SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ ३६४ अमरकोषः । सेचने' (भ्वा० आ० से० ) । भावे घञ् (३|३|१८ ) । शीकः क्षरणार्थत्वादश्रुपाते वर्तते । वैक्लव्ययुक्तोऽश्रुपातः । कान्दि - शीकः । तद्योगाज् ज्योत्स्नाद्यण् ( ५।२।१०३ ) – इत्याह ॥ (१) ॥*॥ अदुद्रुवत् । 'दु गतौ' ( भ्वा० प० से ० ) कर्तरि क्तः ( ३।४।७२)। भयाद्द्रुतः । ' पञ्चमी - ' ( २।१।३७ ) इति योगविभागात् समासः ॥ ( २ ) ॥*॥ द्वे 'भयेन पलायि तस्य' ॥ आक्षारितः क्षारितोऽभिशस्ते आक्षेति ॥ आक्षार्यते सा । 'क्षर संचलने' ( भ्वा० प० से ० ) । ण्यन्तः । क्तः ( ३।२।१०२ ) आक्षारो मैथुनं प्रत्याक्रोशो जातोऽस्य इति वा । इतच् (५।२।३६ ) ॥ (१) ॥*॥ ‘क्षारितः स्राविते क्षारे चाभिशस्तेऽपि च त्रिषु' (इति मेदिनी ) ॥ ( २ ) ॥*॥ अभिशस्यते स्म । 'शसु हिंसायाम्' (भ्वा० प० से० ) । कः ( ३।२।१०२ ) । 'यस्य विभाषा' (७२।११५) इति नेट् । 'धृषिशसी - ' ( ७।२।१९ ) इति वा ॥ (३) ॥*॥ त्रीणि 'मैथुननिमित्तं मिथ्यादूषितस्य' ॥ संकसुकोऽस्थिरे । समिति ॥ संकसति । 'कस गतौ ' ( भ्वा० प० से० ) । 'समि कस उकन्' (उ० २।२९ ) । - 'यूकादयः' इति कन्, उक् चागमः - इति मुकुटस्त्वपाणिनीयः ॥ (१) ॥*॥ न स्थिरः ॥ ( २ ) ॥*॥ द्वे 'चलखभावस्य' ॥ व्यसनात परक्तौ द्वौ व्येति ॥ व्यसनेनार्तः ॥ (१) ॥ * ॥ उपरज्यते स्म । 'रज रागे' (भ्वा० प० अ० ) । कः ( ३।२।१०२) 'उपरतो, व्यसनार्ते राहुग्रस्तेन्दुसूर्ययोः' इति विश्वः (मेदिनी ) ॥ ( २ ) ॥*॥ द्वे 'दैवमानुषपीडायुक्तस्य' ॥ विहस्तव्याकुलौ समौ ॥४३॥ - वीति ॥ विक्षिप्तो हस्तोऽस्य । 'विहस्तस्तु विह्वले पण्डके ऽकरे' इति हैमः॥ (१) ॥*॥ व्याकोलति । 'कुल संस्त्याने बन्धुषु च' (भ्वा० प० से० ) । ' इगुपध - ' ( ३।१।१३५) इति कः ॥ (२) ॥*॥ द्वे 'शोकादिभिरितिकर्तव्यताशून्यस्य' ॥ विक्लव विह्वलः वीति ॥ विक्लवते। ‘क्लुङ् गतौ' (भ्वा० आ० से० ) . अच् ( ३।१।१३४) ॥ (१) ॥ * ॥ विह्वलति । 'हल चलने ' (भ्वा० प० से० ) । अच् ( ३।१।१३४ ) ॥ ( २ ) ॥*॥ द्वे 'स्वाङ्गान्येव धारयितुमशक्तस्य' ॥ स्यात्तु विवशोऽरिष्टदुष्टधीः । स्यादिति ॥ विरुद्धं वष्टि । 'वश कान्तौ ' (अ० प० से० ) । अच् (३।१।१३४)। ‘विवशस्त्रिष्ववश्यात्मारिष्टदुष्टधियोरपि' [ तृतीय काण्डं धीर्यस्य ॥ ( २ ) ॥*॥ द्वे 'आसन्नमरणलक्षणेन दूषितमतेः' ॥ कश्यः कशार्हे केति ॥ कशामर्हति । ' दण्डादिभ्यो यः' ( ५।१।६६ ) । 'कश्यं कशार्हमययोः । अश्वमध्येऽपि' इति हैमः ॥ (१) ॥*॥ कशामर्हति । 'अर्हः' ( ३।२।१२ ) इत्यच् ॥ (२) ॥*॥ द्वे 'ताडनार्हस्य' ॥ संनद्धे वाततायी वधोद्यते ॥ ४४ ॥ समिति ॥ संनह्यति स्म । 'गह बन्धने' (दि० उ० अ० ) । अकर्मकत्वात् कर्तरि क्तः ( ३।४।७२ ) । भावतान्तात् अर्शआद्यच् (५।२।१२७) वा ॥*॥ आततं यथा तथाऽयितुं शीलमस्य । ‘अय गतौ' (भ्वा० आ० से ० ) । 'सुपि - ' ( ३।२।७८) इति णिनिः ॥ (१) ॥*॥ एकम् ' वधोद्यतस्य' ॥ द्वेष्ये त्वक्षिगतः द्वयति ॥ द्वेष्टुमर्हः । 'द्विष अप्रीतौ' (अ० उ० अ० ) । ण्यतू ( ३।१।१२४ ) ॥ (१) ॥*॥ अक्षिविषयं गतः। शाक पार्थिवादिः (वा० २।१।७८) ॥ ( २ ) ॥ ॥ द्वे द्वेषार्हस्य' ॥ वध्यः शीर्षच्छेद्य इमौ समौ । वेति ॥ वधमर्हति स्म । 'दण्डादिभ्यो यः ' ( ५|१|६६ ) । यद्वा, - हन्तुमर्हः । 'हनो वध च' ( वा० ३।१।९७ ) इति यत् ॥ (१) ॥*॥ शीर्षस्य शिरसश्छेदः । तमर्हति । 'शीर्षच्छेदायच' (५।१।६५) ॥ ( २ ) ॥ * ॥ द्वे 'शिरश्छेदार्हस्य' ॥ विष्यो विषेण यो वध्यः वीति ॥ विषेण वध्यः । 'नौवयोधर्म - ' ( ४|४|११ ) इति यत् ॥ (१) ॥*॥ एकम् 'विषेण वध्यस्य' ॥ मुसल्यो मुसलेन यः ॥ ४५ ॥ विति ॥ मुसन वध्यः । ' दण्डादिभ्यो यः ' ( ५ ।११६६) (१) ॥*॥ एकम् 'मुसलेन वध्यस्य' ॥ शिश्विदानोऽकृष्णकर्मा शीति ॥ अकृष्णं शुक्लं कर्मास्य ॥ ( २ ) ॥ ॥ शिश्विन्दे 'श्विदि श्वैत्ये' ( भ्वा० आ० से० ) । लिटः कानच् ( ३३२ ॥ १०६) अनित्यत्वान्न नुम् ॥ (१) ॥* ॥ द्वे अपापकर्मणः । वर्ण' (भ्वा० आ० से०) धातुः । श्वेतितुमिच्छति । 'श्वितेर्द' 'कृष्णकर्मा' इति पाठान्तरम् ॥ ( २ ) ॥ * ॥ तत्र 'श्चित ( उ० २१९२ ) इत्यानच्, दत्वम्, सनो लुक् ॥ (१) ॥*॥द्वे 'पापकर्मणः ' " चपलश्चिकुरः समौ । चेति ॥ चपति । 'चप सांत्वने' ( भ्वा० प० से ० ) । १-वध उपलक्षणम् । यत्स्मृतिः - 'अग्निदो गरदश्चैव शस्त्रपाती ( इति मेदिनी ) ॥ (१) ॥ * ॥ अरिष्टेन दुष्टा । अरिष्टदुष्टा | ( णिर्ध )धनापहः । क्षेत्रदारहरश्चैव षडेते त्वाततायिनः' इति क्षीरस्वामी ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy