SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ सिंहादिवर्ग: ५ ] व्याख्यासुधाख्यव्याख्यासमेतः । ) मेदिनी ॥ ( ५ ) ॥*॥ शक्नोति । 'शकु शक्तौ' ( खा० प० अ० ) । ‘शके रुनोन्तोन्त्युनय:' ( उ० ३।४९ ) इति प्रत्ययचतुष्टयम् ॥ (६) ॥*॥ पक्षावस्य स्तः । इनिः (५/२/११५) ॥ (७) ॥*॥ 'शकुनिः पुंसि विहगे सौबले करणान्तरे' ( इति मेदिनी ) ॥ ( ८ ) ॥*॥ ' शकुन्तः कीटभेदे स्याद्भासपक्षिविहंगयोः' इति मेदिनी ॥ ( ९ ) ॥* ॥ शकुन्तस्तु पुमान् पक्षिमात्रपक्षिविशेषयोः । शुभशंसिनिमित्त च शकुनं स्यान्नपुंसकम्' (इति मेदिनी ) ॥ (१०) ॥*॥ द्विर्जायते । 'अन्येध्वपि-' (३।२।१०१) इति डः । 'द्विजः स्याद्राह्मणक्षत्र वैश्य - दन्ताण्डजेषुना । द्विजा भाय हरेणौ च' (इति मेदिनी ) ॥ (११) ॥ ॥ पतत्रमस्त्यस्य । इनिः (५।२।११५ ) ॥ ( १२ ॥* ॥ एवं पत्री । 'पत्री श्येने पत्ररथे काण्डरथिकाद्विषु' (इति मेदिनी ) ॥ (१३) ॥* ॥ पतेन पक्षेण गच्छति । डः ( वा० ३।२।४८ ) ॥ (१४) ॥ ॥ पतति । 'पतु गतौ' ( भ्वा० प० से ० ) । शता ( ३।२।१२४) ॥ (१५) ॥ ॥ पत्रं पतत्रं रथ इव यस्य ॥ (१६ ) ॥ ॥ अण्डाजायते स्म । 'पञ्चम्याम् - ' ( ३।२।९८) इति ङः । 'अण्डजो मृगनाभौ स्यात्सरटेऽहौ खगे झषे' (इति मेदिनी ) | ( १७ ) ॥*॥ नगो वृक्षः, नगे वा ओको यस्य । 'नगौकाः पुंसि शरभे पक्षिपञ्चास्ययोरपि' इति मेदिनी - जलौकावद् 'आदन्तः ' अपि - इति मुकुटः ॥ (१८ ) ॥*॥ वाजाः पक्षाः सन्त्यस्य । इनिः (५।२1११५) । ( ' बाजी वाणाश्वपक्षिषु' इति मेदिनी ) ॥ (१९) ॥*॥ विकिरति । 'कृ विक्षेपे' (तु० प० से ० ) । ' इगुपध - ' ( ३।१।१३५ ) इति कः ॥ ( २० ) ॥*॥ वाति । ‘वा गतौ' (अ० प० अ० ) 'वातेर्डिच्च' ( उ० ४|१३४ ) इतीष् ॥ — ' वेत्रो डित' ( उ० ४।७२ ) - इति खामि-मुकुटी चिन्त्यौ | इंचिप्रत्ययप्रकरणेऽस्य पाठाद् ' वीचिः' इति रूपापत्तेः ॥ (२१) ॥*॥ ' विष्किरः शकुनिर्वा' (६।१1१५० ) इति पक्षे सुट् । 'परिनिविभ्यः - ' ( ८|३|७० ) इति षत्यम् ॥ (२२) ॥*॥ पतति । 'पतेरन्निन्' ( उ० ४।६९ ) । - 'उणादयो बहुलम्' (३।३।१ ) इति पतेरत्रि: - इति मुकुट एतत्सूत्राज्ञानमूलकः ॥ (२३) ॥* ॥ नीडे उद्भवो येषाम् ॥ (२४) ॥*॥ गरुतः पक्षाः सन्त्यस्य । मतुप् (५/२९४) 'झयः' (1२1१० ) इति वत्वं तु न । यवादित्वात् ( ८1२1९ ) ' तसौ मत्वर्थे' (१।४।१९) इति भत्वम् ॥ (२५) ॥ ॥ पतितुमिच्छवः । लटः शता (३।२।१२४) । ' सनि मीमा - ' ( ७१४१५४) इतीस् ॥ (२६) ॥*॥ ' नभसं खं मेघवत्र्त्म विहायसम्' इति निगमाददन्तम् । नभसं गच्छति । 'गमध' ( ३।२।४७ ) इति खच् ॥ (२७) ॥*॥ सप्तविंशतिः 'पक्षिमात्रस्य ' ॥ तेषां विशेषा हारीतो मडुः कारण्डवः प्लवः ॥ ३४ ॥ ज्ञेयाः । 'पक्षिजाति विशेषाः ' ॥ | तित्तिरिः कुक्कुभो लावो जीवजीवश्च कोरकः । कोयष्टिकटिट्टिभको वर्तको वर्तिकादयः ॥ ३५ ॥ तेषामिति ॥ एते पक्षिणां भेदाः । 'हारिः पथिकसंतान १९९ द्यूतादिभङ्गयोः स्त्रियाम् ' ( इति मेदिनी ) । हारिमित ईतो वा हारोऽस्त्यस्मिन् । इनिः (५/२/११५ ) । हारि मनोहरम् इतं गमनमस्य । यद्वा, - हारयति 'क्विप् - ' ( ३।२।१७८ ) । एति स्म । 'ई गतौ' (अ० प० अ० ) ' गत्यर्था - ' (३।४।७२ ) इति कः । हा चासावीतश्च । 'हरीतो विहगान्तरे । मुनौ छद्मनि इति हेमचन्द्रः । ( 'हरीयाल' इति ख्यातः) ॥ (१) ॥*॥ मज्जति । 'दुमस्जो शुद्धौ' (तु० प० अ० ) 'भृमृशी -' ( उ० १।७ ) इत्युः । न्यङ्कादिः ( ७।३।५३) । सस्य जश्त्वेन ( ८|४|५३ ) दः । 'महुः पानीयकाकिका' इति रभसः ॥ (१) ॥*॥ रमणम् । 'अमन्ताः' (उ० १।११४ ) इति रमेर्डः । ईषद्रण्डः । 'ईषद' (६।३।१०५ ) इति को: का । कारण्डं वाति । 'आतोऽनुप - ' ( ३।२।३ ) इति कः ॥ (१) ॥*॥ प्लवते । 'लुड् गतौ' ( भ्वा० आ० अ० ) । अच् ( ३।१।१३४ ) ॥ 'लवः लक्षे तौ कपौ । शब्दे कारण्डवे म्लेच्छजातौ भेलकभेकयोः । क्रमनिनमहीभागे कुलके जलवायसे । जलान्तरे प्लवं गन्धतृणे मुस्तकभिद्यपि ' इति हेमचन्द्रः ॥ (१) ॥*॥ 'तित्ति' शब्द राति । बाहुलकारिकः । ' तित्तिरिः पक्षिणि सुनौ' इति हैमः ॥*॥ अदन्तपक्षे 'आतोऽनुप - ' ( ३।२।३) इति कः । कपोतलावतित्तिराः' इति वाचरपतिः ॥ (१) ॥ ॥*॥ 'कुक' इति शब्दं कौति । 'कु शब्दे' (अ० प० अ० ) बाहुलकाद्भक् । ‘कुक्कु’शब्दं भाषते । 'भाष व्यक्तायां वाचि' (भ्वा० आ० से ० ) । ' अन्येभ्योऽपि - ' ( वा० ३1२1१०१ ) इति ङः । वनकुक्कुटोऽयम् ॥ (१) ॥*॥ लावयति । 'लुब् छेदने' ( क्या० उ० से० ) स्वार्थण्यन्तः । अच् ( ३।१११३४ ) ॥ (१) ॥*॥ जीवं जीवयति । तद्दर्शनेन विष - नाशकत्वात् । 'कृत्यल्युटो बहुलम् ' ( वा० ३।३।११३ ) इति बाहुलकात्खच् । 'जीवंजीवः खगान्तरे । द्रुमभेदे चकोरे च' इति हैमः ॥ (१) ॥ * ॥ चकति । 'चक तृप्तौ' ( भ्वा० प० से० ) । ' कठिच किभ्यामोरन् ' ( उ०११६४ ) खार्थे कन् (५।३।७५) । (१) ॥*॥ कं जलं यष्टिरिवास्य । पृषोदरादिः (६|३|१०९ ) ॥ (१) ॥*॥ 'टिट्टि' शब्दं भाषते । 'टिट्टि' शब्देन भाति वा । 'अन्येभ्योऽपि - ' ( वा० ३।२।१०१ ) इति ङः । कन् (५।३।७५) ॥ (१) ॥*॥ वर्तते। 'वृतु वर्तने'। ण्वुल् (३।१।१३३) ॥ (१) ॥*॥ - उदीचां तु स्त्रियामित्त्वम् । प्राचां न ( वा० ७१३।४५ ) । इति स्त्रियां रूपय प्रदर्शनाय 'वर्तिका ' ग्रहणम् - इति प्राञ्चः ॥ वस्तुतस्तु 'वृतेस्तिकन' ( उ० ३।१४६ ) इति तिकन्नन्तस्य मूषिकवत् पुंस्यपि 'वर्तिकः ' इति रूपकथनमिदम् | 'वर्तकस्तु खरेऽश्वस्य विहगे वर्तिका द्वयो:' ( इति मेदिनी ) ॥ (१) ॥ ॥ आदिना शारिकादयो १ - ' अव्यक्तशब्द' इत्यपि पाठः ॥ २ - 'कोयष्टिष्टिट्टिभः कोकः करो वर्तिकादयः' इति क्षीरस्वामिव्याख्यातपाठे तु न रूपद्वयप्रदर्शनम् - इति बोध्यम् ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy