SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ क्षत्रियवर्गः ८ ] रथेऽद्रौ रथिके श्येने' इति हेमचन्द्रः ॥ (१०) ॥*॥ रोप्यते, अनेन वा । 'रुपु विमोहने' ( दि० प० से ० ) ण्यन्तः । घञ् (३।३।१९) । यद्वा, रुप्यतेऽनेन । 'हलश्च' (३।३।१२१ ) इति घञ् । रोपो रोपणबाणयोः' इति विश्वः ॥ ( ११ ) ॥*॥ ईष्यतेऽनेन । 'ईष गतिहिंसादर्शनेषु' (भ्वा० आ० से० ) । 'ईषेः किच ' ( उ० १।१३) इत्युः आदेरिच ॥ ( १२ ) ॥*॥ द्वादश 'बाणस्य' ॥ व्याख्यासुधाख्यव्याख्यासमेतः । प्रक्ष्वेडनास्तु नाराचाः प्रेति ॥ प्रकर्षेण वेदन्ते । 'जिक्ष्विदा अव्यक्ते शब्दे ' (भ्वा० आ० से०)। ल्युः (३।१।१३४) । पृषोदरादिः (६)३।१०९ ) ॥ (१) ॥* ॥ नरानाचामन्ति । 'अन्येभ्योऽपि - ' ( वा० ३।२।१०२) इति डः । प्रज्ञाद्यण् (५।४।३८ ) । यद्वानराणां समूहो नारम् । नारमाचामति । डः ( वा० ३।२११०१) ॥ (२) ॥*॥ द्वे ‘सर्वलोहमयस्य शरस्य' ॥ पक्षो वाजः देति ॥ पक्षति, पक्ष्यतेऽनेन वा । 'पक्ष परिग्रहे' ( भ्वा० प० से० ) । अच् ( ३।१।१३४ ) । घञ् ( ३।३।१९ ) वा ॥ (१) ॥*॥ वजत्यनेन । 'वज गतौ' ( भ्वा० प० से० ) । 'हलश्च' (३।३।१२१) । निष्ठायां सेदत्वान्न कुत्वम् । वाजयति वा ण्यन्तः । पचाद्यच् ( ३।१।१३४ ) । - न्यङ्कादित्वात् (७१३।५३) अकुत्वम् - इति मुकुटश्चिन्त्यः । ( 'वाजो निखनपक्षयोः । वेगे पुमानथ क्लीबे घृतयज्ञान्नवारिषु' इति मेदिनी ॥ ( २ ) ॥*॥ द्वे 'शरपक्षस्य ' ॥ त्रीति ॥ वक्ष्यमाणा लिप्तकान्ताः ॥ निरस्तः प्रहिते वाणे नीति ॥ निरस्यते स्म । 'असु क्षेपणे' ( दि० प० से०) । क्तः (३।२।१०२) ॥ (१) ॥*॥ एकं 'प्रक्षिप्तबाणस्य' ॥ विषाक्ते दिग्धलिप्तकौ । खेति ॥ खण्डति परम् । खण्ड्यतेऽनेन वा । 'खडि भेदने ' 'छापूखडिभ्यः कित्' ( उ० १।२४ ) इति गन् । आगमशास्त्रस्यानित्यत्वान्न नुम् । 'खड्गो गण्डकरटङ्गा सिबुद्धभेदेषु गण्डके' ( इति विश्व - मेदिन्यौ ) ॥ (१) ॥ * ॥ निर्गतत्रिंशतोऽङ्गुलिभ्यः । 'निरादयः क्रान्ता - ' ( वा० २।२।१८ ) इति समासः । ' संख्यायास्तत्पुरुषस्य ' ( वा० ५।४।७३ ) इति डच् । - ' बहुव्रीहौ संख्येये (५।४।७३) इति डच् - इति मुकुटश्चिन्त्यः । बहुव्रीहेरभावात् । 'निस्त्रिंशो निर्घृणे खने' इति है मः ॥ ( २ ) ॥*॥ चन्द्र इव हासः प्रभाऽस्य । चन्द्रं हसिति वा । द्युतिमत्त्वात् । 'हसे हसने' (भ्वा० प० से० ) । 'चन्द्रहासोऽसि मात्र के । दशग्रीवकृपाणे च, केनीयसि च गुग्गुलौ ' ( इति हैमः ) ॥ (३) ॥*॥ अस्यते । 'असु क्षेपणे' ( दि० प० से० ) । असति । 'अस दीप्तौ ' ( भ्वा० उ० से० ) । ' सर्वधातुभ्य इन्' ( उ० ४ ॥ - त्रिषूत्तरे ॥ ८७ ॥ ११८ ) । — बाहुलकादिः - इति मुकुटश्चिन्त्यः । ‘असिः खङ्गे नदीभिदि ' इति हैमः ॥ (४) ॥ * ॥ रेषति । 'रिषु हिंसायाम्' ( भ्वा० प० से ० ) । रिशति वा । 'रिश हिंसायाम् ' । (तु० प० अ० ) । चिच् ( ३।३।१७४) । 'रिष्टिः खङ्गे ना शुभे स्त्री' (इति मेदिनी ॥* ॥ अजादिरिति स्वाम्यादिः । ऋषति । 'ऋषी गतौ' (तु० प० से० ) । क्तिच् (३।३।१७४) । 'करवालमण्डलाकालेका सिरिष्टयः । ऋष्टिः खगस्तरवारिकौक्षेयकौ च नन्दकः' इति रभसः ॥ ( ५ ) ॥ कुक्षौ भवः 'कुलकुक्षिप्रीवाभ्यः - ( ४।२।९६ ) इति ढकन् ॥ (६) ॥*॥ मण्डलमग्रमस्य ॥ (७) ॥॥ करं पालयति । 'पाल रक्षणे' (चु० प० से०) । 'कर्मण्यण्' (३।२।१) ॥* ॥ 'करवाल:' इति पाठान्तरम् । करं वलति । 'वल प्राणने' ( स्वा० प० से ० ) । 'कर्मण्यण्' (३।२।१)। करेण वलति वा । ज्वलादिणः (३191१४०) । यद्वा, -वलनम् वालः । ' वल वेष्टने' (भ्वा० आ० से० ) । घञ् ( ३।३।१८ ) । करे वालो यस्य । करेण वय वा । कर्मणि घञ् (३।३।१९ ) ॥ ( ८ ) ॥*॥ कृपां नुदति । 'नुद वीति ॥ दिह्यते स्म । 'दिह उपचये' (अ० उ० अ० ) । कः (३।२।१०२) ॥ (१) ॥*॥ लिप्यते स्म । 'लिप उपदेहे' (तु० उ० अ० ) । क्तः (३।२।१०२ ) । स्वार्थे कन् (ज्ञापि ० ५/४५) ॥ ( २ ) ॥ ॥ द्वे 'विषसंबद्धबाणस्य' ॥ तूणोपासङ्गतूणीरनिषङ्गा इषुधिर्द्वयोः ॥ ८८ ॥ २९३ तूण्याम् त्विति ॥ तूणयति । ‘तूण संकोचे ' ( चु० आ० से० ) । पचाद्यच् (३।१।१३४) । तूण्यते शरैः । घञ् ( ३।३।१९) वा ॥*॥ तूणा च । 'स्त्रियां तूणेषुधी उपासङ्गः' इति रत्नकोषः ॥ (१) ॥*॥ गौरादित्वात् (४।१।४१ ) ङीषपि । ( 'तूणी नील्यां निषङ्गे वा ना' ( इति मेदिनी ) । ' तूणी तु नील्यां तूणौ निषङ्गके' इति विश्वः) ॥ ( ६ ) ॥*॥ एवं निषङ्गः । ' उपसर्गा तू - ' ( ८|३|६५ ) इति षत्यम् ॥ (४) ॥*॥ उपासज्यन्तेऽत्र शराः । ‘षञ्ज सङ्गे' (भ्वा० प० अ० ) 'हलश्च' ( ३।३।१२१ ) इति घञ् ॥ ( २ ) ॥* ॥ तूणीं तूणत्वमीर्ते । 'ईर गतौ' (अ० आ० से०)। ‘कर्मण्यण्' (३।२।१) । यद्वा - तूणीं शरैः संकोचं राति । 'रा दाने आदाने च' (अ० प० अ० ) । 'आतोऽनुप - ' ( ३।२।३) इति कः ॥ (३) ॥*॥ इषवो धीयन्तेऽत्र । 'डुधाञ् ' (जु० उ० अ० ) । 'कर्मण्यधिकरणे च ' ( ३।३।९३ ) इति किः ॥ (५) ॥* ॥ षट् ' शराधारस्य' ॥ खने तु निस्त्रिंशचन्द्रहासासिरिष्टयः । कौक्षेयको मण्डलाग्रः करपालः कृपाणवत् ॥ ८९ ॥ १ - इदं विश्व हैम-मेदिनीषु तु चन्द्रहासस्यैतदर्थकत्वं न लभ्यते, इति प्रमादजातम् ॥ २ - 'शिलाशूल ष्टिमुद्गरम्' इति भट्टिश्च—इति मुकुटः ॥ ३- 'करपालकः पालकः' इति यमकम् — इति मुकुटः ॥ |
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy