SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ २०२ अमरकोषः । [ द्वितीयं काण्ड यूथं तिरश्चां पुंनपुंसकम् ॥ ४१ ॥ यूथमिति ॥ यति । यूयते, वा । 'यु मिश्रणे' (अ० प० से० ) । ' तिथपृष्ठगूथप्रोथाः' ( उ० २।१२ ) इति साधुः । 'यूथं तिर्यक्समूहे ऽस्त्री पुष्पभेदे च योषिति' ( इति मेदिनी ) 11 (9) 11*11 वा । समवा - । । । ( अ० प० अ० ) 'ई गतौ' ( अ० प० अ० ) 'एरच्' ( ३।३।५६ ) । ' भवेत्समुदयः संघे संयुगे च समुद्रमे' ( इति मेदिनी ) ॥ ( १५ ) ॥ * ॥ य्यते । ‘अय गतौ’ (भ्वा० आ० से० ) । घञ् ( ३।३।१९ ) —समवयन्त्यनेनास्मिन् वा । घञ् ( ३।३।१९ ) – इति मुकुटः तन्न । 'अजब्भ्याम् -' ( वा० ३।३।१२६ ) इति वार्तिकविरोधात् । बाहुलकस्यागतिकगतित्वात् ॥ (१६ ) ॥ * ॥ चीयते । 'चिञ् चयने' (खा० उ० अ० ) । 'एरच्' (३|३|५६) । 'चयः समूहे प्राकारमूलबन्धे समाहृतौ' (इति मेदिनी ) ॥ (१७)॥*॥ गण्यते । ‘गण संघाते’ (चु॰ उ० से० ) । घञ् ( ३।३।१९ ) ‘एरच्' (३।३।५६ ) वा । अल्लोपस्य स्थानिवत्त्वान्न वृद्धि: । 'गणः प्रमथसंख्यौघे चण्डीसैन्यप्रभेदयोः ' ( इति मेदिनी ) ॥ ( १८ ) ॥*॥ संहन्यते । क्तिन् ( ३।३।९४ ) ॥ (१९) un वृण्यते। 'वृणु भक्षणे' ( तु० प० से० ) । वृणोति वा । 'अब्दादयश्च' (उ० ४।९८) इति साधुः ॥ ( २० ) ॥*॥ निकु रति । निकुर्यते वा । 'कुर छेदने' ( तु० प० से० ) । बाहुलकादम्बच् अत उत्वं च ॥ (२१) ॥* ॥ कुत्सितमम्बते, अम्ब्यते वा । 'अब शब्दे' ( भ्वा० आ० से ० ) । अच् ( ३।१।१३४ ) 'कोः कत् -' ( ६।३।१०१ ) घञ् ( ३।३।१९) वा, कदति, कद्यते वा । ‘कदिः' सौत्रः । बाहुलकादम्बच् ॥ 'कदम्बं निकुरम्बे स्यान्नीपसर्षपयोः पुमान्' ( इति मेदिनी ) ॥ (२२) ॥*॥ द्वाविंशतिः 'समूहस्य' ॥ वृन्दभेदाः अन्येषां समाजः ( अन्येषामिति ॥ अन्येषां संघः । संवीयतेऽत्र । घञ् ३।३।१९ ) ॥ (१) ॥* ॥ एकं 'पशुभिन्न संघस्य' ॥ अथ सधर्मिणाम् । वृन्देति ॥ समूहविशेषा उच्यन्ते ॥ समैर्वर्गः सेति ॥ समैरुपलक्षितम् । वृज्यते । 'वृजी वर्जने' (अ० आ० से० ) । घञ् ( ३।३।१९ ) । कुत्वम् ( ७।३।५२ ) ॥ (3) 11*11 संघार्थी तु जन्तुभिः । संघेति ॥ संहन्यते । घञ् ( ३।३।१९ ) । 'संघोद्धौ गणप्रशंसयोः' ( ३।३।८६ ) इति साधुः ॥ (१) ॥*॥ सरति, स्त्रियते, वा । 'सृ गतौ' ( भ्वा० प० अ० ) । ' सर्तेर्णितः' (उ० २।५) इति थन् । 'सार्थो वणिक्समूहे स्यादपि संघात - मात्रके' ( इति मेदिनी ) । - ' यूथादयश्च' – इति मुकुटश्चिन्त्यः ॥ (२) ॥*॥ भागुरिस्तु पर्यायतामाह - ' संघसंघात - पुञ्जघसार्थयूथकदम्बकाः' इति ॥ सजातीयैः कुलम् सजेति ॥ सजातीयैरेव जन्मभिरुपलक्षितम् । कोलति । ‘कुल संस्त्याने बन्धुषु च’ (भ्वा० प० से० ) । ' इगुपध' ( ३।१।१३५ ) इति कः । 'कुलं जनपदे गोत्रे सजातीयगणेsपि च । भवने च तनौ क्लीबम्' (इति मेदिनी ) ॥ (१) ॥*॥ पशूनां समजः पेति ॥ संवीयतेऽत्र । 'अज गतिक्षेपणयोः' ( स्वा० प० से० ) । 'समुदोरजः पशुषु' ( ३।३।६९ ) इत्यप् । 'समजः पशुवृन्दे ना विपिने तु नपुंसकम् ' ( इति मेदिनी ) ॥ (१) ॥॥ एकं 'पशुसंघस्य' ॥ स्यान्निकायः अथेति ॥ निचीयते । 'चिञ् चयने' (खा० उ० अ० ) । 'संघे चानौत्तराधर्ये' ( ३।३।४२ ) इति घञ् आदेः कथ ॥ 'निकायस्तु पुमाँलक्ष्ये सधर्मिप्राणिसंहतौ' । ( 'समुच्चये संहतानां निलये परमात्मनि' इति मेदिनी ) ॥ (१) ॥ ॥ 'वृन्दभेदानां' पृथक् पृथक् ॥ पुञ्जराशी तूत्करः कूटमस्त्रियाम् ॥४२॥ ति ॥ पियति, पिध्यते वा । 'पिजि हिंसाबलादाननिकेतनेषु' (चु० प० से ० ) अच् ( ३।१।१३४ ) । घञ् (३।३।१९) वा । पृषोदरादिः ( ६।३।१०९ ) । यद्वा, उन्नत्या पुमांसं जयति । 'अन्येभ्योऽपि - ' ( वा० ३।२।१०१ ) इति डः । —— पुयते । पुञ्जः - इति खामी ॥ (१) ॥*॥ अश्रुते । 'अशू व्याप्तौ ' ( खा० आ० से० ) । 'अशिपणाग्यो रुडायलुकौ च' (उ० ४।१३३) इतीन् धातोरुडागमः । यद्वा, - रश्यते । रश सौत्रः शब्दार्थः । दीत्यर्थः - इति स्वामी । बाहुलकादिण् । ण्यन्तात् 'अच इ: ' ( उ० ४।१३९ ) वा । ' राशि - षादिपुञ्जयोः ( इति मेदिनी ) ॥ ( २ ) ॥॥ उत्कीर्यते । 'कृ' विक्षेपे' (तु० प० से० ) । 'ऋदोरम्' ( ३।३।५७) । (३) ॥ ॥ कूटयति । कुट्यते वा । 'कूट आप्रदाने' ( चु० आ० से० ) 'कूट दाहे मन्त्रणे' ( चु० उ० से० ) वा । अच् (३।१।१३४) घञ् ( ३।३।१९ ) वा । 'कूटं पूरयन्त्रयोः । मायादम्भाद्रि शृङ्गेषु सीराङ्गेऽनृततुच्छयोः । निश्चलेऽयोघने राशौ' इति हेम चन्द्रः ॥ (४) ॥*॥ चत्वारि 'धान्यादेरुच्छ्रितवृन्दस्य' ॥ कापोतशौकमायूरतैत्तिरादीनि तद्गणे । केति ॥ तेषां कपोतशुकमयूरतित्तिरीणां गणे । कपोता • नामू, शुकानाम्, मयूराणाम्, तित्तिरीणां च गणः ।
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy