SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ विशेष्यनिघ्नवर्गः १ ] व्याख्यासुधाख्यव्याख्यासमैतः । ३६७ 'इगुपध-' (३।१।१३५) इति कः ॥ (३) ॥*॥ त्रीणि 'उद्भि- अ० ) । ' करणा- ' ( ३।३।११७ ) इति ल्युट् । 'संज्ञायां कन् ' दाम्' ॥ (५।३।७५) ॥*॥ ( 'आसेचनम् ' ) इति दीर्घादिपाठे आ बोध्यः ॥ (१) ॥*॥ एकम् ' यद्दर्शनात्तृप्तिर्न भवति तस्य' ॥ अभीष्टेऽभीप्सितं हृद्यं दयितं वल्लभं प्रियम् ॥ ५३ ॥ । ' । सुन्दरं रुचिरं चारु सुषमं साधु शोभनम् । कान्तं मनोरमं रुच्यं मनोशं मंजु मंजुलम् ॥ ५२ ॥ स्विति ॥ सुद्रियते । 'दृङ् आदरे' (तु० आ० अ० ) । 'ग्रहगृह-' ( ३।३।५८) इत्यप् । पृषोदरादिः ( ६।३।१०९ ) । यद्वा,-सु उनत्ति चित्तं द्रवीकरोति । 'उन्दी क्लेदने' (रु० प० से० ) । बाहुलकादरः । शकन्ध्वादिः ( वा० ६।१।९४ ) त्रियां गौरादित्वात् ( ४।१।४१ ) ङीष् ॥ (१) ॥ ॥ रोचते । ‘रुच दीप्तावभिप्रीतौ च' ( भ्वा० आ० से० ) । 'इषिमदिमुदि -' ( उ० १।५१) इति किरच् ॥ ( २ ) ॥*॥ चरति चित्ते । 'चर गतौ' (भ्वा० प० से० ) । ' दृसनिजनि-' ( उ० ११३ ) इति जुण्। 'चारुर्ब्रहस्पतौ पुंसि शोभने त्वभिधेयवत्' इति विश्वः (मेदिनी ) ॥ (३) ॥*॥ सु शोभनं समं सर्वमस्य । 'सुविनिर्दुर्न्यः-' (८।३।८८) इति षत्वम् ॥ (४) ॥ ॥ सानो त्यर्थम् । ‘साध संसिद्धौ’ ( खा० प० अ० ) । 'कृवापा-' ( उ० ११) इत्यु | 'साधुर्जेने मुनौ वार्धुषिके सज्जनरम्ययोः इति हेमचन्द्रः ॥ (५) ॥*॥ शोभते । 'शुभ दीप्तौ' (भ्वा० आ० से० ) । ‘अनुदात्तेतश्च- ' ( ३।२।१४९ ) इति युच् 'शोभनो योगभेदे ना सुन्दरे वाच्यलिङ्गकः' (इति मेदिनी ॥ (६) ॥*॥ कम्पते स्म । ‘कमु कान्तौ ' ( वा० आ० से० ) । कः ( ३।२।१०२ ) । 'यस्य विभाषा' (७।२।१५) इति नेट् । ‘अनुनासिकस्य-' (६।४।१५) इति दीर्घः । यद्वा - कनति स्म । ‘कनी दीयादौ’ (भ्वा० प० से० )। 'गत्यर्था - (३।४।७२) इति कः । 'कान्ता नार्यां प्रियङ्गौ स्त्री शोभने त्रिषु ना धवे । लोहे च चन्द्रसूर्याय: पर्यायान्तु शिलासु च' इति विश्व मेदिन्यौ ॥ ( ७ ) ॥*॥ मनो रमयति । 'रमु क्रीडायाम् ' ( भ्वा० आ० से० ) ण्यन्तः। ‘कर्मण्यण्’ ( ३।२।१) ॥ * ॥ 'मनोहरम्' इति पाठे — मनो हरति । 'हरतेरनुद्यमने -' ( ३।२।९) इत्यच् ॥ (८) ॥*॥ रोचते, रुच्यते, वा । 'राजसूय-' ( ३।१।११४ ) इति साधुः ॥ (९) ॥*॥ मनसा जानाति । 'इगुपध - ( ३।१।१३५ ) इति कः । निवृत्तप्रेषणोऽत्र जानातिः ।-मूलविभुजादित्वात् ( वा० ३।२१५ ) कः - इति मुकुटः । तन्न । तस्यापि कर्तरि विहितत्वेन 'ज्ञायते' इति विग्रहप्रदर्शनस्य विरुद्धत्वात् । यदपि — 'सुप्सुपा - ' ( २1१1४ ) इति समासः - इति । तदपि न । ‘कर्तृकरणे - ( २।१।३२ ) इति तत्पुरुषविधायकस्य सत्त्वात् ॥ (१० ) ॥ * ॥ मञ्ज्यते । 'सजि ध्वनी' इति सौत्रो धातुः। बाहुलकादुः ॥ (११) ॥*॥ मञ्जु मंजुत्वं लाति । ‘आतोऽनुप-’' (३।२।३ ) इति कः । 'मंजुलं च चलाचले। रम्ये कुजे मंजुलस्तु दात्यूहे' इति हैमः ॥ ॥*॥ द्वादश 'मनोरमस्य' ॥ तदासेचनकं तृप्तेर्नास्त्यन्तो यस्य दर्शनात् । तेति ॥ न सिच्यते मनोऽत्र । 'पिच क्षरणे' ( तु० उ० ( १२ ) अभीति ॥ अभित इष्यते स्म । 'इषु इच्छायाम्' ( तु० प० से०) । क्तः ( ३।२।१०२ ) । 'अभीत्थंभूतकथने', 'अभि वीप्साभिमुख्ययोः' इति विश्वः ॥ (१) ॥*॥ अभ्या स्म । 'आप व्याप्तौ ' ( वा० प० अ० ) । सन् ( ३।१।७ ) । 'आब्ज्ञप्यृधामीत्' (७१४/५५ ) । कः ( ३।२।१०२ ) ॥ (२) ॥*॥ हृदयस्य प्रियम् । 'हृदयस्य प्रियः ' ( ४/४/९५ ) इति यत् । ' हृदयस्य हृल्लेख - ' ( ६|३|५० ) इति हृदादेश: । ' हृद्यं धवलजीरे च हृत्प्रिये हृद्भवेऽपि च । वशकृद्वेदमन्त्रे च हृद्या वृद्ध्याख्यभेषजे' इति विश्वः ॥ (३) ॥*॥ दध्यते स्म । 'दय दानादौ' (भ्वा० आ० से० ) क्तः ( ३१२१• १०२ ) ॥ (४) ॥*॥ वलयते, वल्लते च । 'वल्ल संवरणे' ( भ्वा० आ० से० ) । 'रासिवल्लिभ्यां च ' ( उ० ३।१२५ ) इत्यभच् । 'वल्लभो दयितेऽध्यक्षे सल्लक्षणतुरंगमे' इति विश्वः मेदिनी ) ॥ ( ५ ) ॥ ॥ प्रीणाति । 'प्रीञ् तर्पणे' (क्र्या० उ० अ० ) । ' इगुपध - ' ( ३।१।१३५ ) इति कः । 'प्रियो वृद्ध्यौषधे हृद्ये धवे' इति हैमः ॥ ( ६ ) ॥ ॥ षट् 'प्रियस्य' ॥ निकृष्ट प्रतिकृष्टार्वरेफयाप्यावमाधमाः । कुपूयकुत्सितावद्यखेटगर्हाणकाः समाः ॥ ५४ ॥ ( नीति ॥ निकृष्यते स्म । 'कृष विलेखने' (स्वा० प० अ०, तु० उ० ) । क्तः (३।२।१०२ ) ॥ (१) ॥ * ॥ प्रतिकृष्यते स ॥ (२) ॥*॥ ऋच्छति । 'ऋ गतौ' ( भ्वा० प० से० ) । 'अन्येभ्योऽपि -' ( ३।२।७५ ) इति वनिप् । यद्वा - ऋच्छतेः 'अवद्यावमाधमार्वरेफाः कुत्सिते' ( उ० ५।५४ ) इति वन्नन्तो निपातः । ' अर्घा तुरंगमे पुंसि कुत्सिते वाच्यलिङ्गकः' ( इति मेदिनी ) ॥ (३) ॥ ॥ रिफ्यते । 'रिफ कत्थनयुद्धनिन्दाहिंसादानेषु ' ( तु० प० से० ) । 'अकर्तरि च - ' ( ३।३।१९ ) इति घञ् । यद्वा - रिफतेः 'अवद्यावमाधम -' ( उ० ५/५४ ) इति अप्रत्ययान्तो निपातः । 'रेफो रवर्ण पुंसि स्यात्कुत्सिते वाच्य - वत् पुनः' इति विश्वः ॥*॥ 'रेप' इति पाठे 'री गतिरेषणयो:' ( क्या० प० अ० ) । बाहुलकात् पः । 'रेपः स्यानिन्दिते क्रूरे' इति विश्वः ॥ (४) ॥*॥ याप्यते । 'या प्रापणे' (अ० प० अ० ) ण्यन्तः । ‘अचो यत्' (३।१।९७)। 'याप्यं तु यापनीये स्यान्निन्दितेऽप्यभिधेयवत्' ( इति मेदिनी ) ॥ (५) ॥*॥ अवत्यस्मादात्मानम् । 'अव रक्षणादौ' ( भ्वा० प० से ० ) । 'अवद्या -' ( उ० ५/५४ ) इति सूत्रेणामप्रत्ययान्तो १- रेपाः सान्तोऽपि । 'प्रापे रूपी पुरा रेपाः' इति माघस्य बक्षरयमकम् - प्रति मुकुटः 11
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy