SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ ४१२ अमरकोषः । अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु । अर्यते। ऋच्छति वा । 'ऋ गतौ' ( स्वा० प० अ० ) 'उषिकुषिगातिभ्यस्थन्' ( उ० २।४) । यद्वा, अर्थ्यते । 'अर्थ उपयात्रायाम्' (चु० आ० से० ) । घञ् ( ३।३।१९ ) ( ' अर्थो विषयार्थनयोर्धनकारणवस्तुषु । अभिधेये च शब्दानां निबृत्तौ च प्रयोजने' इति मेदिनी ) ॥ निपानागमयोस्तीर्थमृषिजुष्टजले गुरौ ॥ ८६ ॥ तीर्यते अनेन वा । 'तू लवनतरणयोः ' ( वा०प० से० ) । 'पातृतुदि-' (उ० २ (७) इति थक्। 'तीर्थ शास्त्राध्वर क्षेत्रोपायनारीरजःसु च । अवतारषिजुष्टाम्बुपात्रोपाध्यायमन्त्रिषु' ( इति मेदिनी ) । निपानं जलावतारः । निदानम् = उपायः - इति मुकुटः ॥ समर्थस्त्रिषु शक्तिस्थे संबद्धार्थे हितेऽपि च । समर्थयते, समर्थ्यते वा । 'अर्थ उपयाज्ञायाम् ' ( चु० आ० से०) । पचाद्यच् (३।१।१३४ ) | घञ् ( ३।३।१९ ) वा ॥ दशमीस्थौ क्षीणरागवृद्धौ दशम्यां तिष्ठति । 'सुपि स्थः ' ( ३।२।४ ) इति कः । 'दशमीस्थो नष्टबीजे स्थविरेऽप्यन्यलिङ्गकः' (इति मेदिनी ॥ वीश्री पदव्यपि ॥ ८७ ॥ विथ्यतेऽनया । 'विधृ याचने' (भ्वा० आ० से० ) । घञ् (३।३।१९) । पृषोदरादिः (६।३।१०९ ) । गौरादिः (४।१/४१)। 'वीथी पङ्क्तौ गृहाङ्गे च रूपकान्तरवर्त्मनो:' ( इति मेदिनी ॥ आस्थानीयत्तयोरास्था आतिष्ठन्त्यस्याम् । आस्थानं वा । 'ष्ठा गतिनिवृत्तो' ( भ्वा० प० अ० ) । ' आस्था त्वालम्बनास्थानयत्नापेक्षासु योषिति' (इति मेदिनी ॥ इति यान्ताः ॥ अभिप्रायवश छन्दौ छन्द्यते । 'छादे संवरणे' ( चु० प० से० ) । घञ् (३।३१98) 11 अब्दो जीमूतवत्सरौ॥८८॥ अपो ददाति । 'आतोऽनुप-' ( ३३२ ३) इति कः । 'अब्दः संवत्सरे मेघे गिरिभेदे च मुस्तके' इति विश्वः ॥ अपवादौ तु निन्दा [ तृतीय काण्डं विश्रम्भयोरपि' ( इति मेदिनी ) ॥ ॥ मुकुटस्तु 'अववादः' इति पठित्वा 'अववादस्तु निन्दायामाज्ञाविश्रम्भयोरपि इति विश्वमुदाजहार ॥ अपोद्यते, अपवदनं वा । 'वद व्यक्तायां वाचि' ( भ्वा० प० से० ) । घञ् (३।३।१९ ) । 'अपवादस्तु निन्दायामाज्ञा | दायादौ सुतबान्धव । दायमति । 'अद भक्षणे' (अ० प० अ० ) । 'कर्मण्यण्' ( ३।२।१) । यद्वा-आदते । 'डुदाञ् ' । 'आतश्चोप-' ( ३।११• १३६ ) इति कः । दायस्य - आदः । दायादस्तु भवेत्पुंसि सपिण्डे तनयेऽपि च' (इति मेदिनी ) ॥ पादा रश्म्यङ्घ्रितुर्याशाः पद्यते । 'पद गतौ' ( दि० आ० अ० ) । 'पदरुज-' ( ३३।१७ ) इति घञ् । 'पादो बुध्ने तुरीयांशे शैले प्रत्यन्तपर्वते । चरणे च मयूखे च' ( इति मेदिनी ) ॥ चन्द्राय कस्तमोनुदः ॥ ८९ ॥ तमोनुदतेि । 'द प्रेरणे' ( तु० उ० अ० ) । क्विपू (वा० ३।२।७६ ) ॥ निर्वादो जनवादेऽपि निवेदनम् । 'वद व्यक्तायां वाचि' (स्वा० प० से० ) । घञ् ( ३।३।१८ ) ' निर्वादः स्याल्लोकवादपरिनिष्ठितवादयोः ' ( इति मेदिनी ) ॥ प्रस्थोऽस्त्री सानुमानयोः । प्रतिष्ठन्तेऽस्मिन्, अनेन वा । घञर्थे कः ( वा० ३।३१५८) । 'प्रस्थोऽस्त्रियां मानभेदे सानावुन्मितवस्तुनि' ( इति मेदिनी ) ॥ | शादी जम्बालाष्पयोः । शयते अनेन वा । 'श शातने' ( भ्वा० प० अ० ) । 'हलञ्च' ( ३।३।१२१ ) इति भावे ( ३।३।१८) वाघब्। जम्बालः = पङ्कः । शष्पं = बालतृणम् ॥ सारावे रुदिते त्रातर्याक्रन्दो दारुणे रणे ॥ ९० ॥ आक्रन्दनम् । आक्रन्दति, आक्रन्द्यतेऽस्मिन् । आक्रन्दयति वा । 'ऋदि आह्वाने रोदने च' (भ्वा० प० से० | 'आद: कन्द शब्दसातत्ये' ( चु० उ० से० ) । घञ् ( ३।३।१८, १९) । दारुणयुद्धयोः' (इति मेदिनी ) ॥ पचाद्यच् (३।१।१३४) वा । 'आक्रन्दः कन्दने ह्राने मित्र स्यात्प्रसादोऽनुरोधेऽपि प्रसदनम् । अनेन वा । 'षट्ट विशरणादी' ( भ्वा०प० अ०) । घञ् (३।३।१८,१९) । ' प्रसादोऽनुग्रहे काव्यप्राणस्वास्थ्यप्रसत्तिषु' (इति मेदिनी ) || सूदः स्याद्यञ्जने त्रिषु । सूद्यते, सूदयति वा । 'घूद क्षरणे' ( चु० उ० से ० ) । 'एरच्' (३।३।५६) । पचायच् । ( ३।१।१३४) वा । 'सूदस्तु सूपवत्सूपकारे च व्यञ्जनेऽपि च' इति विश्वः ॥ गोष्ठाध्यक्षेऽपि गोविन्दः गां विन्दति । ‘बिंदु लाभे' (तु० उ० अ० ) । ' गवादिषु १ - 'सारावे' इति रुदितविशेषणम् । त्रातरि = पाणिग्राहाक्रान्तस्य विजिगीषो रक्षितरि — इति पीयूषव्याख्या ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy