SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ दिग्बर्गः ३ ] व्याख्यासुधाख्यव्याख्यासमेतः । क्षपां करोति । ‘कृञो हेतु–’ (३।२।२० ) इति टः ॥ ( २० ) चन्द्रं कायति वा - इति मुकुटः । तन्न । इत्वाभावप्रसङ्गात् । ॥*॥ विंशतिः 'चन्द्रस्य' ॥ कला तु षोडशो भागो (कलेति ॥) चन्द्रस्य षोडशो भागः । कलयति । 'कल संख्याने' (चु० उ० से० ) पचाद्यच् ( ३।१।१३४) । कल्यते वा। ‘पुंसि-' (३।३।११८) इति घः । ( 'कलं त्वजीर्णरेतसोः। अव्यक्तमधुरध्वाने ) कला स्यदंशशिल्पयोः । ( कलने मूलरैवृद्धौ षोडशांशे विधोरपि' ) इति हैमः ॥ (१) ॥*॥ एकम् 'चन्द्रषोडशांशस्य' ॥ चन्द्रयति । ' तत्करोति - ' ( वा० ३।१।२६ ) इति ण्यन्तात् वुल् ( ३।१।१३३ ) इति वा । 'चन्द्रिका चन्द्रमा चार्वी ' इति शब्दार्णवः ॥ (१) ॥*॥ कुमुदानामियम् । 'तस्येदम्' ( ४।३।१२० ) इत्यण् । ( 'कौमुदः स्यात्कार्तिकके चन्द्रिकायां तु कौमुदी' ) ॥ ( २ ) ॥*॥ ज्योतिरस्त्यस्याम् । ' ज्योत्स्नातपेऽपि स्याज्योत्स्नायुक्तनिश स्मृता ॥ (३) ॥॥ त्रीणि तमिस्रा-' ( ५।२।११४) इति निपात्यते । 'ज्योत्स्ना चन्द्रा'ज्योत्स्नायाः' ॥ | faralsस्त्री मण्डलं त्रिषु ॥ १५ ॥ ( बिम्ब इति ॥ ) वेति शोभते । 'वी गतौ ' ( अ० प० से०) । 'उल्वादयश्च' (उ० ४।९५ ) इति बन्नुमागमहखत्वानि । 'बिम्बं तु प्रतिबिम्बे स्यान्मण्डले बिम्बिकाफले' इति ( पवर्गमध्ये) हैमः ॥ (१) ॥*॥ मण्डयति, मण्ड्यते वा । 'मडि भूषायाम्' (चु० प० से० ) । वृषादित्वात् ( उ० १।१०६ ) कलच् । गौरादित्वात् ( ४।१।४१ ) ङीष् । मण्डली । 'स्यान्मण्डलं द्वादशराजके च देशे च बिम्बे च कदम्बके च । कुष्ठप्रभेदेऽप्युपसूर्यकेऽपि भुजंगभेदे शुनि मण्डलः स्यात्' इति विश्वः ॥ (२) ॥*॥ द्वे 'रविचन्द्रमण्डलस्य' ॥ भित्तं शकलखण्डे वा पुंस्यर्धः ३५ प्रसादस्तु प्रसन्नता ॥ १६ ॥ ( प्रसाद इति ॥ ) ' षट्ट विशरणादौ' ( वा०, तु०प० अ० ) । भावे घञ् ( ३।३।१८ ) । ' प्रसादोऽनुग्रहस्वास्थ्यप्रसत्तिषु । काव्यगुणे' इति हैमः ॥ (१) ॥ ॥ प्रसीदति स्म । 'गत्यर्थ - ' ( ३।४।७२ ) इति कः । प्रसन्नस्य भावः । तल् ( ५।१।११९ ) ॥ ( २ ) ॥ ॥ द्वयं 'नैर्मल्यस्य' ॥ कलङ्काङ्को लाञ्छनं च चिह्नं लक्ष्म च लक्षणम् । ( ( कलङ्केति ॥ ) कं ब्रह्माणं लङ्कयति हीनतां गमयति, ज्ञापयति, वा । ‘लकि गतौ' (चुरादिः) । 'कर्मण्यण्' (३।२।१) । ('कलङ्कोssपवादे च कालायसमलेऽपि च ' ) ॥ (१) ॥*॥ अयतेऽनेन । 'अकि लक्षणे' ( भ्वा० प० से० ) । 'हलश्व' ३।३।१२१) इति घञ्। ('अङ्को भूषारूपकलक्ष्मसु । चित्राजौ नाटकाद्यंशे स्थाने कोडेऽन्तिकागसोः ' ) ॥ ( २ ) ॥*॥ 'लच्छ, लाच्छि, लक्षणे' ( भ्वा० प० से० ) । लाञ्छयतेऽनेन । ल्युट् ३।३।११५ ) । 'लाच्छनं लक्ष्मसंज्ञयोः' इति द्वैमः ॥*॥ लच्छ्यतेऽनेन इति विग्रहे ल्युटि 'लच्छनम्' अपि ज्ञेयम् ॥ (३) ॥ॐ॥ चाहयति, चह्यतेऽनेन वा । 'चह परिकल्कने' 'भ्वा० प० से० ) । बाहुलकान्नक् उपधाया इत्वं च । 'चिह्नं लक्ष्मपताकयोः' इति मेदिनी ॥ (४) ॥*॥ लक्षयति । 'लक्ष दर्शनाङ्कनयो:' ( चु० प० से० ) मनिन् ( ३।३।७५ ) । ('लक्ष्म प्रधानचिह्नयोः) ॥ ( ५ ) ॥*॥ ल्युटि लक्षणम् । 'लक्षेरद् च' (उ० ३।७ ) इति नः । ( 'लक्षणं नाम्नि चिह्ने च सारस्यां लक्षणा क्वचित्') ॥*॥ मुड्डा (?) ( उ० ३।७ ) इति लक्ष्मणमपि । 'ज्योतिष्मत्यां च सारस्यां स्त्री, क्लीबे नामचिह्नयोः । स्यायक्षे लक्षणः पुंसि सौमित्रों, श्रीमति त्रिषु' इति रभसात् । लक्ष्मीवति तुपामादित्वात् ( ५/२/१०० ) नः | 'लक्ष्म्या अच्च' इति गणसूत्रेणात्वं बोध्यम् ॥ ( ६ ) ॥* ॥ षट् 'चिह्नस्य' ॥ ( (भित्तमिति ॥) भिद्यते स्म । 'भित्तं शकलम्' (८/२/५९) इति निपातितम् ॥ (१) ॥ ॥ शक्नोति, शक्यते वा । ‘शक्ल शक्तौ’ (खा० प० अ० ) । 'शकिशम्योर्नित' ( उ० ११११२ ) इति फलच् । ‘शकलं त्वचि खण्डे च रागवस्तुनि वल्कले' इति विश्वः ॥ (२) ॥ ॥ 'खडि भेदने' ( चु०प० से० )। खण्ड्यते । कर्मणि घञ् ( ३।३।१९ ) । – भावे घञ् ( ३/३/१८ ) इति मुकुटोक्तिरसंगता । खण्डनक्रियाया एव ग्रहणप्रसङ्गात्। खण्ड्यमानस्याग्रहणप्रसङ्गात् । 'खनु अवदारणे' ( भ्वा० उ० से ० ) । 'जमन्ताड्डः ' ( उ० १।११४ ) इति वा । 'खण्डोऽर्ध ऐक्षवे । मणिदोषे च' इति हैमः । ( 'खण्डोऽस्त्री शकले नेक्षुविकारमणिदोषयोः । खण्डः पानान्तरे भेदे') वा पुंसि - इति पूर्वोत्तराभ्यां संबध्यते ॥ ( ३ ) ॥॥ 'ऋधु वृद्धौ' (खा० प० से०)। ऋनोत्यनेन । 'हलच' ( ३३३ १२१ ) इति घञ् । विशेष्यनिघ्नः ॥ (४) ॥*॥ चत्वारि 'खण्डमात्रस्य' ॥ 1 । - अर्ध समेंsa | सुषमा परमा शोभा ( अर्धमिति ॥ ) समप्रविभागेऽर्धशब्दः क्लीबमेव ॥ (१) ॥*॥ तुल्यस्य खण्डद्वयस्य मध्ये 'एकखण्डस्य' एकम् ॥ चन्द्रिका कौमुदी ज्योत्स्ना ( सुषमेति ॥ ) शोभनं समं सर्वमनया । 'सुविनिर्दुर्भ्यः (चन्द्रिकेति ॥) चन्द्रोऽस्त्यस्याः । ठन् (५।२1११५) । सुपिसूतिसमाः' ( ८३८८ ) इति षत्वम् । एतेन सुषामादित्वात् ( ८।३।९८ ) षत्वम् — इति स्वाम्युक्तिः परास्ता । उक्तरीत्या निर्वाहे सुषामादित्वकल्पनस्य निर्बीजत्वात् । ( 'सुषमं १ - हैमेऽपि 'स्यात्कालशिल्पयो:' इत्येव दृश्यते ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy