SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ २० अमरकोषः । चैन्द्रिगिरिशौ जयन्त्युमापताकयोः । जीवन्त्यां सिंहपुच्छयां च इन्द्रपुत्र्यां च ' ) ॥ (१) ॥*॥ पाकशासनस्यापत्यम् । 'अत इज् ' (४|१|९५) ॥ (२) ॥*॥ द्वे 'इन्द्रपुत्रस्य' ॥ ऐरावतोऽभ्रमातङ्गैरावणाभ्रमुवल्लभाः ॥ ४६ ॥ ( ऐरावत इति ॥ ) इरा उदकानि सन्त्यस्मिन् । मतुप् ( ५/२१९४ ) ईरावत्यब्धौ भवः । ' तत्र भवः' ( ४ | ३ | ५३ ) इत्यण् । ( 'ऐरावतोऽभ्रमातङ्गे नारङ्गे लकुचद्रुमे । नागभेदे च पुंसि स्याद्विद्युत्तद्भेदयोः स्त्रियाम् । नपुंसकं महेन्द्रस्य ऋजु दीर्घशरासने' ) ॥ (१) ॥*॥ अभ्रं मेघः, तदात्मको मातङ्गः । शाकपार्थिवादिः ( २।१।६९) । अभ्र आकाशे मेघे वा विद्यमानो मातङ्ग इति वा ॥ ( २ ) ॥*॥ इरया उदकेन वणति 'वण शब्दे' ( भ्वा० प० से० ) पचाद्यच् ( ३।१।१३४ ) । इरावणः । ततः प्रज्ञाद्यण् ( ५।४।३८ ) । इरा सुरा वनमुदकं यस्मिन् । 'पूर्वपदात्- ' ( ८|४ | ३ ) इति णत्वम् । इरावणे भवः । ‘तत्र भवः' ( ४।३।५३ ) इत्यण् । स्वामी तु — इरावणे भवः । ' तत्र भवः' (४।३।५३ ) इत्यण् । 'विभाषैौषधि - ' ( ८|४|६ ) इति वा णत्वम् - इति । तन्न । 'ऐरावन' इत्यस्यापि प्राप्तेः ॥ (३) ॥*॥ अभ्रे खे माति, न भ्राम्यति वा, मन्थर गामिनीत्वात् । बाहुलकादुः । अभ्रमोर्वल्लभः ॥ (४) ॥*॥ चत्वारि 'इन्द्रहस्तिनः ॥ हादिनी वज्रमस्त्री स्यात्कुलिशं भिदुरं पविः । शतकोटिः स्वरुः शम्बो दम्भोलिरशनिर्द्वयोः ॥४७॥ हादिनीत्यादि ॥ ह्रादतेऽवश्यम् । 'हाद अव्यक्ते शब्दे' ( भ्वा० आ० से० ) । आवश्यके णिनिः ( ३।२।७८) | हादो - secयस्य इति वा । इनि: ( ५ | २|११५ ) 'हादिनी वज्रविद्युतोः' ॥ (१) ॥*॥ वजति । 'वज गतौ ' ( भ्वा० प० से० ) । 'ऋजेन्द्र - ' ( उ० २।२८ ) इति रन् ॥*॥ अस्त्री इति पूर्वोत्तराभ्यामन्वेति । संनिधानाविशेषात् । ' अस्त्रियो वज्रकुलिशौ' इति संसारावर्ताच्च । 'वज्रोऽस्त्री' इति वक्ष्यमाणं तस्यैवानुवादः । (‘वज्रं स्याद्वालके धात्र्यां क्लीबं योगान्तरे पुमान्। वज्रा स्रुह्यां गुडूच्यां च वज्री सुह्यन्तरे स्मृता दम्भोलौ हीरकेऽप्यस्त्री' ) ॥ (२) ॥*॥ 'कुलिर्हस्तो भुजादल:' इति त्रिकाण्डशेषः । कुलौ शेते । 'अन्येभ्योऽपि - ' ( वा० ३।२।१०१ ) इति डः । कुलिनः पर्वतान् श्यति वा । ' शो तनूकरणे' ( दि० प० अ० ) । 'आतोऽनुपसर्गे -' ( ३।२।३ ) इति कः । कुत्सितमीषद्वा लिशति । 'लिश अल्पीभावे' (तु० प० से० ) । 'इगुपध - ' ( ३।१।१३५ ) इति कः । 'कुलिशो न स्त्रियां प्रोक्तो दम्भोलौ, ना झषान्तरे' ॥ (३) । १ - इरावती कश्यपजानपत्या पुलहप्रिया, तया संभृतत्वाद्वातथा चागमः - 'इरावत्या भृतः पुत्रस्यार्थे ऐरावतस्ततः' इति । इत्यपि मुकुटः ॥ २- मितद्वादित्वम् ( वा० ३।२।१८० ) तु युक्तम् ॥ [ प्रथमं काण्डम् ॥*॥ भिनति । 'विदिभिदिच्छिदेः कुरच्' ( ३।२।१६२ ) । यत्तु - 'कर्मकर्तरि चायमिष्यते, इत्यत्र चकारः कर्तरीत्यनुकर्षणार्थः ' तेनाकर्मकर्तर्यपि भवति, इति वामनः - इति मुकुटेनोक्तम् । तन्न । भाष्येऽस्यार्थस्यादर्शनात् । निष्फलत्वाच्च । 'भिदिरम्' इति पाठे तु 'इषिमदि - ' ( उ० १।५१ ) इत्यादिना किरच् ॥ (४) ॥*॥ पुनाति । 'अच इ: ' ( उ० ४१३९ ) ॥ ( ५ ) ॥*॥ शतं कोटयो धारा अस्य ॥ (६) usu स्वरति । 'स्ट शब्दोपतापयोः ' ( भ्वा० प० अ० ) । ' शस्त्रस्निहि' ( उ० १1१० ) इति उः । ( ' स्वरुः पुमान् यूपखण्डे भिदुरेऽप्यध्वरे शरे ) ॥*॥ शोभनान्यरूंषि धारा अस्येति ( स्वरुसू) सान्तोऽपि ॥ ( ७ ) ॥*॥ शाम्यत्यरीन् । अन्तर्भावितण्यर्थाच्छमेर्वन् । ( उ० ४।९४ ) । शं शुभमस्यास्त्य - भेदत्वात् इति वा । 'कंशंभ्याम् ' ( ५/२/१३८ ) इति वः । पक्षद्वयेऽपि दन्त्योष्ठ्यः ॥*॥ ' शम्ब संबन्धने' चुरादिः (प० से ० ) । ' शम्बयति संबध्नाति शत्रून्' इति विग्रहे तु ( शम्बः ) पवर्गतृतीयान्तः । ' शम्बः स्यान्मुसलाग्रस्थ लोहमण्डलके पवौ । शुभान्विते त्रिषु ॥*॥ सम्बयतेः ( चु० प० से ० ). विग्रहे तु ( सम्बः ) दन्त्यादिरपि । ' तालव्या अपि दन्त्याश्च सम्बसूकरपांसवः' इत्यूष्मविवेकः ॥ ( ८ ) ॥*॥ ' दम्भु रोधने' ( वा० प० से० ) । असुन ( उ० ४।१८९ ) दम्भसि रोधने अलिः समर्थः । 'अलं भूषणपर्याप्तिवारणेषु' ( भ्वा० प० से ० ) । इन् ( ४। १९८ ) । दनोति खेदयति । वा ॥ (९) ॥*॥ अश्नाति, अश्यतेऽनेनेति वा ‘अर्तिसृधृधम्य' दम्भु दम्भने ' ( वा० प० से० ) । औणादिक ओलिरिति म्यस्यतिहृभ्यो निः' ( २।१०२ ) ॥*॥ इह 'वज्राशनिः ' इति समुदितमपि बोध्यम् । 'वज्राशनिं विदुर्वज्रम्' इति त्रिकाण्डशेषात् । 'अथ वज्राशनिर्द्वयोः' इति नामनिधानाच्च ॥ (१०) ॥*॥ दश 'वज्रस्य' ॥ व्योमयानं विमानोऽस्त्री व्योमयानमित्यादि ॥ व्योम्नि यान्त्यनेन । करणे ल्युट् ( ३।३।११७ ) । व्योम याति । 'कृत्यल्युट :-' ( ३।३।११४) इति कर्तरि ल्युट् इति वा ॥ (१) ॥ ॥ विशिष्टं मानयन्त्यनेन । 'पुंसि संज्ञायाम् ' ( ३ | ३|११८ ) इति करणे घः । 'घञ्' इति मुकुटः । तन्न । परत्वाहयुदप्रसङ्गात् । घस्तु करणाधिकरणयोर्विहितः । विशेषेण मान्त्यस्मिन्निति वा । अधिकरणे ल्युट् (६।३।११७) । विगतं मानमुपमाऽस्येति वा । 'विमानो व्योमयाने च सप्तभूमिगृहेऽपि च । घोटके यानमात्रे च पुंनपुंसकयोर्मतः ॥' (२ ) ॥*॥ द्वे 'देवरथस्य' ॥ नारदाद्याः सुरर्षयः । ( नारदाद्या इति ॥ ) नरस्य धर्म्यम् । ' नराचेति वक्तव्यम्' ( वा० ४।४।४९ ) इत्यण् (ञ्) । नारं ददाति । ' आतोऽनुप-' ( ३।२। ३ ) इति कः । यद्वा, - 'नारं पानीयमित्युकं तत्
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy