SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ अमरकोषः । ३७० क्षुद्यते। ‘स्फायितश्च्चि–’ (उ० २।१३ ) इति रक् । रलयोरेकत्वस्मरणात् कपिलिकादित्वात् ( वा० ८।२।१८ ) वा लत्वम् । 'क्षुल्लकत्रिषु नीचेऽल्पे' इति विश्वः ॥ (३) ॥*॥ श्लिष्यते, श्लिष्यति वा । 'श्लिष आलिङ्गने' ( दि० प० अ० ।। 'विषे रश्च्चोपधायाः' (उ० ३।१९) इति नः ॥ (४) ॥*॥ सूच्यते । ‘सूच पैशुन्ये' (चु० प० से०)। 'सूचेः स्मन्' (उ० ४।११७ ) । 'सूक्ष्मं स्यात्कतकेऽध्यात्मे पुंस्यणौ त्रिषु चाल्पके' इति विश्वः (मेदिनी)॥ (५) ॥*॥ दभ्यते । 'दम्भु दम्भने ' ( वा० प० से०)। ‘स्फायितच्चि—' (उ० २।१३) इति रक् ॥ ( ६ ) ॥ * ॥ कृश्यते स्म । ‘कृश तनूकरणे' (दि० प० से ० ) । ' - फुलक्षीब - ' (८।२।५५) इति साधुः ॥ (७) ॥*॥ तन्यते । 'तनु विस्तारे' (त० उ० से०) । ——तनिचरि-' ( उ० १।७ ) इत्युः । ' तनुः काये त्वचि स्त्री स्यात्रिष्वल्पे विरले कृशे' इति विश्व मेदिन्यौ ॥ (८) ॥*॥ मीयते । ‘माङ् माने' (दि०आ०अ०) ष्ट्रन् (उ०४११५९)। अनित्यः षितां ङीष् । टाप ( ४।१।४ ) । ' मात्रं त्ववधृतौ स्वार्थे कात्न्यै मात्रापरिच्छदे | अक्षरावयवे द्रव्ये मानेऽल्पे कर्णभूषणे । काले वृत्ते च' इति हैमः ॥ ( ९ ) ॥*॥ त्रुट्यते । 'त्रुट छेदने' ( चु० आ० से० ) । 'इगुपधात्कित्' ( उ० ४। १२०) इतीन् ॥ (१०) ॥*॥ लूयते । 'लूज् छेदने' ( क्या ० उ० से० ) । ‘ऋदोरप्' ( ३।३।५७) । 'लवः कालभिदि च्छिदि । विलासे रामजे लेशे तथा किंजल्कपक्ष्मणोः । गोपुच्छलोमखपि च' इति है मः ॥ (११) ॥ * ॥ लिशति । 'लिश गतौ' (तु० प० अ० ) । अच् ( ३।१।१३४) । लिश्यते वा । घञ् ( ३।३।१९ ) ॥ ( १२ ) ॥ ॥ कणति । 'कण निमीलने ' (चु० उ० से० ) । अच् ( ३।१।१३४) । ' कणो धान्यांशलेशयोः । कणा जीरक पिप्पल्यो:' इति हेमचन्द्रः ॥ (१३) ॥* ॥ अणति, अण्यते वा । 'अण शब्दे' ( भ्वा० प० से० ) । ‘अणश्च’ (उ० १।८) इत्युः । ' अणुत्रीह्यल्पयोः' इति हैमः ॥ (१४) ॥ * ॥ चतुर्दश 'सूक्ष्मस्य' ॥ अत्यल्पेऽल्पिष्ठमल्पीयः कनीयोऽणीय इत्यपि ॥ ६२॥ अत्येति ॥ अतिशयेनाल्पः ॥ (१) ॥*॥ ' अजादी गुणघचनादेव' (५।३।५८) इतीष्टश्रीयसुनौ ॥ ( २ ) ॥*॥ (३) ॥*॥ ‘युवाल्पयोः कनन्यतरस्याम् ' ( ५।३।६४ ) इति कन् वा ॥ (४) ॥*॥ अतिशयेनाणुः । ईयसुन ( ५/३/५७ ) ॥ ( ५ ॥*॥ चत्वारि (पञ्च) 'अत्यल्पस्य' ॥ ) [ तृतीयं काण्डम् 'इगुपध - ' ( ३।१।१३५ ) इति कः । ' प्रगतं चुरायाः' इति वा ॥ ( २ ) ॥ * ॥ प्रवीयते । 'अज गतौ ' ( स्वा०प० से० ) इति वी न। यद्वा - प्रकर्षेणाज्यते काम्यते । 'अश्रू व्यक्त्यादौ' (रु० प० से० ) । आङ्पूर्वात् 'अजेः संज्ञायाम्' ( वा० ३।१।१०९) इति क्यप् ॥ ( ३ ) ॥*॥ दादण्यत् । नञ्समासः ( २/२/६) ॥ (४) ॥*॥ बहून् लाति । 'आतोऽनुप -' ( ३ |२| ३ ) इति कः । ' बहुला नीलिकायां स्यादेलायां गवि योषिति । कृत्तिकासु स्त्रियां भूनि विहायसि पुंकम् । पुंस्यनौ कृष्णपक्षे च वाच्यवत्प्राज्यकृष्णयोः' इति विश्वमेदिन्यौ ॥ ( ५ ) ॥*॥ बंहते । 'बहि वृद्धौ' ( वा० आ० से०) 'लङ्घिबह्योर्नलोपश्च ' ( उ० १।२९) इत्युः । यत्तु — बृंहते वर्धते बहु पूर्यते । मितद्वादित्वात् ( वा० ३।२।१८० ) डुः - इति मुकुटेनोक्तम् । तन्न । टिलोपेनोक्तरूपासिद्धिप्रसङ्गात् । ' बहु स्यान्त्र्यादिसंख्यासु विपुलेऽप्यभिधेयवत्' इति विश्वः ( मेदिनी ) ॥ ( ६ ) ॥*॥ पुरून् हन्ति गच्छति । 'अन्ये• भ्योऽपि ' ( वा० ३।२।१०१ ) इति डः । यद्वा - पुरुन् जहाति, जिहीते वा । 'आतोऽनुप - ' ( ३।२।३ ) इति कः ॥ ( ७ ) ॥*॥ पिपर्ति, पूर्यते वा । 'पू पालनपूरणयोः' (जु० प० से ० ) । 'पृभिदि - ' ( उ० १।२३ ) इति कुः । यत्तु — 'पृक्तः गृधृषिभ्यः कुः' इति सूत्रं पठितं मुकुटेन । तन्न । 'कृग्रोरुच' इति पृथक्सूत्रात् । अन्यथोत्वाभावप्रसङ्गात् । 'पुरुः प्राज्ये ऽभिधेयवत् । पुंसि स्याद्देवलोके च नृपभेदपरागयोः' इति हैमः (मेदिनी ॥ ( ८ ) ॥* ॥ अतिशयेन बहु । 'बोर्लोपोभू च बहोः' (६।४।१५८) 'इष्टस्य यिट् च' (६/४/१५९ ) । स्वार्थे चेष्विष्ठादयः ॥ ( ९ ) ॥ ॥ स्फायते । 'स्फायी वृद्धी' ( भ्वा० आ० से ० ) । ' अजिरशिशिर - ' ( उ० १/५३ ) इति साधुः ॥*॥ 'स्फारम्' इत्यपि पाठः । रक् ( उ० २।१३ ) | 'स्फारस्तु स्फरकादीनां बुद्बुदे विपुलेऽपि च' इति हेमचन्द्रः ॥ (१०) ॥*॥ अतिशयेन बहु । 'बहोर्लोपो भू च बहोः' ( ६।४।१५८ ) ॥ (११) ॥ ॥ भवति । 'अदिशदिभूशुभिभ्यः क्रिन' (उ० ४।६५) 'भूरि स्यात्प्रचुरे स्वर्णे' इति हैमः । ('भूरिर्ना वासुदेवे च हरे च परमेष्ठिनि । नपुंसकं सुवर्णे च प्राज्ये स्याद्वाच्यलिङ्गकः' ( इति मेदिनी ) ॥ (१२) ॥ ॥ द्वादश 'बहुलस्य' ॥ परश्शताद्यास्ते येषां परा संख्या शतादिकात् । प्रभूतं प्रचुरं प्राज्यमदभ्रं बहुलं बहु । पुरुहं पुरु भूयिष्ठं स्फिरं भूयश्च भूरि च ॥ ६३ ॥ पेति ॥ शतात् परे । 'पञ्चमी - ' (२।१।३७) इति योगविभागात्समासः । राजदन्तादिः (२।२।३१ ) । पारस्करादित्वात् प्रेति ॥ प्रभवति स्म । 'गत्यर्था - ' ( ३।४।७२ ) इति | ( ६।१।१५७) सुटू ॥ ( १ ) || || आद्येन परस्सहस्राः ॥ ॥ | क्तः । ‘प्रभूतमुद्गते प्राज्ये' इति हैमः ॥ (१) ॥*॥ प्रचरति । 'चुर स्तेये' (चु० प० से० ) । चुरादीनां णिज्वैकल्पिकः । एक 'शतात्परस्य' ॥ गणनीये तु गणेयम् १ - इत्यादिपाठस्तु हैमानेकार्थकैरवा कर कौमुदी पुस्तके नास्ति । मेदिन्यादिष्वपि लवशब्दस्यैतदर्थकता नोपलभ्यते ॥ गेति ॥ आर्या छन्दः ॥* ॥ गण्यते । ' गण संख्याने' (चु० उ० से०) । अनीयर् (३।१।९६ ) ॥ (१) ॥*॥ ' अचो यत्’
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy