SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ वैश्यवर्गः ९ ] स्त्रीपुंसयोरश्मजात मुक्तादिकेऽपि च ) | ( कण्ठदेशस्तनेऽजाया लिङ्गाग्रेऽलिञ्जरेऽपि च)' इति विश्वः ॥ ( मेदिनी ) ॥ ( २ ) ॥*॥ अमजाती = मरकतादौ ॥*॥ द्वे 'रत्नस्य' ॥ व्याख्यासुधाख्यव्याख्यासमेतः । स्वर्ण सुवर्ण कनकं हिरण्यं हेम हाटकस् । तपनीयं शातकुम्भं गाङ्गेयं भर्म कर्वुरम् ॥ ९४ ॥ चामीकरं जातरूपं महारजतकाञ्चने । रुक्मं कार्तस्वरं जाम्बूनदमष्टापदोऽस्त्रियाम् ॥ ९५ ॥ ३३३ स्तु चिन्त्यः । ' काचि' धातोरेव सत्त्वात् ॥ (१५) ॥*॥ रोचते । 'रुच दीप्तौ ' ( भ्वा० आ० से ० ) । 'युजिरुचितिजां कुश्च' ( उ० १।१४६ ) इति मक् । 'रुक्मं लोहे सुवर्णे च' इति हेमचन्द्रः ॥ (१६) ॥* ॥ कृतस्वरे आकरविशेषे भवम् । अण् ( ४।३।५३ ) । कृताः पठिताः खरा येन । तस्मै देयम् । ‘शेषे’ (४।२१९२) इत्यण् ॥ ( १७ ) ॥* ॥ जम्बूरसस्य नयां भवम् । 'तत्र भवः' (४|३| ५३ ) इत्यण् ॥ (१८ ) ॥ अष्टौ धातवः पदानि स्थानान्यस्य । 'अष्टनः संज्ञायाम् ' (६|३|१२५) इति दीर्घः । यद्वा - अष्टानामपदम् ॥ ( १९ ) ॥*॥ एकोनविंशतिः 'सुवर्णस्य' ॥ अलंकारसुवर्ण यच्छृङ्गीकनकमित्यदः । खेति ॥ सुष्ठु ऋणोति । ऋणु गती' (त० उ० से० ) । पचाद्यच् (३।२।१३४) यद्वा, - अर्णनम् । घञ् ( ३।३।१८ ) । शोभनोऽर्णो गतिरनेन ॥ (१) ॥ *॥ शोभनो वर्णोऽस्य । सुष्ठु वर्ण्यते वा । 'वर्ण वर्णने ' (० प० से० ) व्यन्तः । 'एरच्’ ( ३।३।५६ ) ॥ ( २ ) ॥३॥ कनति । 'वनी दीप्तौ ' ( भ्वा० प० से०)। 'कृणादिभ्यः संज्ञायां वुन्' (उ० ५।३५) । 'कनकं हेनि पुंसिस्याकिंशुकेनागकेसरे । धत्तुरे काञ्चनारे च कालीये चम्पकेऽपि च' ( इति मेदिनी ) ॥ (३) ॥*॥ हिनोति हीयते बा । 'हि गत्यादी' ( वा० प० अ० ) । मनिन् ( उ० ४११४५) । (५) ॥*॥ हटति । 'हट दीप्तौ ' ( भ्वा० प० से ० ) । बुल् (३।१।१३३) । हाटयति वा । कुन् ( उ० २।३२ ) ॥ (६) ॥ तप्यतेऽनेन । 'तप संतापे' ( वा० प० अ० ) । 'कृत्सल्युटः' (३।३।११३) इलनीय ॥ ( ७ ) ॥*॥ शतकुम्भे ॥ पर्वते भवम् । ‘तत्र भवः' (४।३।५३ ) इत्यण् ॥*॥ अनुशतिकादिः (७।३।२०)।– ('शातकौम्भम्') इति तु खामी ( ८ ) ॥*॥ गङ्गाया अपत्यम् । शुभ्रादित्वात् । ( ४।१।१२३ ) ढक् ।‘यं गर्भ सुषुवे गङ्गा पात्रकाद्दीप्ततेजसम् । तदुत्वं पर्वते न्यस्तं हिरण्यंं समपयत' इति वायुपुराणम् । गाङ्गेयः स्यात्पुमान्भीष्मे क्लीयं स्वर्णकसेरुणोः ( इति मेदिनी ) ॥ (९) ॥४॥ विभर्ति, भरति वा । मनिन् ( उ० ४।१४५ ) ( 'भर्म स्यात्काञ्चने भृती' इति मेदिनी ॥ ( १० ) ॥ ॥ कर्वत्यनेन । 'कर्वं दर्पं' (भ्वा० प० से० ) । मद्भुरादिः ( उ० १।४१ ) । 'कबुरं सलिले हेन्नि कर्बुरः पापरक्षसोः । कर्बुरा कृष्णवृन्तायां शबले पुनरन्यवत्' इति विश्वः ( मेदिनी ) ॥ (११) ॥३॥ चमीकरे आकरे भवम् । 'तत्र भवः' (४१३।५३) इत्यण् । यद्वा, -चमनम् । 'चमु अदने ' ( भ्वा० प० से० ) । 'इजजादिभ्यः' ( वा० ३ | ३ | १०८ ) । ' - अनाचमेः ' (७|३।३४) इति आङोऽविवक्षितत्वादृद्धिः । 'कृदिकारात् -' (ग० ४।१।४५ ) इति ङीप् । चामीं करोति । 'कृञो हेतु - ' (३।२।२०) इति टः ॥ (१२) ॥ ॥ जातं रूपं यस्य । यद्वा - प्रशस्तं जातम्। ‘प्रशंसायां रूप' (५।३।६६ ) ॥ (१३) ॥ ॥*॥ महच्च तद्रजतं च । 'सन्महत्- ' ( २।१।६१ ) इति समासः । ‘आन्महतः’ (६।३।४६ ) इत्यात्वम् ॥ (१४) ॥*॥ काञ्चति (ते) । 'काचि दीप्तौ' ( भ्वा० आ० से० ) । नन्द्यादिल्युः (३।१।१३४)—पृषोदरादिः (६।३।१०९ ) - इति मुकुट | स्थितापरिमाणशृङ्गि हेमकूटं राजकुलम्' इति - मुकुटः ॥ अलमिति ॥ अलंकारसंबन्धि सुवर्णम् ॥*॥ शृङ्गिणामी । श्री । कनति । 'कनी दीप्तौ ' ( वा० प० से० ) कुन् ( उ० २।३२) । 'जी' इति पृथग् नाम वा । 'स्त्री शृङ्गी मण्डनसुवर्णम्' इति रत्नकोषः । 'भूषणं कनकं शृङ्गी' इति नाममाला च । अल्पं शृङ्गं प्राधान्यं वा यस्याः । गौरादिः ( ४/१।४१) । 'स्त्री स्यात्काचिन्मृणाल्यादि' इति वचनात् ॥ (१) ॥ ॥ एकम् 'अलंकारस्वर्णस्य' ॥ दुर्वर्ण रजतं रूप्यं खर्जूरं श्वेतमित्यपि ॥ ९६ ॥ 'दुर्वर्ण त्रिप्वसद्वर्ण क्लीबमैलेयरूप्ययोः' (इति मेदिनी ) ॥ (१) द्विति ॥ सुवर्णापेक्षा दुष्टो वर्णोऽस्य, अनेन वा । ॥*॥ रजति, रज्यते वा । 'रञ्ज रागे' ( भ्वा० उ० अ० ) ' पृषिरञ्जिभ्यां कित्' ( उ० ३।१११ ) इत्यतच् । 'रजतं त्रिषु शुक्ले स्यात्, क्लीबं हारे च दुर्वर्णे' इति विश्वः (मेदिनी) ॥ (२) ॥*॥ 'रूप रूपक्रियायाम्' (चु० उ० से० ) । व्यन्तः । 'अचो यत्' (३।१।९७) । 'रूप्यः स्यात्सुन्दरे त्रिषु । आहस्वर्णरजते रजते च नपुंसकम्' इति विश्व (मेदिनी)-हेमचन्द्रौ ॥ (३) ॥*॥ खर्जति। ‘खर्ज व्यथने ' ( स्वा० प० से० ) । खर्जरूप्यफलयोः खर्जूरः कीटवृक्षयोः' (इति हैमः) ॥ (४) ॥*॥ पिञ्जादिभ्य ऊरोलचौ' (उ० ४। १४० ) इत्थूरः । ' खर्जूरं श्वेतते । 'श्चिता वर्णे' (भ्वा० आ० से०) । अच् (३।१।१३४) । 'श्वेतो द्वीपाद्रिभेदयोः । श्वेता वराटिकाकाष्ठपाटलाशङ्खिनीषु च । क्लीवं रूप्येऽन्यवच्छुक्ले' (इति मेदिनी ॥ (५) ॥*॥ पच 'रूप्यस्य' ॥ रीतिः स्त्रियामारकूटो न स्त्रियाम् रीति ॥ रीयते । ' रीङ् क्षरणे' ( दि० आ० अ० ) । रिणाति वा । 'री गतिरेषणयो:' ( ऋया० प० अ० ) । 'स्त्रियां क्तिन्' ( ३।३।९४ ) । 'रीतिः स्त्रियां स्यन्दप्रचारयोः । पित्तले लोहकिट्टे च' ( इति मेदिनी ) ॥ (१) ॥*॥ 'ऋगत' १ - र्हिस्वान्ता च । तथा च बाणः - 'वर्षपर्वतसमूहमिवान्तः
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy