SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ २१० अमरकोषः । 'इतश्चानिनः' (४।१।१२२ ) इति ढक् । आत्रेयीवागम्यत्वात् । 'आत्रेयो मुनिरात्रेयी पुष्पवत्यां सरिद्भिदि' इति हैमः ॥ (४) ॥*॥ मलमस्त्यस्याः । इनिः ( ५।२।११५ ) । ' मलिनं कृष्णदोषयोः । मलिनी रजखलायाम्' इति हैमः ॥ ( ५ ॥*॥ पुष्पं रजोऽस्त्यस्याः । मतुप् ( ५/२/९४ ) ॥ ( ६ ) ॥*॥ ऋतुरस्त्यस्याः । मतुप् (५।२।९४) ॥ ( ७ ) ॥*॥ उदकमर्हति । 'संज्ञायाम्' ( ) इति यत् ॥ ( ८ ) ॥*॥ अष्टौ 'रज ) खलायाः ॥ । स्याद्वजः पुष्पमार्तवम् स्यादिति ॥ रज्यतेऽनेन । 'भूरक्षिभ्यां कित्' ( उ० ४)२१६) इत्यसुन् । ‘रजः क्लीबं गुणान्तरे । आर्तवे च परागे च रेणुमात्रे च दृश्यते' ( इति मेदिनी ) ॥ (१) ॥ * ॥ पुष्प्यते । ‘पुष्प विकसने’ ( दि० प० से० ) । घञ् ( ३।३।१९ ) । 'पुष्पं विकासिकुसुमस्त्रीरजःसु नपुंसकम् ' ( इति मेदिनी ) ॥ ( २ ) ॥*॥ ऋतुरेव । प्रज्ञाद्यण्। (५।४।३८) 'आर्तव स्त्रीरजे पुष्पे क्लीबं स्यादृतुजे त्रिषु' (इति मेदिनी ) ॥ (३) ॥*॥ ( त्रीणि 'स्त्रीपुष्पस्य' ) ॥ श्रद्धालु दहदवती श्रेति ॥ श्रद्धत्ते तच्छीला। ‘स्पृहिगृहि - ' ( ३।२।१५८) इत्यालुच् । 'श्रद्धालुदहदिन्यां स्त्री श्रद्धायुक्त च वाच्यवत्' ( इति मेदिनी ॥ (१) ॥*॥ दोहदं गर्भिण्यभिलाषोऽस्त्यस्याः । मतुप् ( ५।२।९४) ॥ (२) ॥*॥ द्वे ( गर्भवशात्) 'अभिलाषविशेषवत्याः ' ॥ [ द्वितीयं काण्डम् ' ( वा० ४ |२| ४० ) ॥ (१) ॥ *॥ गर्भिणीनां समूहः । 'भिक्षादिभ्योऽण्' (४/२/३८ ) 'भस्याढे तद्धिते' ( वा० ६।३।३५) इति पुंवद्भावः । ' नस्तद्धिते' ( ६।४।१४४ ) इति टेर्लोपे प्राप्ते इनण्यनपत्ये' ( ६ |४|१६४ ) इति प्रकृतिभावः ॥ (१) ॥*॥ युवतीनां समूहः । 'भिक्षादिभ्योऽण्' (४/२/३८ ) । ' भस्यादे तद्धिते' ( वा० ६।३।३५ ) इति पुंवद्भावः । यौतेः शत्रन्तात् 'उगितश्च' (४।१।६ ) इति ङयन्तो युवती शब्दोऽयम् । 'यूनस्तिः' (४/१/७७ ) इति त्यन्तस्य तु अणि ( ४/२/३७ ) विवक्षिते पुंवद्भावे ( वा० ६।३।३५) 'अन्' (६।४।१६७ ) इति प्रकृतिभावे च 'यौवनम्' इत्येव रूपम् । न च - भिक्षादिषु ( ४।२।३८ ) 'युवति' शब्दपाठसामर्थ्यान्न पुंवत्त्वम् । अन्या पुंवद्भावेन तैर्निवृत्तावनुदात्तादित्वाभावात् 'अञः' (४/२/४४ ) अप्राप्तौ 'तस्य समूहः' ( ४।२।३७ ) इत्यणि सिद्धे भिक्षादिपाठवैयर्थ्यात् — इति वाच्यम् । भिक्षादिषु 'युवति' शब्दपाठस्य ( 'भिक्षादिषु युवतिग्रहणानर्थक्यं पुंवद्भावस्य सिद्धत्वात्प्रत्ययविधौ' इत्यादिग्रन्थेन ) भाष्ये (४/२/३८ ) प्रत्याख्यानात् । एतेन - 'युवत्या अपुंवत्' इति गणपाठात् - इति स्वामी - युवती शब्दस्य भिक्षादिषु पाठाङ्गीकारकृतो मतभेदः - इति मुकुटश्च प्रत्युक्तः ॥ (१) ॥ *॥ एकैकम् ' समूहस्य' ॥ पुनर्भूर्दिधिषूरूढा द्विः निष्कला विगतार्तवा ॥ २१ ॥ नीति ॥ 'कलं शुक्रे त्रिष्वजीर्णे नाव्यक्तमधुरध्वनौ' ( इति मेदिनी ) । कलान्निष्क्रान्ता । 'निरादयः कान्ताद्यर्थे' ( वा० २।२।१८ ) इति समासः । निर्गतं कलं शुक्रमस्या वा "निष्कलं तु कलाशून्ये नष्टवीर्ये तु वाच्यवत्' (इति मेदिनी ) ॥ (१) ॥*॥ विगतमार्तवं रजोऽस्याः ॥ ( २ ) ॥*॥ द्वे 'रजोहीनायाः ' ॥ । पुनरिति ॥ पुनर्भवति संस्कृता । क्विप् ( ३।२।७६ ) ॥ (१) ॥*॥ दधाति पापम् । 'डुधाञ् धारणपोषणयोः' (जु० उ० अ० ) । धिष्यते । 'धिष शब्दे' ( जु० प० से ० ) । स्यति । ' षोऽन्तकर्मणि' (दि०प० अ० ) । प्राग्वत् ॥ (२) ॥*॥ 'अन्दूदृम्भू—' (उ० १।९३ ) इति साधुः । यद्वा, -दिधिं धैर्य द्वौ वारौ ऊढा । 'द्वित्रिचतुर्भ्यः सुच्' ( ५|४|१८ ) 'अक्षता च क्षता चैव पुनर्भूः संस्कृता पुन:' ( याज्ञवल्क्यः १।६७ ) ॥*॥ द्वे 'द्विवारं वृतायाः ' ॥ तस्या दिधिषूः पतिः । तेति ॥ तस्या दिधिष्वाः । दिधिषूमात्मन इच्छति । 'सुप आत्मनः क्यच्' (३।१।८) । क्विप् ( ३।२।१७८) । 'पुनभूपतिरुक्तश्च पुनर्भूर्दिधिषूस्तथा' इत्येषोऽप्यूदन्त - इति खामी ॥ ॥ मुकुटस्तु (दिधिषुम् ) हस्वमाह बाहुलकात् ॥ (१) ॥*॥ एकम् 'ह्यूढापत्युः ॥ आपन्नसत्त्वा स्याहुर्विण्यन्तर्वत्नी च गर्भिणी | आपेति ॥ आपन्नः सत्त्वो जन्तुरनया, अस्यां वा ॥ (१) ॥*॥ ‘गुरुस्त्रिलिङ्क्षयां महति दुर्जरालघुनोरपि' ( इति मेदिनी ) । गुरुर्दुर्जरोऽलघुर्वा गर्भोऽस्त्यस्याः । ब्रह्मादीनिः (५।२।११६) । संज्ञापूर्वकत्वान्न गुणः (६।४।१४६) । यद्वा, - गर्वति । 'गर्वेरत उच्च' (उ० २।५४ ) इतीनन् । गौरादिः (४|१|४१) ॥ (२) ॥*॥ अन्तरस्त्यस्यां गर्भः । ' अन्तर्वत्पतिवतोर्मुक्' (४/१/३२) इति साधुः ॥ (३) ॥*॥ गर्भोऽस्त्यस्याः । इनिः (५/२/११५) ॥ (४) ॥*॥ चत्वारि 'गर्भिण्याः ' ॥ गणिकादेस्तु गाणिक्यं गार्भिणं यौवतं गणे ॥ २२ ॥ गेति ॥ गणिकानां समूहः । 'गणिकायाश्च यञ् वाच्यः' | प्रधानभार्यस्य' ॥ मनुस्तु —‘ज्येष्ठायां यद्यनूढायां कन्यायामुह्यतेऽनुजा । सा चाग्रेदिधिषूज्ञेया पूर्वा तु दिधिषूर्मता' ( ) इत्याह ॥ स तु द्विजोऽग्रेदिधिषूः सैव यस्य कुटुम्बिनी ॥२३॥ प्रतिरूपको निपातः । समासान्तविधेरनित्यत्वान्न कप् (५/४/स इति ॥ अग्रे प्रधानं दिधिषूर्यस्य । 'अ' इति विभक्ति१५३) ॥ (१) ॥*॥ द्विजः क्षत्रियादिरपि । 'दिधिषूः परपूर्वाग्रेदिधिषूस्तत्पुरंधिकः' इति नाममाला ॥*॥ एकं 'पुनर्भू
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy