SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ मनुष्यवर्गः ६ ] शिफायां च ज्वालायां प्रपदेऽपि च ' ( इति मेदिनी ) ॥ ( १ ) ॥*॥ चुष्यते। ‘चुड समुच्छ्राये' ( चु० प० से० ) । ' चुरा दीनां णिज्वा' इति पक्षे भिदादिपाठात् ( ३।३।१०४) अङ् दीर्घत्वे । 'चूडा शिखाप्रयोः । बाहुभूषावलभ्योश्च' इति हैमः ॥ (२) ॥*॥ केशानां पाशः । अल्पः केशपाशः । गौरादिः (४|१|४१) ॥ (३) ॥*॥ त्रीणि 'शिरोमध्यस्थचूडायाः ' 'चोटी ' इति ख्यातायाः ॥ व्याख्यासुधाख्यव्याख्यासमेतः । तिनस्तु जटा सटा ॥ ९७ ॥ । वेति ॥ व्रतिनः शिखा जायते जन्यते वा । 'जनेष्टन् नोपश्च' (उ० ३।३० ) । यद्वा - जयति । 'जट संघाते' (भ्वा० प० से० ) । अच् ( ३।१।१३४ ) । 'जटा लग्नकचे मूळे मांस्या लक्षे पुनर्जटी' ( इति मेदिनी ) ॥ (१) ॥*॥ सटति । 'षट अवयवे' ( भ्वा० प० से० ) । अच् ( ३1१1(१३४) । 'सटा जटाकेसरयो:' ( इति मेदिनी ) ॥ (२) ॥*॥ 'कोटीरस्तु जटा सटा' इति रभसः ॥*॥ द्वे 'व्रतिनः शिखायाम् ' ॥ वेणिप्रवेणी वेणीति ॥ वेति । 'वेण निशामनवादित्रादानगमनज्ञानचिन्तासु' ( भ्वा॰ उ० से० ) । इन् ( उ० ४।११८ ) ॥ (१) ॥*॥ प्रग्रह उपसर्गान्तरव्यावृत्त्यर्थः ॥ ( २ ) ॥*॥ ' करणिश्रोणिवेणयः' इति स्त्रीकाण्डे निगमः ॥* ॥ 'वेणी सेतुप्रवाहयोः । देवताडे केशबन्धे' इति हैमः ॥*॥ द्वे 'प्रोषितभर्तृकादिधार्य केशरचनाविशेषस्य ' ॥ शीर्षण्यशिरस्य विशदे कचे । शीति ॥ शिरसि भवः । ‘शरीरावयवाच्च' ( ४।३।५५ ) इति यत् । ‘ये च तद्धिते' ( ६।१।६१ ) इत्यत्र 'वा केशेषु' इति वचनाद्वा शीर्षन् । ‘शीर्षण्यं तु शीर्षके । सुकेशे पुंसि (इति मेदिनी ) ॥ (१) ॥*॥ ( २ ) ॥*॥ द्वे 'अन्योन्यासंपृक्ते स्नानादि निर्मले वा केशे' ॥ पाशः पक्षश्च हस्तञ्च कलापार्थाः कचात्परे ॥ ९८ ॥ १९ पेति ॥ पाश्यते । ‘परा बन्धे' चुरादिः । घञ् ( ३|३|| घः ( ३।१।११८ ) वा । 'पाशस्तु मृगपश्वादिबन्धने । कर्णान्ते शोभनार्थः स्यात्कचान्ते निकरार्थकः । छात्राद्यन्ते च निन्दार्थः' इति हैमः ॥ (१) ॥*॥ पयते । 'पक्ष परिग्रहे' (भ्वा० प० से ० ) । घञ् ( ३।३।१९ ) | घः ( ३।३।११८) वा । 'पक्षो मासार्धके गेहपार्श्वसाध्यविशेषयोः । केशादेः परतो वृन्दे बले सखिसहाययो: ' ( इति मेदिनी ) ॥ ( २) ॥*॥ इसति, हस्यते, वा । ‘हसे हसने ' ( भ्वा० प० से ० ) । १ - केषुचिन्मूलपुस्तकेषु तु 'व्रतिनः प्ता' इति पाठ उपलभ्यते । 'सा जटायां च राक्षस्यां पतने दुर्भगस्त्रियाम्' इति क्वचित्पुस्तके हैमः ॥ 'सुप्तोऽपि प्रबुद्ध:' इति कादम्बरीश्लेषश्च ॥ २३७ 'हसि मृग्रिण्- ' ( उ० ३।८६ ) इति तन् । 'हस्तः करे करिकरे सप्रकोष्ठकरेऽपि च । ऋक्षे केशात्परो व्राते' (इति मेदिनी) ॥ (३) ॥*॥ कचवाचकात् परे सन्तः । कलापोऽर्थो येषाम् ॥*॥ त्रीणि 'कलापार्थस्य' ॥ तनूरुहं रोम लोम तेति ॥ तन्वां रोहति । मूलविभुजादिकः ( वा० ३।२।५) । 'तनूरुहं तु लोनि स्यात्पतत्रे च नपुंसकम्' इति मेदिनी । 'तनूरुहस्तु पुत्रे गरुति लोनि च' इति हैमः ॥ (१) ॥*॥ रोहति । 'नामन्- सीमन् - व्योमन् - रोमन् - लोमन् - ' ( उ० ४।१५१) इति साधुः । यद्वा-रूयते । 'रु शब्दे' ( अ० प० अ० ) । मनिन् ( ३।२।७५ ) ॥ ( २ ) ॥*॥ कपिलकादित्वात् ( वा० ८।२।१८ ) लत्वम् । लूयते वा । मनिन् ( ३।२।७५ ) ॥ (३) ॥* ॥ त्रीणि 'रोम्णः ॥ तद्वृद्धौ श्मश्रु पुंमुखे । तदिति ॥ तस्य वृद्धिस्तस्याम् । इम मुखं श्रयति । 'ब्ि सेवायाम्' (भ्वा० उ० से ० ) । इमनि मुखे श्रूयते । 'श्रु श्रवणे' ( भ्वा० प० से० ) मितवादित्वात् ( वा० ३।२।१८० ) डुः । संपदादिक्विप् ( वा० ३।३।१०८ ) वा । आगमशास्त्रस्यानित्यत्वान्न तुक् ॥ (१) ॥*॥ पुंसो मुखे ॥*॥ एकं 'दादि • कायाः ॥ आकल्पवेषौ नेपथ्यं प्रतिकर्म प्रसाधनम् ॥ ९९ ॥ आकेति ॥ आकल्पनम् । 'कृपू सामर्थ्य' ( भ्वा० आ० से० ) । घञ् ( ३।३।१८ ) । ' कृपो रो ल:' ( ८।२।१८ ) । अकल्प्यते वा । आकल्पयति वा । स्वार्थण्यन्तः । अच् (३।१।१३४ ) । 'आकल्पः कल्पने वेशे' ( इति मेदिनी ) ॥ (१) ॥*॥ वेषणम्, विष्यते, वा । 'विष्ल व्याप्तौ' (जु० प० से०) । घञ् ( ३।३।१८, १९) । वेवेष्टि वा । अच् (३।१।१३४) ॥*॥ तालव्यशान्तोऽपि । वेशनम् । विश्यते वा । विशति वा । 'विश प्रवेशने' (तु० प० अ० ) । प्राग्वत् । त्रिष्वप्यधिकरणे घञ् ( ३।३।१९ ) वा । ' वेशो वेश्यागृहे गृहे । नेपथ्ये च' ( इति मेदिनी ) ॥ ( २ ) ॥*॥ नयति । णिच् ( ३।२।७५) । गुणः (७|३|८४) । निनो नेत्रस्य, नेर्नेतुर्वा पथ्यम् । संज्ञापूर्वकत्वान्न ह्रस्वः । 'नेपथ्यं तु प्रसाधने । रङ्गभूमौ वेषभेदे' इति हैमः ॥ ( ३ ) ॥ * ॥ प्रत्यङ्कं प्रतिख्यातं वा कर्म । शाकपार्थिवादिः ( वा० २।१।७८ ) ॥ (४) ॥ *॥ प्रसाध्यतेऽनेनाङ्गम् । करणे ल्युट् ( ३।३।११७ ) ॥ ( ५ ) ॥*॥ पञ्च 'अलंकाररचनादिकृतशोभायाः ॥ दशैते त्रिषु देति ॥ एते वक्ष्यमाणा रोचिष्णुपर्यन्ताः ॥ १ - 'रु शब्दे' इत्युत्तरम् 'रुङ गतौ भाषणे वा' इत्यपि पाठः ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy