________________
शूद्रवर्ग : १० ]
'वेधनी तु लास्फोटन्यां स्फोटनी वृषदंशिका' इति वाचस्पतिः ॥ (२) ॥*॥ द्वे 'मुक्तादिवेधिन्याः' ॥ कृपाणी कर्तरी समे ॥ ३३ ॥ क्रिति ॥ कृपामति । 'अण शब्दे' ( भ्वा० प० से० ) । अण् ( ३।२।१ ) । ङीप् (४।१।१५) । (१) ॥*॥ कृन्तति । 'कृती छेदने' (तु० प० से० ) । बाहुलकादरः । यद्वा, - कर्तनम् । घञ् ( ३।३।१८ ) । कर्त राति । 'रा दाने' (अ० प० अ०)। ‘आतोऽनुप–’ (३।२।३) इति कः । गौरादिः (४/१/४१) ॥ (२) ॥ ॥ द्वे 'कर्तर्याः ' ॥ वृक्षादनी वृक्षभेदी
त्रिति ॥ वृक्षमति । 'अद भक्षणे' (अ० प० से० ) । 'कृत्यल्युटः-' ( ३।३।११३ ) इति ल्युट् ॥ (१) ॥*॥ वृक्षं भेत्तुं शीलमस्य । 'भिदिर् विदारणे (रु० उ० अ० ) 'सुपि - ' (३।२।७८ ) इति णिनिः ॥ (२) ॥*॥ द्वे 'काष्ठतनूकरण- | प्रतिकृतिरच पुंसि प्रतिनिधिः साधनस्य' ॥
व्याख्यासुधाख्यव्याख्यासमेतः ।
टङ्कः पाषाणदारणः । देति ॥ टङ्कयति । 'टकि बन्धने' चुरादिः । अच् ( ३।१११३४ ) । 'टम्' इति शब्दं कायति वा । 'कै शब्दे' (भ्वा० प० अ०)। ‘आतोऽनुप-' ( ३।२१३ ) इति कः । 'सुपि - ' (३।२।४) इति वा ॥ (१) ॥*॥ पाषाणो दार्यतेऽनेन । 'दृ विदारणे' ( क्या ० प० से० ) ण्यन्तः । ल्युट् ( ३।३।११७ ) ॥ (२) ॥*॥ द्वे 'पाषाणदारणार्थस्य घनभेदस्य' ॥
कचोऽस्त्री करपत्रम्
क्रेति ॥ 'ऋ' इति कचति । 'कच शब्दे' (भ्वा० आ० से०) अच् (३।१।१३४) । (‘ऋकचः करपत्रेऽस्त्री ग्रन्थिलाख्यतरौ पुमान्' इति मेदिनी ) ॥ (१) ॥*॥ करेण कराद्वा | पतति । 'पत्ऌ पतने' ( वा० प० से० ) । ष्ट्रन् (उ०४/१५९) ॥ (२) ॥*॥ द्वे 'काष्ठादिविदारणार्थस्य शस्त्रस्य ' 'करोत' इति ख्यातस्य ॥
आरा चर्मप्रभेदिका ॥ ३४ ॥ आरेति ॥ आ इयर्ति, ऋच्छति वा । 'ऋ गतौ' ( जु०, भ्वा० प० अ० ) । अच् ( ३।१।१३४ ) | आर्यते वा । भिदादौ ( ३।३।१०४) 'आरा शरूयाम्' इति पाठात् साधुः । ( 'आरा चर्मप्रभेदिन्यां पुंसि भौमशनैश्चरे' इति मेदिनी ) ॥ (१) ॥*॥ चर्मणः प्रभेदिका ॥ ( २ ) ॥*॥ द्वे 'चर्मखण्डनार्थस्य शस्त्रभेदस्य' ॥ सूर्मी स्थूणायःप्रतिमा
-
स्विति ॥ शोभना ऊर्मिः, बहुव्रीहिर्वा । 'सर्वतोऽक्तिन्न र्थात् -' ( ग० ४।१।४५ ) इति गौरादित्वात् ( ४|१|४१ ) वा ङीष् । - ' ग्रीष्मजात्मशूर्म -' इति मप्रत्यये शूरादेशे चइति मुकुटस्त्वपाणिनीयः । - ' शूर्मी तालव्यादि : ' — इत्यप्य - युक्तम्, ‘सूर्म्यं शुषिरामिव' इति श्रुतिविरोधात् ॥ (१) ॥*॥ १- 'सूमी ज्वलन्तीमालिङ्गेन्मृत्यवे गुरुतल्पगः' इति स्मृतेरपि ।
३४९
तिष्ठति । 'ष्ठा गतिनिवृत्तौ ' ( वा० प० अ० ) । 'रास्नासास्ना - स्थूणा - ' ( उ० ३।१५) इति साधुः । 'स्थूणा सूर्यास्तम्भे रुगन्तरे' इति हैमः ॥ ( २ ) ॥*॥ अयसः प्रतिमा ॥ (३) ॥* ॥ त्रीणि 'लोहप्रतिमायाः ' ॥
शिल्पं कर्म कलादिकम् । शीति ॥ शील्यते । 'शील समाधौ ' ( भ्वा० प० से० ) । शल्यते वा । 'शल गतौ' (भ्वा० प० से ० ) । ' खष्पशिल्प - ' (उ० ३।२८) इति साधुः । 'शिल्पं ब्रुवे क्रियादिके' इति विश्वः (हैमः) ॥ (१) ॥*॥ कला नृत्यगीतादिरूपा चतुःषष्टिभेदभिन्ना । आदिना सुवर्ण कारादिकर्मग्रहः ॥*॥ एकम् ' कलाकौशल्यादिकर्मणः ॥
प्रतिमानं प्रतिविम्बं प्रतिमा प्रतियातना प्रतिच्छाया ॥ ३५ ॥
प्रेति ॥ प्रतिकृत्य मीयतेऽनेन । 'माङ् माने' (अ० आ० अ० ) । ल्युट् ( ३।३।११७ ) ॥ (१) ॥*॥ प्रतिकृतिर्बिम्बं यस्य । 'कुगति - ' ( २।२।१८ ) इति समासः ॥ ( २ ) ॥*॥ प्रतिमीयतेऽनया । ' आतश्चोपसर्गे' ( ३।३।१०६ ) । इत्यङ् । ( ' प्रतिमा गजदन्तस्य बन्धे चानुकृतावपि' इति मेदिनी ) ॥ ( ३ ) ॥*॥ प्रतियात्यतेऽनया । 'यत निकारोपस्कारयोः” ( चुरादिः ) ' व्यासश्रन्थः - ' ( ३।३।१०७ ) इति युच् ॥ (४) ॥ * ॥ प्रकृष्ट छाया ॥ ( ५ ) ॥ * ॥ प्रकृष्टा कृतिः । प्रतिनिधेः कृतिर्वा ॥ ( ६ ) ॥*॥ अर्च्यते । 'अर्च पूजायाम् ' ( भ्वा० प० से० ) । ' गुरोश्च हल : ' ( ३।३।१०३ ) इत्यः ॥ ( ७ ) ॥ *॥ प्रतिनिधीयते सदृशीक्रियते । 'डुधाञ्' (जु० उ० अ० ) । 'उपस घोः कि:' ( ३।३।९२ ) ॥ ( ८ ) ॥*॥ अष्टौ 'प्रतिमायाः ' ॥ उपमोपमानं स्यात् ।
उपेति ॥ उपमातेर्भावेऽङ् ( ३।३।१०६ ) ॥ (१) ॥*॥ ल्युट् ( ३।३।११५) । करणे ( ३।३।११७) वा ॥ ( २ ) ॥*॥ द्वे करणे भावे च । येनोपमीयते, या चोपमितिः, तयोरेते नाम्नी । केचित्तु — पूर्वान्विते - इत्याहुः ॥ वाच्यलिङ्गाः समस्तुल्यः सदृक्षः सदृशः सदृकू ३६
साधारणः समानश्च
वेति ॥ समति । 'सम वैक्लव्ये' ( भ्वा० प० से० ) अच् ( ३।१।१३४ ) ॥ (१) ॥*॥ तुलया संमितः । 'नौवयो-'' ( ४|४|११ ) इति यत् ॥ ( २ ) ॥* ॥ समान इव पश्यति । 'त्यदादिषु -' ( ३।२।६० ) इति ककिनौ क्सेश्च । 'दृग्दृश्वतुषु' (६।३।८९) 'दृक्षे च ' ( वा० ६।३।८९ ) इति सभावः
१ - समानशब्दस्य त्यदादित्वाभावादत्रास्योपन्यासोऽसंगतः । तस्मात् 'समानान्ययोश्च' ( वा० ३१२२६० ) इत्यनेन बोध्यौ ॥ २ - ' दृग्दृश्वतुषु' (६।३।८९ ) इत्यत्र 'दृक्षे च ' ( वा० ६।३।८९) इति वार्तिकबलादनुक्तोऽपि क्सः कल्प्यते - इति ' त्यदादिषु ' ( ३श२६० ) इत्यत्र भाष्यप्रदीपोदयोतकृत् ॥