SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ २६२ अमरकोषः । पाठे विप्रुषो ब्रह्मविन्दवः । पेति ॥ वेदपाठे मुखान्निर्गतबिन्दवः । ब्रह्मणो बिन्दवः ॥ (१) ॥*॥ एकम् 'मुखनिर्गतबिन्दूनाम्' ॥ ध्यानयोगासने ब्रह्मासनम् ध्येति ॥ ध्यानं प्रत्ययैकतानता च, योगश्चित्तवृत्तिनिरोधश्च, तयोरासनम् । यद्वा,-ध्यानस्य योग उपायः । ध्यानमेव योगो वा । तस्यासनं स्वस्तिकसिद्धपद्मादि । ब्रह्मणः संबन्धि आसनम् ॥ (१) ॥*॥ एकम् 'ब्रह्मासनस्य' ॥ कल्पे विधिक्रमौ ॥ ३९ ॥ केति ॥ कल्पते, अनेन वा । 'कृपू सामर्थ्य' (भ्वा० आ० से० ) । अच् ( ३।१।१३४ ) । घञ् ( ३।३।१८ ) वा । ‘कल्पः शास्त्रे विधौ न्याये संवर्ते ब्रह्मणो दिने' (इति मेदिनी ) ॥ (१) ॥*॥ वेधनम् । 'विध विधाने' ( तु० प० से० ) । 'इगुपधात्कित्' ( उ० ४।१२० ) इतीन् । यद्वा - विधानम् अनेन वा । धाञः (जु० प० अ० ) । ' उपसर्गे घोः कि:' ( ३।३।९२) । 'विधिना नियती काले विधाने परमेष्ठिनि' (इति मेदिनी ॥ (२) ॥*॥ क्रमणम् । अनेन वा । घञ् ( ३।३।१८, १९) । ‘नोदात्तोप-' (७।३।३४) इति न वृद्धिः । 'क्रमश्चानुक्रमे शक्तौ कल्पे चाक्रमणेऽपि च ' ( इति मेदिनी ) ॥ (३) -॥ * ॥ त्रीणि विधानस्य' ॥ । मुख्यः स्यात्प्रथमः कल्पो विति ॥ मुखमिव । ' शाखादिभ्यो यः ' ( ५।३।१०३) । 'व्रीहिभिर्यजेत' इति यथा ॥ (१) ॥*॥ एकम् 'आद्य विधेः' ॥ अनुकल्पस्ततोऽधमः । अन्विति ॥ अनु हीनः कल्पः । प्रादिसमासः ( वा० २१२।१८ ) ॥ (१) ॥*॥ श्रीत्यभावे 'नीवारैः' इति यथा ॥*॥ एकं ‘गौणविधेः’॥ [ द्वितीयं काण्डम् से० ) । 'सनाशंसभिक्ष उ:' ( ३।२।१६८ ) ॥ (१) ॥*॥ परि त्यज्य सर्वं व्रजति । ‘व्रज गतौ' ( भ्वा० प० से ० ) । 'परी व्रजेः षः पदान्ते' ( उ० २।५९ ) इति क्विप् दीर्घश्च पदान्त विषये षत्वं च । —विण्— इति तु स्वामिनः प्रमादः । उणादौ विणोऽप्रकृतत्वात् ॥ (२) ॥*॥ कर्मन्देन प्रोक्तं भिक्षुसूत्रमधीते । 'कर्मन्दकृशाश्वादिनि:' ( ४।३।१११ ) ॥ (३) ॥*॥ पराशरस्य गोत्रापत्यम् । 'गर्गादिभ्यो यञ्' (४।१।१०५) । पाराशर्येण प्रोक भिक्षुसूत्रमधीते । 'पाराशर्यशिलालिभ्याम् -' ( ४।३।११० ) इति णिनिः ॥ (४) ॥*॥ मस्कनम् | 'मस्क गतौ' (भ्वा० आ० से० ) । बाहुलकादरः । मस्करो ज्ञानं गतिर्वाऽस्यास्ति । ‘मस्करमेस्करिणो-' ( ६।१।१५४ ) इति इनिः । यद्वा, वेणुरस्यास्ति । इनिः (५।२।११५) । यद्वा, मा कर्तुं कर्म निषेद्धुं शीलमस्य । 'मस्करमस्करिणौ - ' ( ६।१।१५४) इति साधुः । यद्वा, - मुकुर इव शुद्धमन्तःकरणमस्यास्ति । प्राग्वन्निपातः । यद्वामङ्कते । 'मकि मण्डने' ( वा० आ० से ० ) । बाहुलकादरः । आगमशास्त्रस्यानित्यत्वान्न नुम् । मकरो निधिभेदोऽस्यास्ति । प्राग्वनिपातः ॥ ( ५ ) ॥ ॥ पञ्च 'संन्यासिनः ' ॥ तपस्वी तापसः पारिकाङ्क्षी संस्कारपूर्व ग्रहणं स्यादुपाकरणं श्रुतेः ॥ ४० ॥ समिति ॥ संस्कार उपनयनं पूर्वं यत्र तत् । श्रुतेर्ग्रह - णम् । उपाक्रियतेऽनेन । ल्युट् ॥ (१) ॥*॥ एकं 'वेदपाठारम्भविधिविशेषस्य ' ॥ समे तु पादग्रहणमभिवादनमित्युभे । सेति ॥ पादयोर्ग्रहणं स्पर्शः ॥ (१) ॥ * ॥ अभिमुखीकरणार्थं वादनम् । 'वद संदेशवचने' चुरादिः । ल्युट् - ( ३।३|११५)। आभिमुख्येन वाद्यते आशीः कार्यतेऽनेन इति वा । ण्यन्ताद्वदेः करणे ल्युट् (३।३।११७ ) ॥ ( २ ) ॥*॥ द्वे 'नामोच्चारणपूर्वक संस्कृतप्रयोगेण नमस्कारस्य ' ॥ भिक्षुः परिव्राट् कर्मन्दी पाराशर्यपि मस्करी ॥४१॥ भीति ॥ भिक्षणशीलः । ' भिक्ष यात्रायाम् ' ( वा० आ० । तेति ॥ तपोऽस्यास्ति । 'तपः सहस्राभ्याम् - ' ( ५/२/१०२ ) इति विनि: । 'तपस्वी तापसे चानुकम्प्ये त्रिष्वथ योषिति । मांसिकाकटुरोहिण्योः' ( इति मेदिनी ) ॥ (१) ॥*॥ ‘अण् च' ( ५।२।१०३ ) ॥ ( २ ) ॥* ॥ परिकाङ्क्षितुं शीलमस्य । 'काक्षि परिवर्जने' (भ्वा० प० से० ) । 'सुपि - ' ( ३१२२७८ ) इति 'णिनिः । पृषोदरादिः । यद्वा, - पारमत्रास्ति इनिः (५1२1११५) । पारि ब्रह्मज्ञानं काङ्क्षति ॥ (३) ॥ * ॥ त्रीणि 'तपस्विनः' ॥ वाचंयमो मुनिः । वेति ॥ वाचं यच्छति । 'यम उपरमे' (स्वा० प० अ० ) ! 'वाचि यमो व्रते' (३।२।४०) इति खच् । 'वाचंयमपुरंदरौ च' (६।३।६९ ) ॥ (१) ॥* ॥ मन्यते । 'मनु ज्ञाने' ( दि० आ० अ० ) । 'मनेरुच्च' ( उ० ४।१२३ ) इतीन् । मुनिः पुंसिवसिष्ठादौ वङ्गसेनतरौ जिने ' ( इति मेदिनी ) ॥ ( २ ) ॥*॥ द्वे 'मौनव्रतिनः' ॥ तपःक्लेशसहो दान्तः तैति ॥ तपसः क्लेशः । तं सहते । ' षह मर्षणे' ( स्वी० १ - इदं तु 'मस्करिग्रहणं शक्यमकर्तुम् । कथं 'मस्करी परिव्राजकः " इति इनिनैतन्मत्वर्थीयेन सिद्धम्, मस्करोऽस्यास्तीति मस्करी । न वै मस्करो यस्यास्तीति मस्करी परिव्राजकः' इति भाष्यविरोधादुपेक्ष्यम् ॥ २ - इदमेव 'किं तर्हि । मा कृत कर्माणि शान्तिर्वः श्रेयसी, इत्याह । अतो मस्करी परिव्राजकः' इति भाष्यसंमतम् ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy