SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ ब्रह्मवर्ग: ७ ] १२) इत्यच् ॥*॥ यज्ञमर्हति । 'यज्ञर्विग्भ्याम् -' (५।१1७१) इत्यत्र 'तत्कर्मार्हति' इत्युपसंख्यानाद् घः ॥ (१) ॥*॥ एकं 'ऋतु क्रियासंपादनयोग्यद्विजद्रव्यादेः' 'त्रिषु' इति यज्ञियान्वितम् ॥ व्याख्यासुधाख्यव्याख्यासमेतः । । अथेति ॥ क्रतुश्च यज्ञः, कर्म च दानादि तदिष्टशब्दवाच्यम् । यजनम् । ‘नपुंसके भावे क्तः ' ( ३।३।११४ ) । 'इष्टं यागे च दाने च वाञ्छितेऽपि प्रयुज्यते' इत्यजयः ‘एकाग्निकर्म हवनं त्रेतायां यच हूयते । अन्तर्वेद्यां च यद्दानमिष्टं तदभिधीयते' ( ) इति मनुः । 'इष्टमाशंसितेऽपि स्यात्पूजिते प्रेयसि त्रिषु । सप्ततन्तौ पुमान् क्लीबे संस्कारे क्रतुकर्मणि' (इति मेदिनी ॥ (१) ॥*॥ एकम् 'इष्टकर्मणः' ॥ पूर्त खातादिकर्मणि । । ष्विति ॥ खातं पुष्करिणीखननमादिर्यस्य देवालयारामा - दिनिर्माणस्य । खातादि च तत्कर्म च क्रिया तस्मिन् । पूरणम् पूर्यन्ते स्म वा । ‘पॄ पालनपूरणयो:' ( जु० प० से० ) । भावे ( ३।३।११४ ) कर्मणि ( ३।२।१०२ ) वा क्तः । 'न ध्याख्या-' (८।२।५७) इति निष्ठानत्वं न । 'पुष्करिण्यः सभा - • वापीदेवतायतनानि च । आरामाच विशेषेण पूर्त कर्म विनिर्दिशेत्' इति स्मृतिः । ‘पूर्तं त्रिषु पूरिते स्यात्क्लीबं खातादिकमैणि (इति मेदिनी) ॥ (१) ॥ *॥ एकम् ' पूर्तकर्मणः ' ॥ अमृतं विघसो यज्ञशेष भोजनशेषयोः ॥ २८ ॥ अम्निति॥ अमृतमिव। अमृतसाधनत्वात् । 'अमृतं यज्ञशेषे स्यात् पीयूषे सलिले घृते । अयाचिते च मोक्षे च ना धन्वन्तरिदेवयोः' (इति मेदिनी ) ॥ (१) ॥*॥ विशिष्टैरद्यते । 'अद भक्षणे' (अ० प० अ० ) । ' उपसर्गेऽद : ' ( ३।३/५९ ) इत्यप् । 'घञपोश्च' (२|४ | ३८ ) इति घस्लृ ॥ (१) ॥*॥ यज्ञस्य शेषो होमावशिष्टाज्यपुरोडाशादिः । देवपित्रतिथिगुर्वा - दिभुक्तस्य शेषः । तयोः । ' यज्ञियशेषस्य' क्रमेणैकैकम् ॥ त्यागो विहायितं दानमुत्सर्जन विसर्जने । विश्राणनं वितरणं स्पर्शनं प्रतिपादनम् ॥ २९ ॥ प्रादेशनं निर्वपणमपवर्जनमंहतिः । त्येति ॥ त्यजनम् । 'त्यज हानौ' ( भ्वा० प० अ० ) । घन् (३।३।१८)। 'त्यागो दाने च वर्जने' ( इति मेदिनी ) ॥ (१) ॥*॥ विहायनम् | हाको ( जु० प० अ० ) ण्यन्ताद्भावे कः (३।३।११४) ॥ (२) ॥*॥ दत्तम् । दाञः ( जु० प० अ० ) भावे ल्युट् (३।३।११५ ) । ' दानं गजमदे त्यागे पालमच्छेदशुद्धिषु' इति विश्व मेदिन्यौ ॥ (३) ॥ ॥ सृजे: ( तु० ५० अ० ) च ल्युट् (३।३।११५) ॥ (४) ॥* ॥ ' विसर्जनं परित्यागे दाने संप्रेषणेऽपि च ' ( इति मेदिनी ॥*॥ ॥ २५९ | विपूर्वात् 'श्रणु दाने' इति चुरादेश्व ॥ ( ६ ) ॥ * ॥ वितरतेश्च ॥ ॥*॥ ( ७ ) ॥ ' स्पृश संस्पर्श' ( तु० प० अ० ) । ' स्पर्शनो मारुते पुंसि दाने स्पर्शे नपुंसकम्' इति मेदिनी ॥ ( ८ ) ॥*॥ 'पद गतौ' (दि० आ० अ० ) । ण्यन्तः । 'प्रतिपादनं तु दाने च प्रतिपत्तौ प्रबोधने' इति मेदिनी ॥ ( ९ ) ॥* ॥ " दिश अतिसर्जने' ( तु० उ० अ० ) ॥ (१०) ॥*॥ 'डुव' ( भ्वा० उ० अ० ) ॥ (११) ॥*॥ 'वृजी वर्जने' (अ० आ०, रु०प०, चु० उ० से० ) ॥ (१२) ॥*॥ हन्ति दुरितमनया । 'हन्तेरह च' (उ० ४।६२) इत्यतिः । 'अंहतिस्त्यागरोगयोः' इति हैमः ॥ (१३) ॥*॥ त्रयोदश 'दानस्य' ॥ ( ५ ) मृतार्थं तदहे दानं त्रिषु स्यादौर्ध्वदैहिकम् ॥ ३० ॥ ति ॥ मृताम् । 'अर्थेन नित्यसमासः ' (२।१।३६)। तच्च तदहश्च । ‘तस्याहः' इति वा । 'राजाहः -' ( ५1४1९१) इति टच् । तदहे=प्रेतदिने । देहादूर्ध्वम् ऊर्ध्वदेहः । राजदन्तादिः (२।२।३१) ऊर्ध्वदेहे भवम् । अध्यात्मादित्वात् (वा ४।३।६० ) ठन् । अनुशतिकादित्वात् (७।३।२०) उभयपदवृद्धिः ॥* ॥ केचिदुत्तरपदवृद्धिं नेच्छन्ति ॥ (१) ॥*॥ - द्दिश्य मरणदिनमारभ्य सपिण्डीकरणपर्यन्तं प्रत्यहं दीयमानस्य जलपिण्डादेरेकम् । 'तदहर्दानम्' इति पाठे तु समासा - न्तविधेरनित्यत्वान्न टच् । 'और्ध्वदेहिक दानस्य' एकम् ॥ पितृदानं निवापः स्यात् पीति ॥ पितृभ्यो दानम् ॥ (१) ॥ ॥ न्युप्यते, निवपन वा । ‘डुवप्’ (भ्वा० उ० अ० ) । कर्मणि ( ३।३।१९ ) भावे ( ३३।१८) वा घञ् ॥ (२) ॥* ॥ द्वे 'सपिण्डनादूर्ध्व पित्रुदेशेन दानस्य' ॥ श्राद्धं तत्कर्म शास्त्रतः । श्रेति ॥ श्रद्धाऽत्रास्ति । 'प्रज्ञाश्रद्धा - ' ( ५।२।१० १ ) इति णः ॥ (१) ॥*॥ तेषां पितॄणां कर्म । शास्त्रविधानेन ॥*॥ एकम् ' श्राद्धकर्मणः ॥ अन्वाहार्थ मासिकः अन्वेति ॥ अनु आ हियते । 'हृञ् हरणे' ( भ्वा० उ० अ०)। ‘ऋहलोर्व्यत्’ (३।१।१२४) ॥ (१) ॥* ॥ मासे भवम् । ‘कालाट्ठञ्' (४।३।११ ) ॥ ( २ ) ॥ * ॥ 'पिण्डान्वाहार्य क श्राद्धं कुर्यान्मासानुमासिकम् ' ( ३।१२२ ) इति मनुः ॥ द्वे 'मासिकस्य' ॥ | अंशोऽष्टमोऽह्नः कुतपोऽस्त्रियाम् ॥३१॥ अंश इति ॥ पञ्चदशमुहूर्तात्मकस्य दिनस्याष्टमो भागः । कुत्सितं तपति । 'तप संतापे' (भ्वा० प० अ० ) । ' संज्ञायाम् -' ( ३।२।४६ ) इति खच्, ' - अनव्ययस्य' (६।३।६६) इत्यनुंवृत्तेर्न मुम् (६।३।६७) । यद्वा - कुं भुवं तपति । आगमशास्त्रस्यानित्यत्वान्न मुम् । 'दिवसस्याष्टमे भागे मन्दीभवति भास्करः । स कालः कुतपो ज्ञेयः पितॄणां दत्तमक्षयम्' इति शातातपः ।
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy