SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ विशेष्यनिघ्नवर्गः १ ] । ( ३।१।९७ ) । संज्ञापूर्वकत्वाणिलोपाभावः । 'चिन्तिपूजि - ' ( ३।३।१०५ ) इत्यविधानाद्गुणाभावार्थाद्वा । अन्यथा 'अ प्रत्ययात्' ( ३।३।१०२ ) इत्यनन्तरं पठित्वाकारमेव विदध्यात् यत्तु — 'अ प्रत्ययात्' (३।३।१०२ ) इत्यकारे प्राप्ते गुणाभावार्था - दविधानात्—इति मुकुटेनोक्तम् । तच्चिन्त्यम् । 'व्यासश्रन्थो युच्' (३।३।१०७) इति युचा प्रत्ययस्य बाधनात् ॥ (२) ॥*॥ द्वे 'गणयितुं शक्यस्य' ॥ संख्यातं गणितम् व्याख्यासुधाख्यव्याख्यासमेतः । ३७१ न ऊनम् । खार्थे कन् ( ज्ञापि ० ५/४/५) | (१४) ॥*॥ चतुर्दश 'समग्रस्य ' ॥ घनं निरन्तरं सान्द्रम् घेति ॥ हन्यते । 'हन हिंसागत्योः ' अ० प० अ० ) 'मूर्ती घन:' ( ३।३।७७ ) इत्यप् घनादेशश्च । 'घनः सान्द्रे दृढे दायें विस्तारे मुद्गरेऽम्बुदे । संघे मुस्ते घनं मध्ये नृत्यवाद्यप्रभेदयोः' इति हेमचन्द्रः ॥ (१) ॥ *॥ निर्गतमन्तरात् । निर्गतमन्तरमस्मिन् वा ॥ ( २ ) ॥ * ॥ सह अन्यते । 'अदि बन्धने' (भ्वा० प० से० ) । बाहुलकाद्रक् ॥ (३) ॥ * ॥ त्रीणि | 'निबिडस्य' ॥ पेलवं विरलं तनु । समिति ॥ संख्यायते स्म । 'ख्या प्रकथने' (अ० प० अ० ) । चक्षिकादेशो वा । तः ( ३।२।१०२ ) (१) ॥*॥ गण्यते स्म । क्तः ( ३।२।१०२ ) ॥ (२) ॥*॥ द्वे 'संख्यातस्य' || अथ समं सर्वम् ॥ ६४ ॥ | विश्वमशेषं कृत्स्नं समस्त निखिलाखिलानि निःशेषम् । समयं सकलं पूर्णमखण्डं स्यादनूनके ॥ ६५ ॥ पेलेति ॥ पेलनम् । 'पिल भेदने' ( तु० प० से० ) घञ् ( ३।३।१८ ) । पेलोऽस्यास्ति । 'अन्येभ्योऽपि - ' ( वा० ५१२१०९ ) इति वः ॥ (१) ॥*॥ वि राति । बाहुलकात्कलन् ॥ ( २ ) ॥*॥ तन्यते । 'भृमृ ' ( उ० १।७ ) इत्युः । "तनुर्वपुस्त्वचोः । विरलेऽल्पे कृशे' इति हैमः ॥ (३) ॥*॥ त्रीणि 'विरलस्य' ॥ ॥ अथेति ॥ समति । ‘षम वैक्लव्ये' ( भ्वा० प० से० ) । अच् (३।१।१३४)। सर्वार्थ सर्वनाम । 'समा संवत्सरे स्त्रियाम् । सर्वसाधुसमानेषु समं स्यादभिधेयवत्' इति विश्वः (मेदिनी ॥ (१) ॥॥ सरति । 'सृ गतौ' (भ्वा० प० अ० ) । ‘सर्वनिघृष्व-' ( उ० १।१५३ ) इति साधुः । - ' सर्तेर्वः ' - इति मुकुटस्त्वपाणिनीयः । यद्वा, सर्वति । 'पर्व गतौ' (भ्वा० प० से० ) । अच् ( ३।१।१३४ ) ॥ ( २ ) ॥*॥ विशति । 'विश प्रवेशने' (तु० प० अ०)। 'अशू पुषि - ' ( उ० १।१५२ ) इति कुन् । 'विश्वं कृत्स्ने च भुवने विश्वे देवेषु नागरे । विश्वा - ऽप्यतिविषायां स्यात्' ( इति विश्वः ) ॥ (३) ॥*॥ न शोषोऽस्य ॥ (४) ॥*॥ कृत्यते । 'कृती वेष्टने' (रु० प० से ० ) । ‘कृत्यशुभ्यां वस्नः' (उ० ३।१७ ) । ' कृत्स्नं सर्वाम्बुकुक्षिषु' ( इति मेदिनी ) ॥ (५) ॥*॥ समस्यते स्म । 'असु क्षेपणे' (दि० प० से०)। क्तः ( ३।२।१०२ ) ॥ (६) ॥॥ निवृत्तं खिलमस्य ॥ (७) ॥*॥ न खिलमस्य ॥ ( ८ ) ॥ *॥ निष्क्रान्तं शेषात् । 'निरादयः -' ( वा० २।२।१८ ) इति समासः ॥ (९) ॥*॥ संगतमग्रमस्य । समं ग्रसते वा । 'ग्रसु अदने (भ्वा० आ० से० ) । 'अन्येभ्योऽपि - ' ( वा० ३।२।१० १) इति डः ॥ (१०) ॥*॥ सह कलाभिः ॥ (११) ॥*॥ पूर्यते स्म । 'पूरी आप्यायने' ( दि० आ० से० ) । कर्तरि ( ३|३|१७४ ) कर्मणि ( ३।२।१०२ ) वा तः । 'पूर्णः शब्दे (शके) समग्रे ना पूरिते त्वभिधेयवत्' ( इति मेदिनी ) ॥*॥ 'पूर्वम्' इति पाठः - इति स्वामी । पूर्वति । 'पूर्व पूरणे' (भ्वा० प० से० ) । अच् ( ३।१।१३४) ॥ ( १२ ) ॥*॥ न खण्ड्यते 'खडि भेदने' ( चु० प० से० ) । घञ् ॥ (१३) ॥*॥ ऊनयति । ‘ऊन परिहाणे' (चु॰ उ० से० ) । अच् (३।१।१३४) । । | समीपे निकटासन्नसंनिकृष्टसनीडवत् ॥ ६६ ॥ सदेशाभ्याश सविधसमर्यादसवेशवत् । उपकण्ठान्तिकाभ्यर्णाभ्यश्री अप्यभितोऽव्ययम् ६७ | सेति ॥ संगता आपो यस्मिन् । 'ऋक्पूर्-' ( ५१४/७४ ) इत्यः । 'द्व्यन्तरुपसर्गेभ्योऽप ईत् ' ( ६।३।९७ ) ॥ (१) ॥*॥ निबन्धम् । 'संप्रोदश्च - 2 (५/२/२९) इति चापन्ने कटच् । निकटति वा । ' कटे वर्षावरणयो:' ( वा० प० से० ) । अच् ( ३।१।१३४) ॥ ( २ ) ॥ ॥ आसीदति स्म । 'गत्यर्था-' ( ३४।७२ ) इति कः । आसयते स्म इति वा । क्तः ( ३।२।१०२) (३) ॥*॥ संनिकृष्यते स्म । 'कष' (भ्वा० प० अ० ) । क्तः (३।२।१०२ ) ॥ (४) ॥ * ॥ समानं नीडं वासस्थानस्य । नीडेन इति ॥ ( ५ ) ॥ *॥ समानो देशोऽस्य ॥ ( ६ ) ॥*॥ अभ्यश्यते । 'अशु व्याप्तौ ' ( खा० आ० से० ) । घञ् ( ३।३|१९ ) ॥*॥ मुकुटस्तु — अभ्यासीदति । 'अन्येभ्योऽपि - ' वा० ३।२।१०१ ) इति डः - इति दन्त्यसमाह । 'अभ्यासोऽभ्यसनेऽन्तिके' इति दन्त्यान्तेषु ( विश्व- मेदिन्यौ ) ॥ (७) ॥*॥ समाना विधाऽस्य । यद्वा - सह विधया ॥ ( ८ ) ॥*॥ समाना मर्यादाऽस्य ॥ ( ९ ) ॥*॥ समानो वेशोऽस्य ॥ (१०) |॥*॥ उपगतः कण्ठम् । 'अत्यादयः - ( वा० २।२।१८ ) इति समासः । उपगतः कण्ठः सामीप्यमस्य इति वा ॥ ( ११ ) ॥*॥ अन्तोऽस्यास्ति । ठन् ( ५।२।११५ ) । ' अन्तिकं निकटे वाच्यलिङ्गं स्त्री शोभनौषधौ । चुलयां ज्येष्ठभगिन्यां च नाट्योक्त्यां कीर्त्यतेऽन्तिका' इति विश्व मेदिन्यौ ॥ (१२) ॥*॥ १–“भ्यग्राभिपतिता ह्यमी - इति कचित्पाठः - इति पीयूष - व्याख्या ॥ (
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy