SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ अमरकोषः । ( वा० ३।३।१०८ ) ॥ (१) ॥*॥ 'अ प्रत्ययात् ' ( ३।३।- आनाहस्तु विबन्धः स्यात् १०२ ) ॥ (३) ॥ * ॥ खर्जनम् । 'खर्ज मार्जने च । चायथने ( वा० प० से ० ) । 'कृषिचमि - ' ( उ० १1८० ) इत्यूः । ‘खर्जूः खर्जूरीकीटकण्डुषु' इति हैमः ॥ ( २ ) ॥*॥ त्रीणि ' गात्रविघर्षणस्य' ॥ २२० | विस्फोटः पिटकस्त्रिषु ॥ ५३ ॥ वीति ॥ विस्फोटति । 'स्फुटिर् विशरणे' ( वा० प० से० ) । अच् ( ३।१।१३४ ) । करणे घञ् ( ३।३।१९ ) वा ॥ (१) ॥*॥ पेटति। ‘पिट शब्दसंघातयोः' (भ्वा० प० से०) कुन ( उ० २।३२) । 'पिटकः स्यात्तु विस्फोटे मञ्जूषायामपीष्यते' इति हेमचन्द्रः । स्त्रियां पिटका । क्षिपकादिः ( वा० ७१३।४५) ॥*॥ 'विस्फोटा विटिका स्त्रियाम्' इत्यमरमालायां वकारादिरपि ॥ (२) ॥*॥ द्वे 'फोडा' इति ख्यातस्य ॥ व्रणोऽस्त्रियामीर्ममरुः क्लीबे वेति ॥ व्रणति । ' व्रण शब्दे' ( भ्वा० प० से० ) । अच् (३।१।१३४)। यद्वा,-व्रणयति । ' व्रण गात्रविचूर्णने ' ( चु० उ० से०) । अदन्तः । अच् (३।१।१३४) ॥ (१) ॥*॥ ईर - यति सुखम् । ‘ईर गतिप्रेरणयो:' ( अ० आ० से० ) । बाहुलकान्मन् ॥ ( २ ) ॥*॥ इयर्ति । 'ऋ गतौ' (जु० प० अ० ) । ‘अर्तिपृवपि-' ( उ० २।११७ ) इत्युस् ॥ (३) ॥*॥ त्रीणि 'व्रणस्य' | नाडीव्रणः पुमान् । नेति ॥ नाड्यां व्रणः ॥ (१) ॥*॥ एकं 'सदा गलतो व्रणस्य' ॥ कोठो मण्डलकम् कविति ॥ कुण्ठति । 'कुठि प्रतिघाते' (भ्वा० प० से ० ) । अच् ( ३।१।१३४)। आगमशास्त्रस्यानित्यत्वान्न नुम् ॥ (१) ॥*॥ मण्डलमिव । 'इवे प्रतिकृतौ ' ( ५।३।९३ ) इति कन् ॥ (२) ॥*॥ द्वे 'मण्डलाकारकुष्ठस्य' ॥ कुष्ठश्वित्रे । क्विति ॥ कुष्णात्यङ्गम् । 'कुष निष्कर्षे' (क्र्या० प० से ० ) । ‘निकुषि-' ( उ० २।२) इति क्थन् । कुत्सितं तिष्ठति वा । 'सुपि - ' (३।२।४) इति कः । ' अम्बाम्ब - ' ( ८1३1९७ ) इति षः। ‘कुष्ठं भेषजरोगयोः' इति हैमः ॥ (१) ॥* ॥ श्वेतते 'श्विता वर्णे' ( भ्वा० आ० से० ) । 'स्फायितश्चि- ' ( उ० २११३) इति रक् ॥ (२) ॥*॥ द्वे 'श्वेतकुष्ठस्य' ॥ दुर्नामकार्शसी ॥ ५४ ॥ दुरिति ॥ दुष्टं नामास्य । पापरोगत्वात् । क्षुभ्रादिः ( 1४॥३९)॥ (१) ॥*॥ ऋच्छति । 'ऋ गतौ' ( भ्वा० प० अ० ) । 'अर्तेर्व्याधौ शुट् च' ( उ० ४।१९६ ) इत्यन् ॥ (२) ॥*॥ द्वे 'गुदरोगस्य अर्शाख्यस्य ॥ [ द्वितीयं काण्डम् आनेति ॥ आननम् | 'णह बन्धने' ( दि० उ० अ० ) । घञ् ( ३।३।१८ ) ॥ (१) ॥ ॥ विबन्धनम् । 'बन्ध बन्धने' क्या० प० अ० ) । घञ् ( ३।३।१८) ॥ (२) ॥*॥ आभ्यां करणे वा घञ् ( ३।३।१९ ) ॥ ॥ द्वे आध्मानस्य ' मलमूत्रनिरोधस्य' ॥ ( ग्रहणी रुक् प्रवाहिका । से० ) । 'क्वत्यल्युटः - ( ३।३।१ १३ ) इति ल्युट् ॥ (१) ॥३॥ ग्रेति ॥ गृह्णाति जठराग्निम् | 'ग्रह उपादाने' ( क्या० उ० प्रवहति । ण्वुल् ( ३।१।१३३) । प्रवहणम्। ‘रोगाख्यायां रोगो ग्रहणी स्यात् ॥ *॥ द्वे 'संग्रहणीरोगस्य ॥ ण्वुल् - ' ( ३।३।१०८ ) ॥ ( २ ) ॥*॥ रुक् रोगः । प्रवाहिका प्रच्छर्दिका वमिश्च स्त्री पुमांस्तु वमथुः समाः ॥ ५५ ॥ प्रेति ॥ प्रच्छर्दनम् । 'छर्द वमने ' ( चु० प० से० ) । 'रोगाख्या -' ( ३।३।१०८ ) इति ण्वुल् ॥ (१) ॥*॥ म नम् । 'टुवम उद्गिरणे' ( भ्वा० प० से ० ) ।' 'इक् कृष्या• दिभ्यः ' ( वा० ३।३।१०८ ) ॥ ( २ ) ॥*॥ द्वितोऽथुच्' (३३।८९ ) । ' वमथुः पुंसि वमने गजस्य करशीकरें इति (मेदिनी ॥ (३) ॥*॥ त्रीणि 'वमनस्य' ॥ व्याधिभेदा विद्रधिः स्त्री ज्वरमेहभगंदराः । व्येति ॥ वेदनम् । छिद्रम् । ' बहुलमन्यत्रापि संज्ञा - छन्दसोः' इति रक् । यद्वा - विद्राति । 'द्रा स्वप्ने पलायने' (अ० प० अ० ) । ‘आतश्चोपसर्गे' ( ३।१।१३६ ) इति कः । विद्र धीयतेऽस्याम् । 'डुधाञ् ' । 'कर्मण्यधिकरणे च ' ( ३।३।९३ ) इति कः । यद्वा - विद्रस्य धानम् । 'इकृष्यादिभ्यः' ( वा० ३।३।१०८ ) ॥ (१) ॥*॥ ज्वरति । 'ज्वर रोगे' (स्वा०प० से०)। अच् (३।१।१३४) । ज्वरणं वा । ण्यन्तात् घञ् (३३।१८) णिलोपस्य स्थानिवत्त्वान्न वृद्धिः । ' एरच्' (३१३१५६) वा ॥ (१) ॥*॥ मेहति । 'मिह सेचने' ( स्वा०प० अ०)। अच् (३।१।१३४ ) । मेहनं वा । घञ् ( ३।३।१८) ॥ (१) ॥*॥ भगं दारयति । 'भगे च दारे:' ( काशिका ० ) इति खच् ॥ (१) ॥*॥ अश्मरी मूत्रकृच्छ्रं स्यात् अश्मेति ॥ अश्मानं राति । ' आतोऽनुप - ' ( ३ 1१1३) इति कः । गौरादिः (४।१४१) ॥ (१) ॥ ॥ मूत्रे कृच्छ्रमंत्र ॥ (१) ॥ * ॥ ' विद्रध्यादीनां व्याधिप्रभेदानां' प्रत्येकमेकैकम् ।—अश्मर्यास्तु द्वे नाम्नी — इत्येके ॥ पूर्वे शुक्रवधेस्त्रिषु ॥ ५६ ॥ विति ॥ इतः परं शुक्रशब्दात् प्राक्पठिता वाच्यलिङ्गा इत्यर्थः ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy