SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ नानार्थवर्ग: ३ ] कल्यते । ‘कल उपदेशे ं ( ) । घञ् ( ३।३।१९ ) । 'कालो मृत्यो महाकाले समये यमकृष्णयोः ' ( इति मेदिनी ) ॥ चतुर्थेऽपि युगे कलिः । कलयति, कल्यते वा । 'कल गतौ संख्याने च' ( चु० उ० से० ) अदन्तः। ‘अच इः' ( उ० ४। १३९ ) । 'कलिः स्त्री कलिकायां ना शूराजिकलहे युगे ' ( इति मेदिनी ) ॥ स्यात्कुरङ्गेऽपि कमलः व्याख्यासुधाख्यव्याख्यासमेतः । कामयते, काम्यते वा । 'कमु कान्तौ ' ( स्वा० आ० से० ) । णिभावे वृषादित्वात् ( उ० १।१०६ ) कलः । 'कमलं सलिले ताम्रे जलजे व्योम्नि भेषजे । मृगभेदे तु कमल:' ( इति मेदिनी ) ॥ करः=राजग्राह्यः। उपहारः = पूजासामग्री । प्राण्यङ्गजः - त्वक्सं कोचः। बलते, वल्यते वा । 'बल प्राणने' (भ्वा० प० से ० ) । 'वल संवरणे' (भ्वा० आ० से० ) । 'सर्वधातुभ्य इन्' ( उ० ४।११८)। ‘बलिर्दैत्यप्रभेदे च करचामरदण्डयोः । उपहारे पुमान् स्त्री तु जरया श्लथचर्मणि । गृहदारुप्रभेदे च जठराव - यवेऽपि च' (इति मेदिनी ) ॥ स्थौल्यसामर्थ्य सैन्येषु वलं ना काकसीरिणोः १९५ । वलते, वलति, वल्यते वा, अनेन वा । 'बल संचरणे' (भ्वा० आ० से० ) । ‘बल प्राणने ' ( भ्वा० प० से० ) वा पचाद्यच् ( ३।१।१३४)। कर्मणि घञ् ( ३।३।१९ ) वा । संज्ञापूर्वकत्वाद्वृद्ध्यभावः। ‘पुंसि - ' ( ३।३।११८) इति घो वा 'बलं गन्धरसे रूपे स्थामनि स्थौल्यसैन्ययोः । बलो हलायुधे दैत्यभेदे बलिनि वायसे' इति विश्वः ॥ वातूलः पुंसि वात्यायामपि वातासहे त्रिषु । । ( प्रावारेऽपि च कम्बलः ॥ १९४ ॥ काम्यते। ‘कमेर्बुक् च' ( उ० १।१०७ ) इति कलः । कं कुत्सितं शिरोऽम्बु वा वलते वा । 'बल संवरणे संचरणे च ' ( भ्वा० आ० से०) 'कम्बलो नागराजे स्यात्सास्नाप्रावारयोरपि । कृमावप्युत्तरासङ्गे सलिले तु नपुंसकम् ' ( इति मेदिनी ) ॥ करोपहारयोः पुंसि वलिः प्राण्यङ्गजे स्त्रियाम् । वातानां समूहः । वातं न सहते । 'वातात्समूहे च' ( वा० ५।२।१२२) इत्यूलः । चात् तदसहने । 'वातूलो वातुलोऽपि स्यात्' इति द्विरूपकोषाद्धस्वमध्योऽपि । 'वात सुखसेवनयोः ' ( चु० उ० से० ) अदन्तः । बाहुलकादुलच् ॥ भेद्यलिङ्गः शठे व्यालः पुंसि श्वापद सर्पयोः ॥ १९६ ॥ विरुद्धमा समन्तादलति । अडति वा । 'अल भूषणादौ' (भ्वा० प० से० ) । 'अड उद्यमे' ( वा० प० से० ) । डलयो - १ - 'आद्य औष्ठयादिः, अन्त्यो दन्तोष्ठधादिः इति विशेषो न गणितः’—इति क्षीरस्वामी ॥ २- वातरूवातुलौ च दृश्येते - इति क्षीरस्वामी ॥ ४३१ रेकत्वम् । पचाद्यच् ( ३।१।१३४ ) । 'व्यालो दुष्टगजे सर्पे शठे श्वापदसिंहयोः' (इति हैमः ) ॥ मोsस्त्री पापविकिट्टानि मलयति । ‘मल तत्कृतौ' अदन्तः । मलते वा । 'मल धारणे' ( भ्वा० आ० से० ) । पचाद्यच् ( ३।१।१३४ ) । 'मलोsat पापविट् किट्टे कृपणे त्वभिधेयवत्' ( इति मेदिनी) । विट् = विष्ठा । किट्ट = तैलाद्यधोभागस्थं शिङ्खाणादि च । 'वसा शुक्रमसृग् मज्जा मूत्रं विकर्णत्वड्नखाः । श्लेष्माश्रु दूषिका खेदो द्वादशैते मला नृणाम् ॥ अस्त्री शूलं रुगायुधम् । शूलति । ‘शूल रुजायाम्' ( वा० प० से० ) । 'इगुपध- ' ३।१।१३५ ) इति कः । 'शूलोऽस्त्री रोग आयुधे । मृत्युकेतनयोगेषु (शूला स्यात्पण्ययोषिति ) ' ( इति मेदिनी ) ॥ शङ्कावपि द्वयोः कीलः कीलति, कील्यते, अत्र, अनेन वा । ' कील बन्धे' ( वा० प० से० ) । ' इगुपध - ' ( ३।१।१३५ ) इति कः । कर्मणि घञ् ( ३।३।१९ ) । पुंसि - ' ( ३।३।११८ ) इति घो वा । 'कीलः कफोणिकाघाते स्थाणौ च ज्वलनार्चिषि' इति धरणिः । ' कीलो लेशे द्वयोः स्तम्भज्वालाकफोणिशङ्कुषु' इति विश्वः ( मेदिनी) । ' कीलोऽग्नितेजसि । कफोणिस्तम्भयोः शङ्कौ कीला रतहृतावपि ' ( इति हैमः) ॥ पालिः ख्यख्यङ्कपङ्गिषु ॥ १९७ ॥ पालयति, पाल्यते वा । अत्र । अनया वा । 'पाल रक्षणे' (चु० प० से ० ) ण्यन्तः । ' अच इ: ' ( उ० ४।१३९) 'पालिः कर्णलतायां स्यात्प्रदेशे पतिचिह्नयोः' इत्यजयः । सश्मश्रुयुवती पालिः प्रस्थः (पङ्क्तिः ) कर्णलतापि च' इति त्रिकाण्डशेषः । 'पालिः कर्णलताग्रेऽसौ पङ्कावङ्कप्रभेदयोः । छात्रादिदेये स्त्री पाली यूकासश्मश्रुयोषितोः' ( इति मेदिनी ) ॥ कला शिल्पे कालभेदेऽपि कलयति, कल्यते वा । ‘कल शब्दसंख्यानयो:' ( चु० आ० से० ) । पचाद्यच् ( ३।१।१३४ ) । यद्वा, - कं लाति । 'कला स्यान्मूलरैवृद्धौ शिल्पादावंशमात्रके । षोडशांशे च चन्द्रस्य कलनाकालमानयोः ' ( इति मेदिनी)। 'तालेषु च गुरुः कला' ॥ आली सख्यावली अपि । आ अलति, अल्यते वा अनया वा । 'अल भूषणादौ' (भ्वा० प० से० ) । 'सर्वधातुभ्य इन्' ( उ० ४।११८)। 'कृदिकारात् -' ( वा० ४।१।४५ ) इति वा ङीष् । 'आलिविंशदाशये । त्रिषु स्त्रियां वयस्यायां सेतौ पङ्क्तौ च कीर्तिता' ( इति मेदिनी ) ॥ अब्ध्यम्बुविकृतौ वेला कालमर्यादयोरपि ॥ १९८ ॥ वेलति । 'वेऌ गतौ' (स्वा० प० से ० ) । पचाद्यच् (३।११
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy