SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ १९८ अमरकोषः । | मधुत्रतो मधुकरो मधुलिण्मधुपालिनः । द्विरेफपुष्प लिइभृङ्गषट्पद्भ्रमरालयः ॥ २९ ॥ मध्विति ॥ मधुव्रतं भक्ष्यं यस्य ॥ (१) ॥*॥ मधु करोति तच्छीलः । ‘कृञो हेतु - ' ( ३।२।२० ) इति टः ॥ ( २ ) ॥*॥ मधु लेढि 'लिह आखादने' ( अ० उ० अ० ) । क्किप् (३।२।७६ ) ॥ (३) ॥* ॥ एवं पुष्पलिट् ॥ ( ७ ) ॥ ॥ मधु पिबति 'पा पाने' (भ्वा० प० अ० ) । 'आतोऽनुप-' ( ३।२।३ ) इति कः । ‘पिबतेः सुराशीव्वोः -' ( वा० ३।२।८) इति नियमान्न टक् (३।२।८) ॥ (४) ॥* ॥ अलो वृश्चिकलाङ्गूलम् । तदिवास्य । ‘अतः-' (५।२।११५ ) इतीनिः ॥ ( ५ ) ॥*॥ द्वौ रेफौ नाम्नि यस्य ॥ (६) ॥*॥ विभति । 'भृञः किन्नुट् च' (उ० १।१२५) इति कन् ।' शृङ्गाङ्गभृङ्गाः' इति — इति मुकुटश्चिन्त्यः । उणादिषु तादृशसूत्राभावात् ॥ ( ८ ) ॥ ॥ षट् पदान्यस्य ॥ ( ९ ) ॥*॥ भ्रमति । 'भ्रमु अनवस्थाने' ( दि० प० से०)। ‘अति॑कमभ्रमिचमि - 2 ( उ० ३।१३२ ) इति करन्। ‘भ्रमरः कामुक्रे भृङ्गे' (इति मेदिनी ॥ (१०) ॥*॥ अलति। ‘अल भूषणादौ’ (भ्वा० प० से ० ) । 'सर्वधातुभ्य इन्’ (उ० ४।११८)। ‘अलिः सुरापुष्पलिहोः' (इति मेदिनी) ॥ (११) ॥*॥ एकादश 'भ्रमरस्य ' ॥ यूरो वर्हिणो वह नीलकण्ठो भुजङ्गभुक् । शिखावलः शिखी केकी मेघनादानुलास्यपि ॥ ३०॥ [ द्वितीयं काण्डम् कन् ॥ (१) ॥*॥ मेचको वर्णोऽस्त्यस्य । अच् (५।२।१२७)। 'किस वर्ण मेचकं ब्रुवते बुधाः' इति कात्यः । 'मेचकः श्यामले कृष्णे तिमिरे बर्हिचन्द्रके' इति हैमः ॥ (२) ॥*॥ द्वे 'पिच्छस्थचन्द्राकृतेः ' ॥ शिखा चूडा शीति ॥ शेते । 'शीटो हखश्व' (उ० ५१२४ ) इति खः । 'शिखा शाखा बर्हिचूडालाङ्गलिक्यग्रमात्र के । चूडामात्रे शिफायां च ज्वालायां प्रपदेऽपि च ' ( इति मेदिनी ) ॥ (१) ॥*॥ चुध्यते । 'चुड समुच्छ्राये' (तु० प० से० ) भिदादिपाठाद् ३।३।१०४) अड् दीर्घः । 'चूडा वडभौ शिखायां बाहुभूषणे' (इति मेदिनी ॥ ( २ ) ॥ * ॥ द्वे 'मयूरशिखायाः ' ॥ ( शिखण्डश्च पिच्छवर्हे नपुंसके ॥३१॥ केकेति ॥ के मूर्धनि कायति । 'कै शब्दे' ( स्वा० प० अ० ) । 'अन्येभ्योऽपि - ' ( वा० ३।२।१०१ ) इति ङः । 'हलदन्तात्-' ( ६।१।९ ) इत्यलुक् ॥ (१) ॥*॥ एकम् 'मयूर - वाण्याः ॥ शिखेति ॥ शिखिनाम्यते । 'अम गत्यादिषु' ( स्वा० प० से० ) । 'जमन्ताङ्कः' ( उ० १।११४) । शकन्ध्वादिः (वा० ६।१।९४) । ' शिखण्डो बर्ह चूडयोः' इति हेमचन्द्रः ॥ (१) ॥॥ पिच्छयति । पिच्छयते वा । ‘पिच्छ कुट्टने' (चु० प० से०) । अच् । (३।३।१३४) घञ् (३।३।१९) वा । ‘पिच्छा पूगच्छटा कोषमोचाशाल्मलिवेष्टके । भक्तसंभूतमण्डे च पङ्कावश्वपदामये । ‘स्त्रियां, पुंति तु लाङ्गूले न द्वयोर्बर्हचूडयो:' इति मेदिनी ) ॥ ( २ ) ॥*॥ वर्हति । 'बृह वृद्धी' ( वा०प० से० ) । अच् ( ३।१।१३४ ) । 'बर्ह पिच्छे दलेऽस्त्रियाम्’ ( इति मेदिनी ॥ (३) ॥*॥ त्रीणि 'मयूरपिच्छस्य' ॥ मेति ॥ मयते । ‘मय गतौ' (भ्वा० आ० से० ) । खर्जीदित्वात् (उ० ४।९० ) ऊरः । मह्यां रौति वा । 'अन्येभ्योऽपि -' ( वा० ३।२।१०१ ) इति डः । पृषोदरादिः ( ६ | ३|१०९ ) ॥ | खगे विहंगविहग विहंगम विहायसः । (१) ॥ ॥ मस्त्यस्य । 'फलबर्हाभ्यामिनन्' ( वा० ५१२११२२) ॥ (२) ॥*॥ इनिः (५।२।११५) ॥ (३) ॥३॥ नीलः कण्ठोऽस्य ॥ (४) ॥*॥ भुज भुङ्क्ते । 'भुज पालनादौ' (रु० प० अ० ) । क्विप् ( ३।२।७६ ) ॥ (५) ॥ ॥ शिखाऽस्त्यस्य । 'दन्तशिखात् संज्ञायाम् ' ( ५।२।२१३ ) इति वलच् ॥ (६) ॥*॥ पक्षे व्रीह्यादित्वात् । ( ५।२।११६ ) इनिः । ' शिखी वहाँ बलीवर्दे शरे केतुग्रहे द्रुमे । मयूरे कुक्कुटे पुंसि शिखावत्यन्यलिङ्गकः' (इति मेदिनी) ॥ (७)॥*॥ केाऽस्त्यस्य । व्रीह्यादित्वात् (५।२।११६) इनिः ॥ (८) ॥*॥ मेघनादेनानुलसति तच्छील: 'लस श्लेषण क्रीडनयो:' ( वा० प० से० ) । 'सुप्यजाती-' (३।२।७८) इति णिनिः ॥ ( ९ ) ॥*॥ नव 'मयूरस्य' ॥ केका वाणी मयूरस्य शकुन्तिपक्षिशकुनिशकुन्तशकुनद्विजाः ॥ ३२ ॥ पतत्रिपचिपतगपतत्पत्ररथाण्डजाः । नगौकोवाजिवि किरविविष्किरपतत्रयः ॥ ३३ ॥ नीडोद्भवा गरुत्मन्तः पित्सन्तो नभसंगमाः । खग इति ॥ खे गच्छन्ति । 'अन्येभ्योऽपि - ( वा० २/२/१०१ ) इति उ: । 'खगः सूर्ये ग्रहे देवे मार्गणे च विहगमे' ( इति मेदिनी ) ॥ (१) ॥*॥ विहायसि गच्छन्ति। 'गमश्च' ( ३।२।४७ ) इति खच् । 'विहायसो विह-' ( वा० ३।२।३८ ) । 'खच्च डिद्वा' ( वा० ३।२।३८ ) ॥ ( २ ) ॥*॥ (४) ॥*॥ डे ( वा० ३।२।४८ ) तु । 'विहगस्तु त्रिलिङ्गः स्यादाशुगे ना विहंगमे' ( इति मेदिनी ) ॥ (३) ॥* ॥ विजहाति भुवम् । 'ओहाक लागे' ( जु० प० अ० ) 'वहिहाधाञ्भ्यश्छन्दसि' ( उ० ४।२२१ ) इत्यमुन् णिच । क्वचिच्छान्दसा अपि भाषायां प्रयुज्यन्ते । तेन लोकेऽपि । यद्वा - विहाययति । 'हब गतौ' (भ्वा० प० से० ) । 'हि गतौ' ( स्वा० प० अ० ) वा स्वार्थण्यन्तः । 'सर्वधातुभ्योऽसुन्' (उ० समौ चन्द्रमेant | समाविति ॥ चन्द्र इव । 'इवे प्रतिकृतौ' (५।६।९६) इति - ४११८९) 'विद्यायाः शकुनौ पुंसि गगने पुंनपुंसकम्' (इति
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy