SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ स्वर्गवर्गः १] ( २ ) ॥*॥ द्वयोर्मांत्रोरपत्यम् । 'मातुरुत्संख्या संभद्रपूर्वायाः (४।१।११५ ) इत्यणि उत्वं रपरत्वं च । दुर्गाचामुण्डाभ्यां पालितत्वात् । गजमुखतया हस्तिन्या अपत्यत्वात् । गङ्गाया अपत्यत्वाद्वा । 'द्वैमातुरो जरासंधवारणाननयोः पुमान्' ॥ (३) ॥*॥ गणानां प्रमथानामधिपः ॥ (४) ॥*॥ एको दन्तोऽस्य । स्कन्देनोत्पाटितदन्तत्वात् ॥ ( ५ ) ॥॥ हे रम्बते । 'हः शंकरे हरौ हंसे रणरोमाञ्चवाजिषु' इति नानार्थरत्नमाला। ‘अबि रबि शब्दे' पचाद्यच् ( ३।१।१३४ ) । 'तत्पुरुषे कृति-' ( ६।३।१४ ) इत्यलुक् । हे उषसि रम्बते इति खामी । (‘हेरम्बः शौर्यगर्विते । महिषे विघ्नराजे च' ) ॥ (६) ॥*॥ लम्बमुदरमस्य । ( ' लम्बोदरः स्यादुद्ध्माने प्रमथानां च नायके' ) ( ७ ) ॥ ॥ गज आननमस्य । 'समुदायशब्दा अवयवेऽपि वर्तन्ते' इति गजमुखपरो गजशब्दः ॥ (८) ॥॥ (नैन्वत्र द्वन्द्वो न प्राप्नोति । 'विरूपाणा - मपि समानार्थानाम्' ( वा० १/२/६४ ) इत्येकशेषविधानात् । मैवम् । स्वरूपपदार्थकानामेषां द्वन्द्वविधानात् । स्वरूपस्य च प्रतिशब्दं भिन्नत्वेन समानार्थताया एवाभावात् । अर्थपरता तु लक्षणया ज्ञेया । तारतम्यशब्दवत् । सर्वत्रैवं बोध्यम् ) ॥ अष्टौ 'गणेशस्य' ॥ व्याख्यासुधाख्यव्याख्यासमेतः । । कार्तिकेयो महासेनः शरजन्मा षडाननः । 'पार्वतीनन्दनः स्कन्दः सेनानीरग्निभूर्गुहः ॥ ३९ ॥ बाहुले यस्तारकजिद्विशाखः शिखिवाहनः । षाण्मातुरः शक्तिधरः कुमारः कौञ्चदारणः ॥ ४० ॥ कार्तिकेय इत्यादि ॥ कृत्तिकानामपत्यम् । 'स्त्रीभ्यो ढक्' (४।१।१२०)॥ (१) ॥*॥ महती सेना यस्य । ( 'महासेनो महासैन्ये स्कन्देऽपि ' ) ॥ ( २ ) ॥ ॥ शरेषु जन्मास्य ॥ (३) ॥*॥ षड् आननान्यस्य ॥ ( ४ ) ॥ * ॥ पार्वत्या नन्दनः ॥ (५) ॥*॥ स्कन्दति । पचाद्यच् ( ३।१।१३४ ) ॥ (६) '॥*॥ सेनां नयति । 'सत्सूद्विष - ' ( ३।२।६१ ) इति क्विप् 'सेनानी स्यात्पुमान्कार्तिकेये सेनापतौ पुमान् ॥ ( ७ ) ॥*॥ अग्नेर्भवति । ‘भुवः–’ ( ३।२।१७९ ) इति क्विप् ॥ ( ८ ॥*॥ गूहति रक्षति सेनाम् । 'गुहू संवरणे' (स्वा० उ० से ० ) । 'इगुपध-' ( ३।१।१३५ ) इति कः । 'गुहः षाण्मातुरे गुहा । सिंहपुच्छ्यां च गर्ते च पर्वतादेव कंदरे ' ॥ ( ९ ) ॥॥ बहुलानां कृत्तिकानामपत्यम् । ‘स्त्रीभ्यो ढक्' ( ४।१।१२० ) ॥ (१०)॥*॥ तारकं जयति ॥ ( ११ ) ॥ * ॥ विशाखति ‘श्वासृ श्वाखृ व्याप्तौ’ (भ्वा॰प॰से॰) । पचाद्यच् ( ३।१।१३४) विवास्वायां जात इति वा । ‘संधिवेलादि-' (४।३।१६) इत्यचः ‘श्रविष्ठाफल्गुनी–’(४।३।३४ ) इत्यादिना लुकि 'लुक्तद्धितलुकि’ (१।२।४९)। (‘विशाखो याचके स्कन्दे वि ) । । १-अयं पाठो न सर्वत्रोपलभ्यते । कचिदुपलब्धोऽपि पुन: रुक्तप्रायः । अमर० ३ १७ शाखा भे कठिल्ल' ) ॥ ( १२ ) ॥*॥ शिखी मयूरो वाहनमस्य ॥ (१३) ॥ ॥ षण्णां मातृणामपत्यम् । 'मातुरुत्संख्यासं-' (४।१।११५) । (१४) ॥*॥ शक्तेर्धरः ॥ (१५) ॥*॥ कुमारयति क्रीडति । 'कुमार क्रीडायाम्' (चु० उ० से०) । पचाद्यच् ( ३।१।१३४ ) कुत्सितो मारोऽस्येति वा । 'कुः पापेषदर्थयो:' । कौ मारयति दुष्टान् । पचाद्यच् (३।१।१३४)। यत्तु ब्रह्मचारित्वात्कुमारः - इति स्वामिनोक्तम् । तन्न । ' शतक्रतो रूपवती देवसेनेति या सुता । सा महेन्द्रेण रत्यर्थं भार्या - त्वेनोपपादिता ॥ उदीर्णसेनापतये महासेनाय सुव्रत' इति वायुपुराणात् । ' कुमारः स्याच्छुके स्कन्दे युवराजेऽश्ववारके । बालके वरुणद्रौ ना न द्वयोर्जात्यकाञ्चने ) | ( १६ ) ॥*॥ क्रुश्चेः ( भ्वा० प० से ० ) क्विन ( ३|१|५९ ) । प्रज्ञायण् ( ५।४।३८ ) । क्रौञ्चस्य पर्वतस्य दारण: । 'दृ विदारणे' ( वा०प० से०) ण्यन्तात् ( ३।१।२६ ) ल्युः ( ३|१|१३४ ) ॥ ॥ कैलासे धनदावासे कौञ्चः क्रौञ्चोऽभिधीयते' इति बृहद्धारावली | अतः 'कौञ्चदारणः' अपि ॥ ( १७ ) ॥*॥ सप्तदश ' कार्ति - केयस्य' ॥ इन्द्रो मरुत्वान्मघवा बिडौजाः पाकशासनः । वृद्धश्रवाः सुनासीरः पुरुहूतः पुरंदरः ॥४१॥ जिष्णुलैखर्षभः शक्रः शतमन्युर्दिवस्पतिः । सुत्रामा गोत्रभिद्वज्री वासवो वृत्रहा वृषा ॥ ४२ ॥ जम्भभेदी हरिहयः स्वाराण्नमुचिसूदनः ॥ ४३ ॥ वास्तोष्पतिः सुरपतिर्बलारातिः शचीपतिः । संक्रन्दनो दुश्यवनस्तुराषाण्मेघवाहनः । आखण्डलः सहस्राक्ष ऋभुक्षाः इन्द्र इत्यादि ॥ इन्दति । ' इदि परमैश्वर्ये ' भ्वा० प० से० ) । 'ऋजेन्द्र -' ( उ० २।२८ ) इत्यादिना रन् । 'रग्' इति तन्न । अन्तोदात्तत्वापत्तेः । मुकुटः । 'इन्द्रः शक्रा - दित्यभेदयोगभेदान्तरात्मसु' । 'इन्द्रः फणिज्जकेऽस्त्री स्यात्’॥ मतुप् ( ५।२।९४)। ( १ ) ॥ॐ॥ मरुतः सन्त्यस्य । ‘झयः' ( ८।२।१०) इति वत्वम् । 'तसौ मत्वर्थे' (१।४।१९) इति भत्वाज्जश्त्वाभावः ॥ ( २ ) ॥ ॥ मह्यते पूज्यते । 'मह पूजायाम्' (भ्वा०प०से०, चु० उ० से ० ) । 'श्वन्नुक्षन्-' ( उ० १।१५९) इत्यादिना 'मघवन्' इति निपातितम् ॥*॥ 'मघवा बहुलम् ' ( ६ |४|१२८ ) इति त्रादेशपक्षे तु 'मघवान्' इत्यपि बोध्यम् । यत्तु 'त्रादेशे दीर्घाभावात् मघवन्' इि स्वामिनोक्तम् । तन्न । 'सर्वनामस्थाने चासंबुद्धौ ' ( ६।४।८ ) । इति दीर्घसंभवात् । नच संयोगान्तलोपस्य ( ८/२/२३ ) असिद्धत्वम् । 'मघवा बहुलम्' ( ६।४।१२८ ) इति बहुलग्रहन तद्बाधनात् । अत एव मतुपा ( ५/२/९३ ) त्रन्तादेशप्रत्याख्यानपरं वार्तिकं तद्भाष्यं च ( ६|४|१२८ ) संगच्छते । 'हनिर्जक्षिति निःशङ्को मखेषु मघवानसौ' इति भट्टिः । एतेन
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy