SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ अमरकोषः । १५) इति वस्य उः ॥ ( १० ) ॥* ॥ दश ' स्पृक्कायाः' ओषध्यो जातिमात्रे स्युः 'अस्यर' इति ख्यातस्य ॥ तपस्विनी जटामांसी जटिला लोमशा मिसी । तपेति ॥ तपोऽस्त्यस्याः । जटिलत्वात् । 'अस्माया - ' (५/२/१२१ ) इति विनिः ॥ (१) ॥ * ॥ जटाऽस्त्यस्याः । अर्शआद्यच् (५।२।१२७) गद्वा, - जटति 'जट संघाते' (स्वा० प० से०)। अच् (३।१।१३४) ॥ (२) ॥ ॥ मन्यते । 'मनेर्दोर्घव' ( उ० ३।६४ ) इति सः । गौरादिः (४।१।४१) । ' मांसं स्यादामिषे क्लब कङ्कोलीजटयोः स्त्रियाम् ' ( इति मेदिनी ॥ (३) ॥*॥ जटाऽस्त्यस्याः । पिच्छादीलच् (५।२।१००) । 'जटिला पिप्पलीमांस्योर्जटायुक्ते तु वाच्यवत् ' ( इति मेदिनी ) ॥ (४) ॥*॥ लोमानि सन्त्यस्याः । लोमादिशः ( ५।२।१००) 'लोमशो मुनिमेषयोः । (लोमान्विते स्त्रियां काकजङ्घामांसीवचासु च । शुकशिम्बिमहामेदाकासीसे डाकिनीभिदि ' ) ( इति मेदिनी ) ॥ (५) ॥*॥ - मांसीत्वादामिषी - इति स्वाम्युक्तो विग्रहोऽयुक्तः । तथा पाठस्य क्वचिददर्शनात् । मस्यति । ' मसी परिणामे' (दि ० प० से०)। ‘सर्वधातुभ्य इन्’ (उ० ४।११८) । 'कृदिकारात् -' (ग० ४।१।४५) इति वा ङीष् । पृषोदरादिः ( ६।३।१०९ ) ॥ (६) ॥*॥ षट् 'जटामांसी' इति ख्यातायाः ॥ त्वक्पत्रमुत्कटं भृङ्गं त्वचं चोचं वराङ्गकम् ॥ १३४ ॥ १७४ त्वगिति ॥ त्वगिव पत्रमस्य ॥ ॥ 'त्वग्' अपि नामास्य । 'त्वक् स्त्री चर्मणि वल्के च गुडत्वचि विशेषतः ' ( इ मेदिनी ॥ (१) ॥*॥ अन्यत उत्कटगन्धित्वात् 'संप्रोदश्व कटच्' (५।२।२९ ) ॥ ( २ ) ॥ ॥ बिभर्ति । 'भृञः किन्नुट् च' ( उ० १।१२५ ) इति गन् ॥ (३) ॥*॥ प्रशस्ता त्वगस्यास्ति । अर्शआद्यच् (५।२।१२७) ॥ (४) ॥*॥ प्रशस्तं चोचमस्यास्ति । अर्शआद्यच् ( ५।२।१२७) 'त्वक्त्वचचोचशब्दाः स्युर्वल्के `चर्मणि पत्रके' इति धरणिः ॥ ( ५ ) ॥ ॥ वरमङ्गमस्य । 'शेषाद्विभाषा' (५।४।१५४ ) इति कप् ॥ ( ६ ) ॥*॥ षट् 'त्वक्पत्रस्य' 'तज' इति ख्यातस्य ॥ कर्पूरको द्राविडकः काल्पको वेधमुख्यकः । । केति ॥ कर्जति । ‘कर्ज व्यथने' ( वा० प० से० ) । खर्जादित्वात् (उ० ४।९०) ऊरः। पृषोदरादिः (६।३।१०९) स्वार्थे कन् (५।३।७५) ॥ (१) ॥*॥ द्रविडे देशे जातः । 'तत्र जातः' ( ४।३।२५) इत्यण् । स्वार्थे कन् ( ५।३।७५ ) ॥ (२) ॥*॥ कल्पे विधौ भवः। ' तत्र भवः' (४।३।५३ ) इत्यण् । कन् (५।३।७५) ॥*॥ पाठान्तरे काले साधुः । ' तत्र साधुः' (४|४|९८) इति यत् । खार्थे कन् (५।३।७५) ॥ (३) ॥*॥ वेधे मुख्यः । खार्थे कन् (५।३।७५) ॥ (४) ॥*॥ चत्वारि “कर्चूर' इति ख्यातस्य ॥ [ द्वितीयं काण्डम् ओषेति ॥ जातिमात्र विवक्षायाम् 'ओषधी' शब्दप्रयोगः ॥ अजातौ सर्वमौषधम् ॥ १३५ ॥ अजेति ॥ द्रव्यमात्रविवक्षायां तु 'औषध' शब्दप्रयोगः । 'ओषधेरजातौ' (५।४।३७ ) इत्यण् 'सर्वम्' इत्यनेन - 'घृत. तैलादिकमप्यौषधशब्दवाच्यम् - इत्युक्तम् ॥ शाकाख्यं पत्रपुष्पादि | शाकेति ॥ शक्यते भोक्तुम् । 'शक्त शक्ती' ( वा० प० अ० ) । घञ् ( ३।३।१९ ) यद्वा - श्यति । 'शो तनूकरणे' (दि० प० से ० ) । बाहुलकात् कः ॥ (१) ॥ ॥ आदिना फलनाट्यमूलादिपरिग्रहः । 'मेलपत्रकरीराग्रफलकाण्डाधिरूढकम् | त्वक् पुष्पं कवचं चैव शाकं दशविधं स्मृतम्' । अधिरूढकं = ताल • बीजाङ्कुरास्थिमज्जादि ॥ तण्डुलीयोऽल्पमारिषः | तेति ॥ तण्डुलाय हितः । ' तस्मै हितम् ' ( ५|१|५ ) इति छः । 'तण्डुलीयः शाकभेदे विडङ्गतरुताप्ययोः' ( इति हैममेदिन्यौ ) ॥ (१) ॥*॥ ' मारिषः शाकभिद्यायै नाट्योत्या पुंसि योषिति । (दक्षाम्बायाम् ) ( इति मेदिनी) । अल्पश्वासी मारिषश्च ॥ ( २ ) ॥*॥ द्वे 'तण्डुलीयस्य' 'चउराई' इति ख्यातस्य ॥ विशल्याऽग्निशिखाऽनन्ता फलिनी शक्रपुष्ण्यपि ॥ १३६ ॥ विशेति ॥ विगतं शल्यमनया । 'विशल्या लाङ्गलीदन्तीगुडूचीत्रिपुटासु च । शल्येन रहितायां च प्रियायां लक्ष्म स्य च' इति हेमचन्द्रः ॥ (१) ॥ ॥ अमेरिव शिखा संतापो यस्याः । 'अथाग्निशिखमुद्दिष्टं कुसुम्भे कुङ्कुमेऽपि च । लाङ्गलिक्याख्यैौषधौ च विशल्यायां च योषिति' ( इति मेदिनी ) ॥ (२) ॥*॥ न अन्तो यस्याः ॥ (३) ॥*॥ फलानि सन्त्यस्याः। इनिः (५।२।११५) । 'फलिन्यग्निशिखायां स्त्री फलिन्यां फलिने त्रिषु' ( इति मेदिनी ) ॥ (४) ॥*॥ शक्रोऽर्जुनतरुः पुष्पमस्याः । शक्रशब्दः पुष्पे लाक्षणिकः । ' पाककर्ण -' (४२११६४ ) इति ङीष् ॥ (५) ॥*॥ पच 'अग्निशिखायाः’ 'इन्द्रपुष्पी' इति ख्यातायाः ॥ स्यादृक्षगन्धा छगलान्यावेगी वृद्धदारकः । जुङ्गः स्यादिति ॥ ऋक्षस्यैव गन्धोऽस्याः । समासान्तस्या १ – मूलं मूलकादेः, पत्रं वास्तुकादेः, करीरं वंशाङ्कुरम्, अयं वेत्रादेः फलं कूष्माण्डादेः, काण्डमुत्पलादेर्नालम्, त्वक् मातुलुङ्गादेः, पुष्षं तिन्तिडीकोविदारादेः, कवकं छत्राकं - इति मुकुटः ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy