SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ २५० अमरकोषः । [ द्वितीयं काण्डम् वेशे प्रसाधनम्' इति विश्व - मेदिन्यौ ॥ (१) ॥*॥ कङ्कते । ‘ककि गतौ' (भ्वा० आ० से० ) । बाहुलकादतच् । गौरादिः (४।१।४१)। स्वार्थे कन् (ज्ञापि ० ५।४।५) । 'केऽण:' ( ७/४।१३ ) इति ह्रस्वः । यद्वा - कस्य शिरसोऽङ्काः । शकन्ध्वादिः ( वा० ६।१।९४) । कङ्केष्वतति । कुन् ( उ० २।३२ ) । - कङ्कति । ‘ककि लौल्ये’— इति मुकुटः । तन्न । तस्यानिदि - त्त्वात् । आत्मनेपदित्वाश्च । 'कङ्कती तु प्रसाधनी' इति स्त्रीकाण्डेऽमरमाला । ' कङ्कतं तु प्रसाधनम्' इति क्लीब - काण्डे च ॥ (२) ॥*॥ द्वे 'केशमार्जन्याः' 'कङही' इति | ख्यातायाः ॥ क्तिन् (३।३।९४) 'संततिः स्यात्पङ्की गोत्रे पारम्पर्ये च पुत्रपौत्राणाम्' ( इति मेदिनी ) ॥ (१) ॥*॥ गूयते । 'गुड् शब्दे' ( भ्वा० प० से० ) । ष्ट्रन् ( उ० ४।१४५ ) । 'गोत्रा भूगव्ययोर्गोत्रः शैले गोत्रं कुलाख्ययोः । संभावनीयबोधे च काननक्षेत्रवर्त्मसु ' ( इति मेदिनी ) ॥ ( २ ) ॥*॥ जन्यते । 'जनी प्रादुर्भावे' ( दि० आ० से० ) । 'जन जनने' वा (जु० प० से ० ) । ण्यन्तः । 'कर्मणि ल्युट् ' ( ३।३।११३ ) । 'जननं वंशजन्मनोः ' ( इति मेदिनी ॥ (३) ॥*॥ कूयते । 'कुङ् शब्दे' ( भ्वा० आ० से० ) । बाहुलकालक् । कोलति । 'कुल संस्त्याने ' (भ्वा० प० से ० ) ' इगुपध - ' ( ३।१।१३५) इति को वा । कुं भूमिं लाति । कः ( ३।२।३) वा । कौ लीयते । 'लीड् 'श्लेषणे' ( दि० आ० अ० ) । 'अन्येभ्योऽपि - ' ( वा० ३।२।१०१) इति ङः । ' कुलं जनपदे गोत्रे सजातीयगणेऽपि च । भवने तनौ क्लीबं कण्टकार्योषधौ कुली' ( इति मेदिनी ) ॥ (४) ॥*॥ अभिजन्यते । कर्मणि घञ् ( ३।३।१९ ) । णिलोपस्य स्थानिवत्त्वात् 'जनिवध्योश्च' ( ७१३।३५ ) इति निषेधाद्वा वृद्धिर्न । यद्वा, - अभितोऽभिमुखो वा जनो जन्मात्र । 'भवे दभिजनः ख्यातौ जन्मभूम्यां कुलध्वजे । कुलेऽपि च पुमान्न ( इति मेदिनी ) ॥ ( ५ ) ॥*॥ अन्वीयते । 'इ गतौ' (भ्वा० प० अ० ) । 'इण् गतौ' (अ० प० अ० ) वा 'एरच् ' (३।३।५६ ) ॥ (६) ॥*॥ उश्यते । 'वश कान्तौ' ( अ० प० से०) । घञ् (३।३।१९) । 'आच्छीनयो:-' ( ७।१।८० ) इत्यत्र 'म्' विभागानुम् । यद्वा-वन्यते । 'वन संभतौ' ( वा० १० से० ) । बाहुलकाच्छः — क्मति । 'भुवमिकुभ्यः' इति शक्— इति मुकुटः । तन्न । उक्तसूत्रस्योज्ज्वलदत्ताविध्वदर्शनात् । 'वंशो वेणी कुले वर्गे पृष्टाद्यवयवेऽपि च' इति विश्व मेदिन्यौ ॥ ( ७ ) ॥*॥ अन्ववायते । 'अय गतो' (भ्वा० आ० से० ) । घन् ( ३।३।१९ ) ॥ (८) ॥*॥ संतन्यते । घञ् (३।३।१९) । 'संतानः संततौ गोत्रे स्यादपले सुरद्रुमे' (इति मेदिनी)। कर्तृकरणाधिकरणेष्वपि विग्रहः संभवति । आये 'तनोतेः - ( वा० ३।१।१४० ) इति णः । अन्यत्र 'हलश्च' ( ३।३।१२१ ) इति घञ् ॥ ( ९ ) ॥*॥ नव 'वंशस्य' ॥ पिष्टातः पटवासकः ॥ १३९ ॥ पीति ॥ पिष्टमति । 'कर्मण्यण्' ( ३।२।१) ॥ (१) ॥*॥ पटो वास्यतेऽनेन । ‘वास उपसेवायाम् ' चुरादिः । घः (३1३1११८)। स्वार्थे कन् (ज्ञापि० ५।४।५) । पटं वासयति । 'कर्मण्यण्' (३।२।१) वा । खार्थे कन् ( ज्ञापि ० ५/४/५) ॥ (२) ॥*॥ द्वे 'पिष्टातस्य' 'बुक्का' इति ख्यातस्य ॥ दर्पणे मकुरादश देति ॥ दर्पयति । ‘दृप हर्षमोचनयो:' ( दि० प० अ० ) ण्यन्तः । नन्द्यादिः (३।१।१३४ ) । ' दृप संदीपने' चुरादिर्वा । 'आदर्शो दैर्पणः प्रोक्तः' इत्यमरमाला ॥ (१) ॥*॥ मङ्कते । ‘मकि मण्डने' ( भ्वा० आ० से० ) 'मकुर दर्दुरौ' (उ० १।४०) इति साधुः ॥*॥ मुञ्चति ज्योतिः । 'मुच्ल मोचने' । अत्र पक्षे मुकुरो व्युकारः । 'मकुरः स्यान्मुकुर - वद्दर्पणे बकुलद्रुमे। कुलालदण्डे ' ( इति मेदिनी ) ॥*॥ 'मङ्कुरः' – इत्यन्ये ॥ (२) ॥*॥ आदृश्यते रूपमत्र । 'दृशिर प्रेक्षणै' ( भ्वा० प० अ० ) । 'हलश्व' (३।३।१२१ ) इति घञ् ‘आदर्शो दर्पणे टीकाप्रतिपुस्तकयोरपि' (इति मेदिनी ) ॥*॥ त्रीणि 'दर्पणस्य' ॥ । व्यजनं तालवृन्तकम् । व्येति ॥ व्यजन्त्यनेन । 'अज गतिक्षेपणयोः ' ( भ्वा० प० से० । करणे ल्युट् ( ३।३।११७) । ' वा यौ' (२।४।५७) इतिपक्षेवी न । 'बहुलं तणि' ( वा० २|४|५४ ) इति वा भावो न ॥ (१) ॥*॥ तालस्येव वृन्तमस्य । ताले करत वृन्तमिव बन्धनमस्य । 'वृन्तं प्रसवबन्धे स्याद्धधाराकुचाग्रयोः ' इति विश्वः ॥ (२) ॥*॥ द्वे 'व्यजनस्य' ॥ इति मनुष्यवर्गविवरणम् ॥ संततिर्गोत्रजननकुलान्यभिजनान्वयौ । वंशोऽन्ववायः संतानः समिति॥ संतन्यते। ‘तनु विस्तारे' ( तु० उ० से० ) । १ - ' किं तद्दर्पणमस्ति यत्र सकलम्' इति धर्मसेनः । अतः क्लीव - मपि - इति मुकुटः ॥ वर्णाः स्युर्ब्राह्मणादयः ॥ १ ॥ वेति ॥ वर्ण्यते । 'वर्ण प्रेरणे' (चु० प० से०) घञ् (३/३।१९) । वर्णयति । अच् ( ३।१।१३४ ) वा । 'वर्णो द्विजादिशुक्लादियज्ञे गुणकथासु च । स्तुतौ ना न स्त्रियां भेदरूपाक्षरविलेपने' (इति मेदिनी ) ॥ (१) ॥ ॥ एकम् 'ब्राह्मणादिवर्णचतुष्टयवाचकस्य' वर्णा इत्येकम् ॥ विप्रक्षत्रियविट्शूद्राश्चातुर्वर्ण्यमिति स्मृतम् । वीति ॥ विप्रश्च क्षत्रियश्च विट् च शुद्रश्च । चत्वार एव वर्णाः 'चतुर्वर्णादीनाम्' ( वा० ५।१।१२४ ) इति स्वार्थे ष्यञ् ॥ די
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy