशा वन्ध्यासुतायोषास्त्रीगवीकरणीषु च' इति विश्वः ॥
ग् ज्ञाने ज्ञातरि त्रिषु ।
पश्यति । 'दृशिर् प्रेक्षणे' ( वा० प० अ० ) । क्विप् (३1२।१७८)। यद्वा,-दर्शनम् । अनया वा । संपदादिः ( वा० ३।३।१०८ ) । 'हक् स्त्रियां दर्शने नेत्रे बुद्धौ च त्रिषु वीक्षके’ ( इति मेदिनी ) ॥ स्यात्कर्कशः साहसिकः कठोरावसृणावपि ॥ २१७॥
कृणाति । ‘कृञ् हिंसायाम्' (त्रया० उ० से० ) । 'अन्येभ्योऽपि -' ( ३।२।७५ ) इति विच् । कश्यते । 'कश शब्दे ' ( अ० आ० से० ) । पचाद्यच् ( ३।१।१३४ ) । कर् कशश्च । 'कर्कशः परुषे क्रूरे कृपणे निर्दये दृढे । इक्षौ साह - सिके कासमर्दकाम्पिलयोरपि' इति विश्वः । अमसृण: - दुस्पर्शः ॥ प्रकाशोऽतिप्रसिद्धेऽपि
प्रकाशते । प्रकाशनं वा । 'काट दीप्तौ' ( वा० आ० से० ) । पचाद्यच् (३।१।१३४) । घञ् (३।३।१८) वा । 'प्रकाशोऽतिप्रसिद्धे स्यात्प्रहासातपयोः स्फुटे' इति विश्वः । शिशावज्ञे च बालिशः ।
वाडनम् | 'वाडृ आप्लाव्ये' (स्वा० आ० से० ) । इन् ( उ० ४।११८ ) । वार्लि श्यति । ' शो तनूकरणे' ( दि० प० अ० ) 'आतोऽनुप -' (३।२।३) इति कः ॥
इति शान्ताः ॥
सुरमत्स्यानिमि
न निमिषिति । ‘मिष श्लेषणे' (तु० प० से ० ) । ' इगुपध- ' ( ३।१।१३५) इति कः । नञ्समासः (२।२।६ ) ॥ पुरुषावात्ममानवौ ॥ २१८ ॥
पुरति । 'पुर अग्रगमने' ( तु० प० से० ) । 'पुरः कुषन् ' ( उ० ४।७४ ) । पुरुषः पूरुषे सांख्यज्ञे च पुंनागपादपे’ ( इति मेदिनी ) ॥
काकमत्स्यात्खगौ ध्वाङ्क्षौ
मत्स्यानत्ति । मत्स्याच्चासौ खगश्च । ध्वाङ्गति । "ध्वाक्षि घोरवाशिते च' (भ्वा० प० से० ) । चात् काङ्क्षायाम् । पचाद्यच् (३।१।१३४) ध्वाङ्क्षौ मत्स्यात्खगे काके भिक्षुके च' ( इति मेदिनी ) ॥
कक्षौ तु तृणवीरुधौ ।
कषति, कष्यते वा । 'कष हिंसायाम् ' ( स्वा०प० से० ) । 'वृतृवदिहनिकषिभ्यः सः ' ( उ० ३।६३) । ' कक्ष