SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ मनुष्यवर्गः ६ ] करोति क्विप् (३।२।७६)। तुक् ( ६।१।७१ ) ॥ ( २ ) ॥*॥ 'करण्डी तु महास्नायुः, कालेयं कालखण्डके' इति रभसः ॥*॥ द्वे 'कुक्षेर्दक्षिणभागस्थमांसखण्डस्य' 'कलेजा' इति ख्यातस्य ॥ व्याख्यासुधाख्यव्याख्यासमेतः । सृणिका स्यन्दिनी लाला इतीषन् किच्च । ' उदोष्छ्ट्यपूर्वस्य ' ( ७।१।१०२ ) ॥ (६) ॥*॥ वर्चते, वर्च्यते वा । 'वर्च दीप्तौ ' ( वा० आ० से० ) । असुन् ( उ० ४।१८९ ) । कुत्सायां कन् ( ५।३।७४ ) ॥ ( ७) ॥ * ॥ वितिष्ठते उदरे । अनया वा पुरुषः । 'आतश्चोपसर्गे' ( ३।१।१३६ ) इति कः । अङ् ( ३।३।१०६ ) वा । 'उपसर्गात् -' ( ८।३।६५ ) इति षत्वम् ॥ (८) ॥*॥ वैवेष्टि । 'विष्ट व्याप्तौ ' ( जु० प० अ० ) । किप् ( ३।२।१७८ ) ॥*n ( 'विश' इति ) तालव्यान्तपाठे विशति । 'विश प्रवेशने' (तु० प० अ० ) । क्विप् ( ३।२।१७८ ) ॥ ( ९ ) ॥*॥ नव 'विष्ठायाः ' ॥ | त्रिति ॥ सरति ‘सृवृषिभ्यां कित्' ( उ० ४।४९ ) इति निः। ‘संज्ञायां कन्’ (५।३।७५) ॥*॥ 'सर्तेर्नुम् च' ( उ० ४।२३) ईकन् कित्वं नुम् च । इति ( सृणीका ) दीर्घमध्यापि ॥ (१) ॥*॥ अवश्यं स्यन्दते । 'आवश्यका - ( ३१३।१७०) इति णिनिः । ङीप् (४।१।५) ॥ (२) ॥*॥ लालयते । ‘लल ईप्सायाम्’ चुरादिः। अच् (३।१।१३४) ॥ (३) ॥*॥ त्रीणि 'लाळ' इति ख्यातायाः ॥ दूषिका नेत्रयोर्मलम् | द्विति ॥ दूषयति । 'दुष वैकृत्ये' ( दि० प० अ० ) ण्यन्तः । ‘दोषो णौ’ ( ६।४।९० ) इत्यूत्वम् । ण्वुल् ( ३।१।१३३)। ‘अच इः’ (उ० ४।१३९) । 'कृत् -' (ग० ४।१।४५) इति ङीष् वा । स्वार्थे कन् (ज्ञापि० ५/४/५ ) अपि । पिश्ञ्चो ण्डकं नेत्रमलं दूषी च दूषिकापि च' इति वाचस्पतिः ॥ ‘कषिदूषिभ्यामीकम्’ (उ० ४।१६ ) इति 'दूषीका' अपि ॥ (१) ॥*॥ एकम् 'नेत्रमलस्य' ॥ मूत्रं प्रस्रावः । म्विति ॥ मूत्रयते । ‘मूत्र प्रस्रवणे' ( चु० उ० से० ) । घञ् (३।३।१९) ॥ (१) ॥*॥ प्रसूयते । 'स्रु प्रस्रवणे' ( भ्वा० प० अ० ) । 'प्रे स्तुस्रुवः' ( ३।३।२७ ) इति घञ् करणे तुं परत्वाल्युरूप्रसङ्गः ॥ ( २ ) ॥ * ॥ द्वे 'मूत्रस्य ' ॥ उच्चारावस्करौ शमलं शकृत् ॥ ६७ ॥ पुरीषं वर्चस्aमस्त्री विष्ठाविषौ स्त्रियौ । उच्चेति ॥ उच्चार्यते यज्यते । 'चर गतौ' ( भ्वा० प० से० ) । ण्यन्तः। घम् ( ३।३।१९ ) अच् ( ३।३।५६ ) वा ॥ (१) ॥*॥ अवकीर्यते अधः क्षिप्यते । 'कॄ विक्षेपे' (तु० प० से०) ‘ऋदोरप्' ( ३।३।५७ ) । 'वर्चस्केऽवस्कर : ' ( ६१।१४८) इति सुट् ॥ (२ ) ॥*॥ शाम्यति, शम्यते वा । 'शकिशम्योर्नित्' ( उ० १।११२ ) इति कलः ।——शकिशमिवहिभ्योऽलः’-इति मुकुटोपन्यस्तमपाणिनीयम् ॥ (३) ॥*॥ शक्नोति, शक्यते वा निःसर्तुं निःसारयितुं वा । 'शकेर्ऋतिन्' (उ० ४।५८ ) ॥ (४) ॥ ॥ गूयते । 'गुङ् शब्दे' (भ्वा० आ० अ० ) । 'गु पुरीषोत्सर्गे' (तु० १० भ० ) बा । 'विथपृष्ठगूथ-' ( उ० २।१२ ) इति साधुः ॥ (५) ॥*॥ पिपर्ति शरीरम्। ‘पॄ पालनपूरणयोः' (जु० प० से० ) । 'कृतॄभ्यामीषन्' (उ० ४।२६) । 'शुपृभ्यां किच्च ' ( उ० ४।२७) १ - इदं तु न प्रकृतोपयोगि ॥ अमर० २९ २२५ स्यात्कर्परः कपालोऽस्त्री स्यादिति ॥ कल्पते । 'कृपू सामर्थ्य' (भ्वा० आ० से० ) बाहुलकादरः, लत्वाभावश्च । ( 'कर्परस्तु कटाहे स्याच्छस्त्रभेदकपालयोः' इति हैमः ) ॥ (१) ॥*॥ कं पालयति । 'कर्मण्यण्' ( ३।२।१) । कम्पते । ‘कपि चलने’ (भ्वा० आ० से० ) । 'तमिविशि ' ( उ० १।११८ ) इति कालन् । 'कपि’ इति निर्देशान्नलोपः । आगमशास्त्रस्यानित्यत्वं वा । 'कपालो - ऽस्त्री शिरोऽस्नि स्यात् घटादेः शकले व्रजे' ( इति मेदिनी)॥ ( २ ) ॥*॥ द्वे 'शिरोस्थिखण्डस्य' ॥ कीकसं कुल्यमस्थि च ॥ ६८ ॥ कीति ॥ 'कि' इति कसति । 'कस गतौ' ( भ्वा० प० से० ) । अच् ( ३।१।१३४ ) । कीकसः कृमिजातौ स्यात्पुंसि कुल्ये नपुंसकम् ' ( इति मेदिनी ) ॥ (१) ॥*॥ ' सजातीयगणे गोत्रे देहेऽपि कथितं कुलम्' इति विश्वः । कु भवम् । साधु वा । दिगादित्वात् ( ४।३।५४ ) यत् । ' तत्र साधुः (४|४|१८ ) इति वा । कोलति कुल्यते वा 'कुल संस्त्याने ( वा० प० से० ) । अन्यादिः ( उ० ४।११२ ) । 'कुल्यः कुलोद्भवे मान्ये कुलस्यातिहितेऽपि च । कुल्यं स्यात्की कसे प्यष्टद्रोणीशूर्पामिषेषु च । पयः प्रणालीसरितोः कुल्या जीवन्तिकौषधौ' इति विश्वः ॥ (२) ॥*॥ अस्यते । 'असिसञ्जिभ्यां क्थिन्' ( उ० ३।१५४) ॥ (३) ॥*॥ श्रीणि 'अस्थिमात्रस्य ' ॥ स्याच्छरीरास्नि कङ्कालः स्यादिति ॥ 'कम्' इत्यव्ययं सुखे शिरसि च । कं कालयति । 'कल क्षेपे' चुरादिः । अच् ( ३।१।१३४ ) । यद्वा, - कङ्कते । 'ककि गतौ ' ( भ्वा० आ० से० ) । बाहुलकात्कालन् ॥ (१) ॥ ॥ एकं 'त्वयां सरहितशरीरास्नः' ॥ पृष्ठास्थि तु कशेरुका । पृष्ठेति ॥ कं वायुं शृणाति । केन शीर्यते वा । 'के श्र एरब् चास्य' ( उ० १।८८ ) इत्यूः । ‘संज्ञायां कम्’ (५।३३७५)। ‘केऽणः’ (७।४।१३ ) इति ह्रस्वः । यद्वा - कशति । कश्यते वा । 'कश शब्दे' ( ) । बाहुलकारः ।
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy