SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ शूद्रवर्गः १० ] | वारिजाल ति ॥ वागुरा (१) जालेन (२) च चरति । ‘चरति’ (४।४।८) इति ठक् ॥ ( २ ) ॥* ॥ द्वे 'जालेन मृगा स्वतः' ॥ वैतंसिकः कौटिकश्च मांसिकश्च समं त्रयम् ॥ १४ ॥ वायिति ॥ वीतंसेन मृगपक्ष्यादिबन्धनोपायेन चरति ॥ (१) ॥*॥ कूटेन मृगादिबन्धनयन्त्रेण चरति ॥ (२) ॥*॥ मांसं पण्यमस्य । ‘तदस्य पण्यम्' ( ४।४।५१ ) इति ठक् ॥ (३) ॥* ॥ त्रीणि 'मांसविक्रयजीविनः ॥ भृतको भृतिभुकर्मकरो वैतनिकोऽपि सः । ज्याख्यासुधाख्यव्याख्यासमेतः । भ्रिति ॥ भ्रियते स्म । ‘भृञ् भरणे' (भ्वा० उ० अ० ) । क्तः (३।२।१०२)। खार्थे कन् (ज्ञापि० ५।४।५) यद्वा-मृतिं करोति । ‘तत्करोति–’ (वा० ३।१।२६ ) इति णिजन्तात्कुन् ( उ० २।३२) ॥ (१) ॥*॥ भृतिं वेतनं भुङ्क्ते । क्किप् ( ३।२।७६) ॥ (२) ॥॥ कर्म करोति । 'कर्मणि भृतौ' (३।२।२२ ) इति टः ॥ (३) ॥*॥ वेतनेन जीवति । 'वेतनादिभ्यो जीवति' ( ४/४/१२) इति ठक् ॥ (४) ॥*॥ चत्वारि 'वेतनोपजीविनः' ॥ वार्ताहो वैवधिकः । वेति ॥ वार्ताया वहः ॥ (१) ॥ * ॥ विवधं वीवधं वा · वहति । 'विभाषा विवधवीवधात् ' ( ४।४।१७ ) इति ठन् पक्षे ठक् ॥ (२) ॥*॥ द्वे 'वार्ताया वाहकस्य' 'कवडिया' इति ख्यातस्य ॥ ३४३ भारवाहस्तु भारिकः ॥१५॥ भेति ॥ भारं वहति । अन् ( ३।२।१) ॥ (१) ॥*॥ भारोऽस्ति वाह्यत्वेनास्य । 'अतः ' ( ५।२।११५ ) इति ठन् ॥ (२) ॥*॥ द्वे 'भारवाहकस्य' ॥ ति ॥ यते । 'भृञ् भरणे' ( भ्वा० उ० अ० ) । 'भृञोऽसंज्ञायाम् ' ( ३।१।११२ ) इति क्यप् । 'भृत्यः दासे भृतौ भृत्या' इति विश्वः ॥ (१) ॥*॥ दास्या अपत्यम् । 'यचः' ( ४|१|१२१ ) इति ढक् ॥ ( २ ) ॥*॥ 'क्षुद्राभ्यो वा' ( ४।१।१३१ ) इति ढ्रक् च ॥ (३) ॥*॥ दंसयति, दंस्यते वा । ‘दसि दीप्तौ’ ( चु० प० से ० ) । 'दंसेष्टट नौ न आ च' (उ० ५।१०) । यद्वा, - दास्यते । 'दास दाने' ( वा० उ० से० ) । घञ् ( ३।३।१८ ) ॥*॥ ('दाश' इति ) तालव्यान्तपक्षे – 'दंशेश्च' (उ० ५।११) ॥ (४) ॥ ॥ गुप्यते । 'गुपू रक्षणे' ( भ्वा० प० से० ) । यत् ( ३।१।१२४ ) | स्वार्थे कन् (ज्ञापि० ५।४।५) गोप्यं कायति वा । 'कै शब्दे' ( भ्वा०प० अ० ) । ' आतोऽनुप - ' ( ३।२।३ ) इति कः ॥ ( ५ ) ॥*॥ चेव्यते । 'चिट परप्रेष्ये' (भ्वा० प० से० ) । कृञादिभ्यो वुन् उ०५/३५ ) | ( ६ ) ॥*॥ नियुज्यते । 'युजिर् योगे' (रु० उ० अ० ) । ण्यत् (३।१।१२४) । 'प्रयोज्यनियोज्यौ शक्यार्थे' ७७३।६८ ) इति साधुः ॥ ( ७ ) ॥*॥ किंचित् कुत्सितं वा करोति । ‘दिवाविभा-' ( ३।२।२१ ) इत्यत्र 'किंयत्तद्बहुषु - ' ( वा० ३।२।२१ ) इति अच् ॥ ( ८ ) ॥ * ॥ प्रेष्यते । 'इष गतौ' ( दि० प० से ० ) आभीक्ष्ण्ये ( क्या० प० से० ) वा । त् ( ३।१।१२४ ) । 'प्राहो - ' ( वा० ६ । १।८९ ) इति वृद्धिः ॥ ९ ) ॥ *॥ भुङ्क्ते स्वाम्युच्छिष्टम् भुज्यते वा । 'रुचिभुजिभ्यां किष्यन् ' ( उ० ४।१७९ ) ॥ ( १० ) ॥ * ॥ परिचरति । 'चर गयादौ' (भ्वा० प० से० ) । ण्वुल् ( ३।१।१३३ ) ॥ (११) ॥ *॥ एकादश 'दासस्य' ॥ पराचितपरिस्कन्दपरजातपरैधिताः । ( विवर्णः पामरो नीचः प्राकृतश्च पृथग्जनः । निहीनोऽपसदो जाल्मः क्षुल्लकश्चेतरश्च सः ॥ १६ ॥ वीति ॥ विगत वर्णो यस्य, यस्माद्वा । 'वर्णो द्विजादौ शादी स्तुती रूपयशोऽक्षरे' इति विश्वः ॥ (१) ॥*॥ पामानं राति । कः ( ३।२।३) । यद्वा - पा धर्मः म्रियते येन । 'मृङ्' (तु० प० अ० ) । 'पुंसि - ' ( ३।३।११८ ) इति घः ॥ (२) ॥*॥ निकृष्टामीं लक्ष्मीं चिनोति । 'चिञ्' ( वा० उ० अ० ) । 'अन्येभ्योऽपि दृश्यते' ( वा० ३।२।१०१ ) इति ङः ॥ (३) ॥*॥ प्रकृतौ भवः । अण् (४।३।५३) । यद्वा - प्रकृष्टमकृतमकार्यमस्य ॥ (४) ॥*॥ सज्जनेभ्यः पृथग्भूतो जनः । शाकपार्थिवादिः (त्रा० २।१।७८ ) ॥ ( ५ ) ॥*॥ निश्चयेन हीनः । 'कुगति--' ( २।२।१८ ) इति समासः ॥ ( ६ ) ॥*॥ अपकृष्टमपकृष्टे वा सीदति । ‘षट्ट्ॣ विशरणा दौ' ( भ्वा० प० अ० ) । अच् ( ३।१।१३४ : ॥ ( ७ ) ॥ * ॥ जालयति । 'जल आच्छादने' (?) (चु० प० से० ) । जालं करोति । बाहुलकान्मः । 'नेड् ऋशि कृति' (७२।८ ) । 'जालमस्तु पामरे । असमीक्ष्य ( ( पेति ॥ परेणाचितः । 'चिञ् चयने' ( वा० उ० अ० ) । कारिणि च' इति हैमः ॥ ( ८ ) ॥*॥ क्षुधं लाति । कः ( ३।२।३) स्वार्थे कन् ( उ० २।३२ ) वा । यद्वा-क्षुणत्ति, क्षुद्यते वा । ' क्षोदे' (रु० उ० अ० ) । 'स्फायितश्चि-' ( उ० २।१३ ) इति रक् । कपिलिकादिः ( ८।२।१८ ) । यद्वा - क्षुधा लक्यते । 'लक आस्वादने' ( ) । 'पुंसि -' (३।३।११८) इति घः॥*॥ ( 'खुल्लक' इति ) कवर्गद्वितीयादिरपि । 'खुल्लक स्त्रिषु नीचे - ऽल्पे' इति रभसात् । खदनम् । 'खद हिंसायाम् ' ( भ्वा० प० से० ) । संपदादिः ( वा० ३।३।१०८ ) । पृषोदरादिः ( ६।३११०९)। खुदं लाति । क्क्रुन् ( उ० २।३२ ) ॥ (९) ॥*॥ इना कामेन तीर्यते । ‘तॄ' (भ्वा० प० से० ) । 'ऋदोरप्' (३।३।५७) । इतं गमनं करोति वा । ' तत्करोति - ' ( वा० ३।१।२६ ) इति णिच् । यद्वा, - इतेन ज्ञानेन क्षीते । ‘प्रातिपदिकाद्धात्वर्थे’ (चु० सू० ) इति णिच् । बाहुलकादरः। यद्वा,–'इ' इत्यव्ययमपकर्षे । 'द्विवचन - (५।३।५७ ) इति तरप् । द्रव्यप्रकर्षत्वान्नामुः ॥ (१०) ॥*॥ दश 'नीचस्य' ॥ भृत्ये दासेयदासेरदासगोप्यकचेटकाः । नियोज्यकिंकर प्रैष्य भुजिष्यपरिचारकाः ॥ १७ ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy