SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ मनुष्यवर्गः ६ ] व्याख्यासुधाख्यव्याख्यासमेतः । अ० ) 'एरच्' ( ३।३।५६ ) | घः ( ३।३।११८ ) वा ॥ ( ७ ) ओषधिभेदे स्यादुत्कृते त्वग्विवर्धने' इति हैः ॥ (१) ॥*॥ ॥*॥ सप्त 'रोगस्य' ॥ क्षयः शोषश्च यक्ष्मा च क्षय इति ॥ क्षयति देहम् । 'क्षि क्षये' ( भ्वा० प० भ० ) अन्तर्भावितण्यर्थः । अच् ( ३।१।१३४) । 'क्षयो गेहे कल्पान्तेऽपचये रुजि' इति हैमः ॥ (१) ॥ ॥ शोषयति । 'शुष शोषणे' ( दि० प० अ० ) । अच् ( ३|१|१३४ ) । ‘शोषः शोषणयक्ष्मणोः’ इति हैमः ॥ ( २ ) ॥*॥ यक्षयते, यक्ष्यते, वा । 'यक्ष पूजायाम्' चुरादिः । मनिन् ( उ०४१४५ ) ॥ (३) ॥*॥ त्रीणि 'राजयक्ष्मणः ' ॥ प्रतिश्यायस्तु पीनसः ॥ ५१ ॥ प्रेति ॥ प्रतिक्षणं श्यायते । 'इयैङ् गतौ' ( भ्वा० आ० अ०)। ‘श्याद्व्यधा–’ ( ३।१।१४१ ) इति णः ॥*॥ प्रतिश्यायतेऽनया । ‘आतश्वोपसर्गे' ( ३।३।१०६ ) इत्यङि 'प्रतिश्या' अपि ॥ (१) ॥*॥ पीनं स्यति, सायति, वा । ' षोऽन्तकर्मणि’ ( दि० प० अ० )। 'क्ष क्षये' (भ्वा० प० अ० ) बा। ‘आतोऽनुप’ (३।२।३) इति कः ॥ ( २ ) ॥*॥ 'आपीनसः प्रतिश्या स्यात्' इति रभसः ॥ ॥ द्वे 'नासा - रोगस्य ॥ श्री क्षुत् श्रुतं वः पुंसि स्त्रीति ॥ क्षवणम् । 'क्षु शब्दे' (अ० प० से० ) । संपदादिः ( वा० ३।३।१०८) ॥ (१) ॥*॥ भावे क्तः (३)३।११४) ॥ (२) ॥*॥ ‘ऋदोरप्' ( ३।३।५७ ) ॥ (३) ॥*॥ 'त्रियां क्षुत् क्षेतं हंछिका' इति रभसः ॥*॥ त्रीणि 'छिकायाः ' ॥ कासस्तु क्षवथुः पुमान् । केति ॥ कासतेऽनेन । 'कासृ शब्दकुत्सायाम् ' ( भ्वा० आ० से० ) । ‘हलच’ (३।३।१२१ ) इति घञ् । ( 'काशस्तृणे रोगभेदे' इति हैमः । ' वाराणस्यां भवेत्काशी क्षवथौ ना तृणेऽस्त्रियाम्' इति तालव्यान्ते रभसाच्च तालव्दान्तोऽपि ) ॥ (१) ॥*॥ क्षौत्यनेन । ‘टुक्षु शब्दे' ( अ० प० से० ) ‘द्वितोऽथुच्' (३।३।८९)। ‘क्षवथुः कासे छिक्कायाम्' इति हेमचन्द्रः ॥ ( २ ) ॥*॥ द्वे 'कासरोगस्य' ॥ शोफस्तु श्वयथुः शोथः शाविति ॥ शवति । ' शव गतौ ' ( भ्वा० प० से० ) । बाहुलका फः । थश्च । 'छो:-' ( ६।३।१९ ) इत्यूट् । 'आगुण:' ( ६।१।८७) । संज्ञापूर्वकत्वात् 'एत्येध - ' ( ६।१।८९) इति न वृद्धिः । यद्वा - शवति । 'शु गतौ' ) । ' शोफ १ - 'क्षुचः क्षुते राजिकायाम्' इत्यपि पाठः । २१९ श्वयति अनेन । ‘टुओश्वि गतिवृद्ध्यो:' ( भ्वा० प० से० ) । ‘द्वितोऽथुच्' (३।३।८९) ॥ ( २ ) ॥॥ यत्तु — 'शु गतौ' । 'यूथादयश्च' – इति मुकुटेनोक्तम् । तन्निर्मूलम् ॥ (३) ॥*॥ त्रीणि 'शोथस्य' ॥ पादस्फोटो विपादिका ॥ ५२ ॥ पेति ॥ स्फुटनम् | 'स्फुट विकसने' ( तु० प० से० ) । घञ ( ३।३।१८ ) पादस्य स्फोटः । पादौ स्फोटयति वा । 'कर्मण्यण्' ( ३।२।१ ) ॥ (१) ॥*॥ विपद्यतेऽनया । 'पद गतौ' (दि० आ० अ० ) । ' रोगाख्यायां ण्वुल् बहुलम्' (३1३।१०८) ॥ (२) ॥*॥ द्वे 'पादस्फोटन रोगस्य ॥ किलास सिमे कीति ॥ किति । 'किल श्वैत्य क्रीडनयो: ' ( तु० प० से० ) । ' इगुपध-' ( ३।१।१३५) इति कः । अस्यति । ‘असु क्षेपणे' ( दि० प० से० ) । अच् ( ३।१।१३४) । किलं च तदसं च । यद्वा, केलनम् । भिदाय ( ३।३।१०४) | किलमस्यति । अण् ( ३।२।१) । किलेन श्वैत्येन असति वा । 'अस दीप्तौ' (भ्वा० उ० से० ) । अच् (३।१।१३४) ॥ (१) ॥*॥ सिध्यति । ‘षिधु गत्याम्' ' (संराद्धौ)' ( दि० प० अ० ) । बाहुलकान्मक् । यत्तु — पामादित्वान्मनिन् - इति मुकुटः । तन्न । पामादेर्मनिविधानाभावात् । धातोः पामादिप्रत्ययाभावात् ॥ ( २ ) ॥*॥ ' पादस्फोटोऽथ त्वक्पुष्पी किलासं सिध्मलीति च' इति रभसः ॥*॥ द्वे ‘सेहुवा' इति ख्यातस्य॥ कच्छां तु पाम पामा विचर्चिका । केति ॥ कषति । 'कष हिंसायाम् ' ( भ्वा० प० से० ) । 'कषेरछ च' (उ० १।८४ ) इत्यूः ॥ (१) ॥ ॥ पायत्यङ्गम् । 'पै शोषणे' (भ्वा० प० से० ) । मनिन् ( उ० ४।१४५ ) । पायते देहोऽस्माद्वा । 'पा रक्षणे' (अ० प० अ० ) । पिबति देहं वा ॥ ( २ ) ॥*॥ स्त्रियां तु 'मनः' ( ४।१।११ ) इति न ङीप् । 'डाबुभाभ्याम् - ' ( ४।१।१३ ) इति डाब वा ॥ (३) ॥*॥ विचर्च्यते । ‘चर्च अध्ययने' ( चु० उ० से ० ) । 'रोगाख्यायां ण्वुल् -' ( ३।३।१०८ ) ॥ (४) ॥*॥ चत्वारि 'खसुरोगस्य' ॥ कण्डूः खर्जूश्च कण्डूया क केति ॥ कण्डूयनम् । 'कण्डूञ् गानविघर्षणे' वादिः ) । ' कण्वादिभ्यो यक्' ( ३।१।२७ ) संपदादिक्किप् १ - सटीक है मपुस्तके तु नोपलभ्यते । २ – 'सिध्मं किलासं त्वक्पुष्पं सिध्म' इति हैमनाममालोक्तनान्तसिध्माशब्दस्य मनिनमन्तरा साधनाभावेन तत्र मनिनर्थम् 'पामादिवन्मनिन्' इत्युत्तमपाठस्य संभवे लेखकप्रमादजातपाठेन खण्डनकरणं स्वीयमेधातिशयबोधनाय ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy