SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ वर्ग: ४ ] मङ्कते । 'मकि मण्डने' - ( भ्वा० आ० से० ) अरः । आगमशास्त्रस्यानित्यत्वान्न नुम् | 'मस्करमस्करिणौ वेणुपरिव्राजकयोः ' ( ६।१।१५४ ) इति सुद्र ॥ ( ९ ) ॥ ॥ तेजयति शस्त्रमभं वा । नन्यादिल्युः (२।१।१३४)। युच् (उ० २।७८) वा ॥ (१०) ॥*॥ दश 'वेणोः ' ॥ वेणवः कीचकास्ते स्युर्ये स्वनन्त्यनिलोद्धताः ॥ १६९॥ व्याख्यासुधाख्यव्याख्यासमेतः । वेणेति ॥ ये वेणवोऽनिलेनोद्धतास्ताडिताचालिता वा शब्दायन्ते । चीकति । चीकयते वा । शब्दायते । 'चीक मर्षणे' (चु० उ० से० ) । ‘चीकयतेरायन्तविपर्ययश्च' ( उ० ५।३६ ) इति बुन् । — पृषोदरादित्वात् ( ६।३।१०९) आद्यन्तविपर्ययश्च — इति मुकुटः । तद् उक्तसूत्रादर्शनमूलकम् । यद्वा, - 'की' इत्यव्यक्तम् । चक्रते। ‘चक तृत्यादौ' (भ्वा० आ० से० ) । अच् ( ३।१।१३४) । ' संज्ञायां कन्' (५।३।७५) । कुन् ( उ० २।३२) वा । 'कीच' इत्यव्यक्तं कायति । मूलविभुजादिकः ( वा० ३/२/५) ‘अन्येभ्योऽपि—’ (वा० ३।२।१०१ ) इति डो वा । ' कीचको दैत्यभिद्वाताहतसस्वनवंशयोः' ( इति मेदिनी ) ॥ (१) ॥॥ एकम् 'वाताहतवेणूनाम्' ॥ ग्रन्थिर्ना पर्वपरुषी ग्रन्थिरिति ॥ ग्रन्थते । ‘ग्रथि कौटिल्ये' (भ्वा० आ० से०) 'सर्वधातुभ्य इन्' (उ० ४।११८) ' ग्रन्थिस्तु ग्रन्थिपर्णे नान्धे स्त्रभेदपर्वणोः' (इति मेदिनी) ॥ (१) ॥॥ पति । 'पर्व पूरणे' (भ्वा० प० से० ) । बाहुलकात्कनिन् । 'पर्व क्लीवं महे ग्रन्थो प्रस्तावे लक्षणान्तरे । दर्शप्रतिपदोः संधौ विषुवत्प्रभृतिष्वपि ' (इति मेदिनी) ॥ (२) ॥*॥ पिपर्ति । 'पू पालनपूरणयोः' (जु० प० से० ) । 'अतिपूवपि - ' ( उ० २।११७ ) इत्युस् ॥*॥ बाहुकाप्रत्यये उदन्तोऽपि । 'मजा सारो, ग्रन्थिः परुः, परागः - कुसुमरेणुः' इति पुंस्काण्डे रत्नकोषात् ॥ ( ३ ) ॥ ॥ त्रीणि 'वंशादिग्रन्थेः' ॥ गुन्द्रस्तेजनकः शरः । विति ॥ गोदते । 'गुद क्रीडायाम्' (स्वा० आ० से ० ) । बाहुलकाद्रक् । पृषोदरादिः ( ६ । ३।१०९ ) । 'गुन्द्रस्तेजनके स्त्री तु प्रियंगौ भद्रमुस्तके' ( इति मेदिनी ) ॥ (१) ॥*॥ तेजयति । ‘तिज निशाने’ चुरादिः । ण्वुल् ( ३।१।१३३ ) । कुन् ( उ० २।३२ ) वा ॥ ( २ ) ॥ ॥ शृणाति । 'शू हिंसायाम् ' (क्या० प० से० ) । अच् । ( ३।१।१३४) । 'शरस्तेजनके बाणे दध्यत्रे ना शरं जले' ( इति मेदिनी ) ॥ ॥ 'सुरस्तु मुख बाणाख्यो गुन्द्ररतेजनकः शरः' इति वाचस्पतेर्दन्त्यादिश्च । सरति । 'सृ गतौ' ( भ्वा० प० से० ) । अच् ( ३।१।१३४ ) १- 'संज्ञायां कन्नू' (५१३७५) । कुन् । (उ०२१३२) वा इति लिखितमस्ति । तत्तु ककारत्रयश्रवणापत्त्या प्रक्षिप्तमिव भाति । चकधातोर्ड प्रत्यये कनः संगतावपि कुनः सर्वथाऽसंगतेः ॥ १८३ ॥ (३) ॥ ॥ त्रीणि 'शरस्य' 'सरहरी' इति ख्यातस्य ॥ नस्तु धमनः पोटगलः ( ३।१।१३४) ॥ (१) ॥॥ः । as इति ॥ नति । 'नड गहने' ( )। अच् धम्यते वा । 'बहुलम् -' ( उ० २१७८) इति युच् । यत्तु - "मो धमथ' इति नप्रत्ययो धमादेशथ - इत्याह मुकुटः । तन्न । उज्ज्वलदत्तादिष्वेतत्सूत्रस्यादर्शनात् । कुनप्रकरणे दर्शनात् । सौत्रधातुना गतार्थत्वाच्च । 'धमनो नले । क्रूरे भस्त्राध्मापके च धमनी कंधरा शिरा । हरिद्रा च' इति हैमः ॥ ( २ ) ॥ ॥ पोटेन संश्लेषेण । गलति । 'गल अदने ' ( वा० प० से० ) । स्रवणे (चु० आ० से० ) अच् (३।१।१३४) । 'अथ पोटगलः पुंसि नले च काशमत्स्ययोः ' ( इति मेदिनी ) (३) ॥*॥ त्रीणि 'धमनस्य' 'नलः' इति ख्यातस्य ॥ अथ काशमस्त्रियाम् ॥ १६२ ॥ इक्षुगन्धा पोटगलः अथविति ॥ काशते । 'काट दीप्तौ' (भ्वा० आ० से ० ) । अच् (३।१।१३४) 'काशस्तृणे रोगभेदे' ( इति है मः ) । 'काशी वाराणसीपुरी' (इति मेदिनी) । 'काशी काशश्च तृणवाचकः' इति शभेद: । गौरादिङीष् (४।१।४१) ॥ (१) usu इक्षुवद्गन्धोऽस्याः । समासान्तविधेरनित्यत्वान्नेत्त्वम् (५|४|१३५) । ' इक्षुगन्धा कोकिलाक्षे क्रोष्ट्रयां काशे च गोक्षुरे' इति मेदिनी ) ॥ (२) ॥३॥ ( पोटगलो व्याख्यातः) ॥ (३) ( ॥ * ॥ त्रीणि 'काशस्य' ॥ पुंभूर्माने तु वल्वजाः । मिति ॥ वलते । 'वल संवरणे' ( भ्वा० आ० से० ) क्विप् ( ३।२।१७८ ) वजति । 'वज गतौ ' ( भ्वा० प० से० ) । अच् ( ३।१।१३४ ) वल् चासौ वजश्च । 'एको वल्वजः' इति (१।२।४५ सूत्रे) भाष्यकारवचनादेकत्वेऽपि ॥ (१) ॥*॥ एकम् 'ars' इति ख्यातस्य ॥ रसाल इक्षुः रसेति ॥ रसेनाति, अल्यते, वा= पूरयति, पूर्यते, वा । 'अल भूषणादौ' ( भ्वा० प० से ० ) । अच् ( ३।१।१३४) घञ् ( ३।३।१९ ) वा । 'रसालं सिहके वोले रसालचेक्षुचूतयोः ' ( इति मेदिनी ) ॥ (१) ॥ ॥ इष्यते । 'इष इच्छायाम् ' ( तु० प० से० ) 'इषेः क्सुः ' ( उ० ३।१५७ ) । 'पढोः कः सि' ( ८/२/४१) ॥ ( २ ) ॥ ॥ द्वे 'इक्षोः ' ॥ तद्भेदाः पुण्ड्रकान्तारकादयः ॥ १६३ ॥ तदिति ॥ कोषकाराया आदिना गृह्यन्ते । 'इक्षुः कर्क - टको वंशः कान्तारो वेणुनिःसृतः । इक्षुरन्यः पौण्ड्रकच रसाल: सुकुमारकः' । पुण्ड्यन्ते । 'पुडि खण्डने' ( स्वा० प० से० ) ।
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy