SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ विशेष्यनिघ्नवर्गः १ ] कविधानस्य स्वरार्थत्वात् । ठकि उदात्तनिवृत्तिस्वरेण मध्योदात्त - ताप्रसङ्गाच्च । वृद्धि ( ७।२।११८ ) प्रसङ्गाच्च ॥ ( २ ) ॥*॥ द्वे 'मौनशीलस्य' ॥ नग्नोsवासा दिगम्बरः । नेति ॥ नजते स्म । 'ओनजी व्रीडे' ( सु० आ० से ० ) । अकर्मकत्वात् क्तः (३।४।७२ ) । 'ओदितश्च' ( ' (८२२४५) इति नत्वम् । 'नग्नो बन्दिक्षपणयोः पुंसि त्रिषु विवाससि' इति विश्वः (मेदिनी) ॥ (१) ॥ * ॥ न वासोऽस्य ॥ (२) ॥*॥ दिगेवाम्बरं यस्य । ‘दिगम्बरः स्यात्क्षपणेऽधने तमसि शंकरे' ( इति मेदिनी ) ॥ (३) ॥* ॥ त्रीणि 'नग्नस्य' ॥ निष्कासितोऽवकृष्टः स्यात् नीति ॥ निष्कास्यते स्म । 'कस गतौ' ( भ्वा० प० से०) । ण्यन्तः । क्तः (३।२।१०२ ) ॥ (१) ॥ ॥ अवकृष्यते स्म । 'कृष विलेखने' (भ्वा० प० अ० ) । क्तः ( ३।२।१०२ ) ॥ (२) ॥*॥ द्वे 'निष्कासितस्य' ॥ व्याख्यासुधाख्यव्याख्यासमेतः । अपध्वस्तस्तु धिक्कृतः ॥ ३९ ॥ अपेति ॥ अपध्वस्यते स्म । 'ध्वंसु अधः संसने, गतौ च ' (भ्वा० आ० से०) । क्तः ( ३।२।१०२ ) । ' अपध्वस्तः परित्यक्ते निन्दितेऽप्यवचूर्णिते’( इति मेदिनी ) ॥ (१) ॥*॥ `'धिक्' इति कृतः ॥ (२) ॥*॥ द्वे 'धिक्कृतस्य ' ॥ आत्तगर्वोऽभिभूतः स्यात् आत्तेति ॥ आत्तो गर्यो यस्य ॥*॥ 'आत्तगन्धः' इति पाठान्तरम् । 'गन्धो गन्धक आमोदे संबन्धे लेशगर्वयोः ' इति विश्वः । 'गन्धो गर्यो लवोऽपि च' इति त्रिकाण्डशेषः ॥ (१) ॥*॥ अभिभूयते स्म । कः ( ३।२।१०२ ) ॥ ( २ ) ॥*॥ द्वे 'गर्वारूढस्य' ॥ - चत्वारः पर्यायाः - इत्येके ॥ दापितः साधितः समौ । देति ॥ दाप्यते स्म । 'दाप्' (जु० उ० अ० ) ण्यन्तः ॥* ॥ 'दायितः' इति पाठान्तरम् । तत्र 'दय दाने' ( भ्वा० आ० से ० ) इति धातुः ॥ (१) ॥ ॥ साध्यते स्म । 'साथ संसिद्धौ ' ( खा० प० अ० ) ॥ ( २ ) ॥ * ॥ - द्वे 'धनादिकं प्रदापितस्य' - इति मुकुटः । प्रदापितस्य धनादेर्वा ॥ प्रत्यादिष्टो निरस्तः स्यात्प्रत्याख्यातो निराकृतः ॥४०॥ प्रेति ॥ प्रत्यादिश्यते स्म । 'दिश अविसर्जने' ( तु० उ० अ० ) । कः ( वा० ३।२।१०२ ) ॥ (१) ॥ ॥ निरस्यते स्म । ‘असु क्षेपणे' (दि० प० से० ) । क्तः (३।२।१०२) 'निरस्तः प्रेषितशरे संत्यक्ते त्वरितोदिते । निष्ठ्यते प्रतिहते च' इति हैमः ॥ ( २ ) ॥ *॥ प्रत्याख्यायते स्म । 'ख्या प्रकथने' (अ० प० अ० ) । चक्षिङादेशो वा क्तः ( ३।२।१०२ ) ॥ (३) ॥*॥ निराकारि । कृञ् ( त० उ० अ० ) । क्तः ( ३।२।१०२ ) ॥ (४) ॥* ॥ चत्वारि 'प्रत्याख्यातस्य' ॥ ३६३ निकृतः स्याद्विप्रकृतः नीति ॥ न्यकारि । कः ( ३।२।१०२ ) । 'निकृतं विप्रलब्धे स्याच्छठे विप्रकृते त्रिषु' इति विश्व मेदिन्यौ ॥ (१) ॥*॥ विप्राकारि ॥ ( २ ) ॥*॥ द्वे 'तिरस्कृतस्य' ॥ विप्रलब्धस्तु वञ्चितः । घीति ॥ विप्रलभ्यते स्म । 'डुलभष् प्राप्तौ' (भ्वा० आ० अ० ) । क्तः ( ३।२।१०२ ) ॥ (१) ॥*॥ 'बभ्रु गतौ' (भ्वा० प० से० ) । ण्यन्तः । वञ्चयते स्म । क्तः ( ३।२।१०२ ) ॥ (२) ॥*॥ द्वे 'वञ्चितस्य' ॥ मनोहतः प्रतिहतः प्रतिबद्धो हतश्च सः ॥ ४१ ॥ मेति ॥ मनो हतं यस्य ॥ (१) ॥ * ॥ प्रति हन्यते स्म । तः (३।२।१०२) । ' भवेत्प्रतिहतं द्विष्टे प्रतिस्खलितरुद्धयोः ' ( इति मेदिनी ) ॥ ( २ ) ॥* ॥ प्रतिबध्यते स्म । 'बन्ध बन्धने' क्या ० प० अ० ) । क्तः ( ३।२।१०२ ) ॥ (३) ॥*॥ हन्यते स्म । तः ॥ (४) ॥*॥ चत्वारि 'कृतमनोभङ्गस्य' ॥ अधिक्षिप्तः प्रतिक्षिप्तः अधीति ॥ अधिक्षिप्यते स्म । 'क्षिप प्रेरणे' ( तु० उ० अ० ) । क्तः ( ३।२।१०२ ) । ‘अधिक्षिप्तः प्रणिहिते कुत्सिते भत्सिते त्रिषु' इति विश्व-हेमचन्द्रौ ( मेदिन्यौ ) ॥ (१) ॥*॥ प्रत्यक्षेऽपि । 'प्रतिक्षिप्तं वारिते स्यात्प्रेषिते पञ्चकं त्रिषु' ( इति मेदिनी) । ( ' प्रतिक्षिप्तं प्रतिहते प्रेषिते च निराकृते' इति विश्वः ॥ ( २ ) ॥*॥ द्वे 'कृताक्षेपस्य' ॥ बद्धे कीलित संयतौ । बेति ॥ बध्यते स्म । 'बन्ध बन्धने' (क्या० प० अ० ) । क्तः ( ३।२।१०२ ) ॥ (१) ॥*॥ कील्यते स्म । 'कील बन्धे' ( भ्वा० प० से ० ) । कः (३।२।१०२ ) ॥ ( २ ) ॥*॥ संयम्यते स्म । ‘यम उपरमे’ ( भ्वा० प० अ० ) । क्तः (३1२1१०२) ॥ (३) ॥ ॥ त्रीणि 'बद्धस्य' ॥ आपन्न आपत्प्राप्तः स्यात् आपेति ॥ आपद्यते स्म । 'पद गतौ' (दि० आ० अ० ) । क्तः ( ३।२।१०२ ) । ' आपन्नः सविपत्तौ च प्राप्तेऽपि वाच्यलिङ्गकः' ( इति विश्व-मेदिन्यौ ) ॥ (१) ॥ * ॥ आपदं प्राप्तः ॥ ( २ ) ॥*॥ द्वे 'आपद्रस्तस्य' ॥ कांदिशीको भयद्भुतः ॥४२॥ केति ॥ 'कां दिशं यामि' इत्याह । ' तदाहेति माशब्दादिभ्यः ( वा० ४|४|१) इति ठक् । पृषोदरादिः ( ६।३।१०९) । मुकुटस्तु – 'कदि वैक्लव्ये' (भ्वा० आ० से०)। भावघञन्तात् मत्वर्थं इनिः ( ५ | २|११५ ) । कन्वी । 'शीकृ १- परिगत प्रणिहित- पल्लवित प्रतिहत प्रतिक्षिप्तशब्दरूपम् - इति भाति ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy