SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ ३२६ अमरकोषः । शाकटायनः। तेन नीयते । संपदादिः ( वा० ३।३।१०८ ) । ‘सर्वतोऽक्तिन्नर्थात्’ (ग० ४।१।४५ ) इति ङीष् । गौरादित्वात् (४।१।४१) वा । 'पूर्वपदात् -' (८।४।३) इति णत्वम् । अत्र पक्षे (वष्कयणी) इकाररहित उपान्त्यः ॥ ( २ ) ॥*॥ द्वे 'दीर्घकालेन प्रसूतायाः ॥ धेनुः स्यान्नवसूतिका । धयिति ॥ धीयते । 'धेट् पाने' ( वा० प० से० ) । 'घेट इच्च' (उ० ३।३४) इति नुः । - ' धेन्वादयश्च -' इति मुकुटस्त्वपाणिनीयः । 'धेनुर्गोमात्र के दोग्ध्र्याम्' इति हैमः ॥ (१) ॥*॥ नवं सूतं प्रसवोऽस्याः । 'शेषात् -' (५/४/१५४) इति कप् । 'प्रत्ययस्थात्-' ( ७।३।४४ ) इतीत्वम् ॥ ( २ ) ॥ * ॥ द्वे 'नूतनप्रसूतायाः' ॥ सुव्रता सुखसंदोह्या स्विति ॥ शोभनं व्रतमस्याः ॥ (१) ॥*॥ सुखेन संदुह्यते । ण्यत् (३।१।१२४) ॥ ( २ ) ॥*॥ द्वे 'सुशीलायाः ॥ पीनोधी पीवरस्तनी ॥ ७१ ॥ पीति ॥ पीनमूधोऽस्याः । 'ऊधसोऽनङ्' (५।४।१३१)। ‘बहुव्रीहेरूधसो ङीष्’ (४।१।२५ ) ॥ (१) ॥*॥ पीवरः स्तनोऽस्याः। ‘खाङ्गाच्चोपसर्जनात्- ' (४।१।५४) इति ङीष् ॥ (२) ॥*॥ ‘स्थूलस्तन्याः' ॥ द्रोणक्षीरा द्रोणदुग्धा द्रविति ॥ द्रोणपरिमितं क्षीरमस्याः ॥ (१) ॥*॥ द्रोणं दोग्धि । 'दुहः कप् घश्च' ( ३।२|७० ) इति कप् घश्चान्तादेशः ॥ (२) ॥*॥ द्वे 'द्रोणपरिमितदुग्धदात्र्याम्' ॥ धेनुष्या बन्धके स्थिता । धयिति ॥ 'संज्ञायां धेनुष्या' (४।४।८९) इति साधुः ॥ (१) ॥* ॥ एकम् ' बन्धनस्थिताया गोः ' ॥ समांसमीना सा यैव प्रतिवर्ष प्रसूयते ॥ ७२ ॥ सेति ॥ समायां समायां विजायते । 'समां समां विजायते' (५।२।१२) इति खः, उत्तरदले टाब्विभक्त्योर्लोपः, पूर्वदले यलोप एव ॥ (१) ॥* ॥ एकम् 'प्रतिवर्ष प्रसवित्र्या गोः ॥ [ द्वितीयं काण्डम पीभावः । 'ओदितश्च' (८।२।४५ ) इति निष्ठानत्वम् ॥ (२) ॥* ॥ द्वे 'क्षीराशयस्य' ॥ ऊधस्तु क्लीवमापीनम् विति ॥ वहति । 'वह प्रापणे' (भ्वा० उ० से० ) । उनत्ति । ‘उन्दी क्लेदने’ (रु० प० से० ) असुन ( उ० ४।१८९)। “ऊधसोऽनङ्' । ( ५।४।१३१ ) इत्यादिनिर्देशादूधादेशः ।—‘श्वः संप्रसारणं च' ( उ० ४।१९३ ) इत्यनुवृत्तौ ‘वहेर्धो दीर्घश्च’ इत्यसुन्—इति मुकुटस्त्वपाणिनीयः ॥ (१) ॥*॥ आ प्यायते स्म । 'ओप्यायी वृद्धौ' (भ्वा० आ० से०) । ‘गत्यर्था-' (३।४।७२) इति क्तः । 'प्यायः पी' (६।१।२८) निष्ठायाम् । ‘आङ्पूर्वस्यान्धूधसोः ' ( वा० ६।१।२८ ) इति या, समौ शिवककीलकौ । सेति ॥ श्यति गात्रकण्डूम्, शेतेऽत्र वा । 'सर्वनीघृष्व-' ( उ० १।१५३) इति साधुः । खार्थे कन् ( ज्ञापि० ५ ४/५ ) । (१) ॥ * ॥ कील्यते (अत्र ) । 'कील बन्धे' (भ्वा० प० से० ) । ‘हलश्च' (३।३।१२१) इति घञ् । स्वार्थे कन् (ज्ञापि ० ५/४/५) ॥ (२) ॥*॥ द्वे 'पशुबन्धनकाष्ठस्य' ॥ न पुंसि दाम संदानम् नेति ॥ द्यति । 'दो अवखण्डने ' । दीयते वा, अनेन वा । 'देङ् रक्षणे' ( वा० आ० अ० ) । मनिन् ( उ० ४ १ १४५) ॥ (१) ॥*॥ संदीयते । संपूर्वो दाण् बन्धने । ल्युट् ( ३।३।११५) ॥ (२) ॥ ॥ द्वे 'दोहनकाले पादबन्धनरजोः' ॥ पशुरज्जुस्तु दामनी ॥ ७३ ॥ पेति ॥ पशुबन्धनी रज्जुः । शाकपार्थिवादिः ( वा० २० १७८ ) ॥ (१) ॥*॥ दामैव । प्रज्ञाद्यण् (५।४।३८) 'अन्’ (६।४।१६७) इति प्रकृतिभावः । 'टिड्डा-- (४।१।१५) इति ङीप् । ‘नित्यं संज्ञाच्छन्दसो : ' ( ४।१।२९ ) इति ङीष् वा ॥* ॥ - ' बन्धनी' – इति पाठः - इति कश्चित् ॥ (२) ॥*॥ द्वे 'पशुबन्धनरजोः' ॥ वैशाखमन्थमन्थानमन्धानो मन्थदण्डके । | वायिति ॥ विशाखा प्रयोजनमस्य । 'विशाखाषाढात् -' (५।१।११० ) । ' वैशाखो मासभेदेऽपि मन्थाने च प्रकी - तितः' ( इति मेदिनी ) ॥ (१) ॥*॥ मथ्यतेऽनेन । 'हलव' ( ३।३।१२१ ) इति घञ् । 'मन्थो खौ मथि। सातवे नेत्ररोगे च' इति हैमः ॥ ( २ ) ॥ ॥ मन्थति | बाहुलकादानच् । ताच्छील्ये चानश् (३।२।१२९) वा । मुकुटेन तु — 'परमे कित्' इत्यनुवृत्तौ 'मन्थः ' ( उ० ४|११ ) इत्यनेनानः -- इत्युक्तम् । तन्न । अनेनेनेर्विधानात् । आनस्याविधानात् । यदपि - मन्थेः शानचि मन्थानः, इति स्वामी - इत्युक्तम् । तदपि न। मन्थेः परस्मैपदित्वात् । आत्मनेपदिभ्यः शानचो विधानात् । मुक्प्रसङ्गाच्चानशपि न । आगमशास्त्रस्यानित्यत्वं वा बोध्यम् ॥ (३) ॥*॥ मध्यतेऽनेन । 'मन्थः ' ( उ० ४१ टेनोक्तम् । तदपाणिनीयम् ॥ (४) ॥*॥ मन्थस्य दण्डः ॥ ११) इतीनिः कित् । यत्तु – 'पथिमथिभ्यामिन् — इति मुकु ( २ ) ॥*॥ पञ्च 'मन्थनदण्डस्य' ॥ कुठरो दण्डविष्कम्भे किति ॥ कुठति । 'कुठ गति प्रतिघाते' ( ) । बाहु• उकात्करन् । 'कुठश्च' इत्यरः - इति मुकुटस्त्वपाणिनीयः ॥*॥ 'कुटरः' इति पाठे तु - 'कुट कौटिल्ये' (तु० प० से ० ) ।
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy