________________
क्षत्रियवर्गः ८ ]
व्याख्यासुधाख्यव्याख्यासमेतः ।
कः ं ( वा० ३।३।५८) । स्थानां दाराणां पतयः पालकाः | उदासीनः परतरः स्थपतय एव । चतुर्वर्णादित्वात् ( वा० ५।१।१२४ ) स्वार्थे ष्यञ् । 'स्थपतिः कचुकिन्यपि ' ( इति मेदिनी ) ॥ (३) ॥*॥ सुविदन्ति । ‘इगुपध-’ ( ३।१।१३५ ) इति कः । सुविदा एव । प्रज्ञादित्वात् (५।४।३८ ) स्वार्थेऽण् । यद्वा - सुवेदनम् । संपदादिक्विप् ( वा० ३।३।१०८ ) । सुविद् सुज्ञानमस्त्येषाम् । ज्योत्स्नादित्वात् ( वा० ५।२।१०३) अण् । यद्वा, - सुविदश्चतुराः स्त्रियस्तासामिमे रक्षकाः । ‘तस्येदम् ' ( ४।३।१२० ) इत्यण् ॥ (४) ॥*॥ चत्वारि ‘राज्ञां रुयगारे बही रक्षाधि
कृतस्य' ॥
वर्षवरस्तुल्यौ
शेति ॥ शाम्यति शिश्नाभावात् । 'शमु उपशमे' ( दि० १० से० ) । ' शमे:' ( उ० ११९९ ) । ' शण्ढः क्लीवस्तु कछुकी' इति (तालव्यादौ ) रभसः । ' शण्ढः स्यात्पुंसि गोपतौ । आकृष्टाण्डे वर्षवरे तृतीय प्रकृतावपि ' ( इति मेदिनी) । ('शण्ढषण्ढौ तु सौविदौ । वन्ध्यपुंसीद्वरे क्लीबे' इति हैमः ) ॥ (१) ॥*॥ वृणोति । 'वृञ् वरणे' ( खा० उ० से० ) । वरति । 'वर आवरणे' ( ) वा । अच् ( ३।१।१३४ ) | वर्षस्य रेतःपातस्य वरः । ' ये त्वत्पसत्त्वाः प्रथमा: क्लीबाश्च स्त्रीखभाविनः। जात्या न दुष्टाः कार्येषु ते वै वर्षवराः स्मृताः ' ॥ (१) ॥*॥ द्वे 'अत्यन्तान्तर्महल्लकानाम्' ॥
सेवकार्थ्यनुजीविनः। सेवेति ॥ सेवते । ‘सेरृ सेवने ' ( वा० आ० से० ) । ण्वुल् ( ३।१।३३) । ‘सेवकस्तु प्रसेवे ना वाच्यलिङ्गोऽनुजीविनि' (इति मेदिनी) ॥ (१) ॥* ॥ अर्थोऽसंनिहितोऽस्यास्ति । 'अर्थाच्चासंनिहिते' ( वा० ५।२।१३५ ) इतीनि। 'अर्थी पुमान् याचके स्यात्सेवके च विवादिनि ' ( इति मेदिनी ) ॥ ( २ ) ॥*॥ अनुजीवितुं शीलः। ‘सुपि--' ( ३।२।७८) इति णिनिः ॥ ( ३ ) ॥*॥ त्रीणि 'सेवकस्य' ॥ विषयानन्तरो राजा शत्रुः
वीति ॥ शातयति । 'शङ्ख शातने' ( वा० प० अ० ) । ष्यन्तः। ‘रुशातिभ्यां क्रुन्’ (उ० ४।१०४ ) । ' बहुलमन्यश्रापि' (उ० १।७२ ) इति णिलुक् । — शदे : 'जत्र्वादयश्च' (उ० ४।१०२) इति रुः ह्रस्वश्च - इति मुकुटः । तन्न । उक्तरीत्या निर्वाहात् ॥ (१) ॥*॥ एकं 'स्वदेशाव्यवहितदेशस्य राज्ञः ' ॥
मित्रमतः परम् ॥ ९ ॥ मीति ॥ मेद्यति । ‘ञिमिदा स्नेहने' ( दि० प० से०) ‘अमिचिमिदिशसिभ्यः क्त्रः’ (उ० ४।१६४ ) । – हून् ( उ० ४|१५९)–इति मुकुटः । तन्न । गुणप्रसङ्गात् । सूत्रस्य सत्त्वाच्च । ‘मित्रं सुहृदि न द्वयोः । सूर्ये पुंसि स्त्रियां गन्धद्रव्ये दैत्यान्तरे पुमान्' ( इति मेदिनी ) ॥ (१) ॥*॥ अतः शत्रोः *॥ एकम् ‘मित्रस्य' ॥
२६९
विति ॥ अतिशयितः परः परतरः । उदास्ते । 'आस उपवेशने' (अ० आ० से ० ) । लटः शानच् ( ३।२।१२४) । 'ईदासः ' ( ७/२/८३ ) इति ईत्वम् ॥ (१) ॥*॥ एकं 'शत्रुमित्राभ्यां परस्य राज्ञः ' ॥ पाणिग्राहस्तु पृष्ठतः ।
पेति ॥ पाणि पश्चात्पदं गृह्णाति । 'कर्मण्यण् ' ( ३1२1१ ) | ' सैन्यपृष्ठे पुमान् पाणिः पश्चात्पदजिगीषयोः' इति विश्वः ॥ (१) ॥*॥ एकं 'जिगीषोः पृष्ठभागस्थितस्य राज्ञः' ॥ रिपौ वैरिसपत्नारिद्विषद्वेषणदुर्हृदः ॥ १० ॥ द्विद्विपक्षा हिता मित्र दस्युशात्रवशत्रवः । अभिघातिपरारातिप्रत्यर्थिपरिपन्थिनः ॥ ११ ॥
रीति ॥ रपति दोषम् । 'रप व्यक्तायां वाचि' ( भ्वा०प० से० ) । 'रपेरिचोपधायाः ' ( उ० १।२६ ) इति कुः ॥ (१) ॥*॥ वीरस्य कर्म भावो वा । युवादित्वात् (५।१।१३०) ——वैरमैथुनिकयोः' (४।३।१२५) इति निर्देशाद्वाऽण् । वैरमस्यास्ति । इनिः ( ५।२।११५) ॥ ( २ ) ॥*॥ सपत्नीव । 'व्यन् सपने' (४|१|१४५ ) इति निर्देशादकारः ॥ ( ३ ) ॥*॥ इयर्ति विरोधम् । 'ऋ गतौ' ( जु० प० अ० ) । 'अच इः' (उ० ४।११९) ॥ (४) ॥*॥ द्वेष्टि । 'द्विष अप्रीतौ' (अ० उ० अ० ) 'द्विषोऽमित्रे' ( ३।२।१३१) इति शतृ ॥ (५) ॥*॥ द्वेषशीलः। 'क्रुधमण्डाभ्यश्च' ( ३।२।१५१ ) इति युच् ॥ (६) ॥*॥ दुष्टं हृदयमस्य । 'सुहृद्दुर्हृदौ मित्रामित्रयोः ' ( ५।४।१५० ) इति साधुः ॥ ( ७ ) ॥*॥ द्वेष्टि । क्विप् ( ३।२।६१ ) ॥ ( ८ ) ॥*॥ विरुद्धः पक्षोऽस्य । 'पक्षी मासार्धके पार्श्वे ग्रहे साध्यविरोधयोः ' ( इति विश्व मेदिन्यौ ) । विविधः पक्षोऽस्य वा ॥ (९) ॥*॥ न हितमस्मात् ॥ ( १० ) ॥*॥ अमति गच्छति । 'अम गतौ' (भ्वा० प० से ० ) । 'अम रोगे' ( चु० उ० से०) 'अमेर्द्विषति चित्' ( उ० ४।१७४ ) । इतीत्रन् ॥ ( ११ ) ॥ ॥ दस्यति । 'दसु उपक्षये' (दि० प० से ० ) । ' यजिमनिशुन्धिदसिजनिभ्यो युच्' ( उ० ३।२० ) बाहुलकादनादेशस्य (७।१।१) अभावः ॥ ( १२ ) ॥*॥ शातयति । 'रुशातिभ्यां क्रुन्' (उ० ४।१०४)॥ (१३) ॥*॥ शत्रुरेव । प्रज्ञाद्यण् ( ५।४।३८ ) ॥ (१४) ॥*॥ अभिहन्तुं शीलः । 'सुपि - ' ( ३।२।७८) इति णिनिः ॥*॥ 'द्वेष्योऽभियातिरमित्रः' इति रत्नकोशः । तत्राभियातेः क्तिच् ( ३।३।१७४ ) । बाहुलकात्तिर्वा ॥ (१५) ॥*॥ पिपर्ति रोषम् । 'पू पालनपूरणयोः' (जु० प० से० ) । अच् (३।१।१३४) ॥ (१६) ॥*॥ न राति सुखम् । 'रा दाने' (अ० प० अ० ) । क्तिच् ( ३।३।१७४ ) तिर्वा ॥ (१७) ॥*॥ प्रतिकूलमर्थयितुं शीलः । 'अर्थ याच्यायाम्' (चु० उ० से० ) । 'सुपि -' ( ३।२।७८) इति णिनिः ॥ (१८) ॥*॥ परि दोषा
१ - 'अनुनासिकपरत्वाभावादनादेशो न इति तु भाष्यसिद्धान्तः ॥