SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ अमरकोषः । १६६ शाकयोः' (इति मेदिनी) ॥ (४) ॥ ॥ चत्वारि 'जलपिप्पली' योग्यमृद्धिः सिद्धिलक्ष्म्यौ इति ख्यातस्य शाकभेदस्य ॥ खराश्वा कारवी दीप्यो मयूरो लोचमस्तकः ॥ १११ ॥ ) खरेति ॥ खरमक्षुते। खरैरश्यते वा । 'अशुङ् व्याप्तौ संघाते च' (स्वा० आ० से० ) । 'अश भोजने' वा । 'उल्वादयश्च' (उ० ४।९५) इति वः । 'अशिपुषि - ' ( उ० १।१५१ इति क्वन् वा ॥ (१) ॥ *॥ केन जलेन रौति । 'रु शब्दे' (अ० प० अ० ) । पचाद्यच् ( ३।१।१३४) । करवस्य मयूर - स्येयम् । ‘तस्येदम्’ (४।३।१२० ) इयण् । यत्तु – 'कारोरियम्' कारवस्येयं वा—इति व्याख्यातं मुकुटेन । तन्न । वृद्धत्वाच्छप्रसङ्गत्वात् । 'कारवी मधुरादीप्यत्वक्पत्रीकृष्णजीरके' ( इति मेदिनी ) ॥ (२) ॥*॥ दीपनम् । घञ् ( ३।३।१८ ) दीपे साधुः। ‘तत्र साधुः’ ( ४।४।९८ ) इति यत् ॥ ॥ ' दीपकः' अपि । ‘अलंकारे यवान्यां च दीपको लोचमस्तके' इति रभसः ॥ (३) ॥*॥ मीनाति रोगम् । 'मीच् हिंसायाम्' ( क्या० उ० अ० ) । 'मीनातेरूरन' (उ० १।६७) । मुकुटस्तु - मिनोति प्रक्षिपत्यग्निमान्द्यमिति खर्जूरादित्वात् ऊरच् — इत्याह । तन्मन्दम् । ‘मीनातेरूरन्’ इति सूत्रस्य सत्त्वात् । 'मयूरो नीलकण्ठेऽपि स्यान्मयूरशिखौषधौ ' इति रभसः ॥ (४) ॥*॥ लोच्यते । ‘लोचृ दर्शने' (भ्वा० आ० से० ) । घय् ( ३।३।१९ यद्वा,–लोचयति । ‘लोचृ भासने' ( चु० उ० से० ) । पचाद्यच् (३।१।१३४)। लोचो दर्शनीयो भासमानो वा मस्तकोऽस्य मुकुटस्तु — लुच्यते— इति विगृहीतवान् । तन्न । 'लुञ्च अपनयने' ( वा० प० से ० ) अस्मात् घञि नलोपविधायकाभावात् । - 'लोच मर्कटः' इत्यपि - इति खामी ॥ (५) ॥*॥ पञ्च 'मयूरशिखायाः ' ॥ ) । गोपी श्यामा शारिवा स्यादनन्तोत्पलशारिवा । गोपीति ॥ गोपायति । 'गुपू रक्षणे ' ( भ्वा० प० से ० ) आयाभावे पचाद्यच् ( ३।१।१३४ ) । गौरादिङीष् ( ४|१|४१ ) ॥*॥ केचित्तु अजादित्वात् ( ४।१1४ ) टापमाहुः । ' गोपी श्यामा गोपवल्ली गोपा गोपालिका च सा' इति वाचस्पतिः ॥ (१) ॥*॥ श्यायते। ‘श्यैङ् गतौ' (भ्वा० आ० अ० ) । ' इषि - युधि-' (उ० १।१४५) इति मक् ॥ ( २ ) ॥*॥ शरणम् । 'शृ हिंसायाम्' (क्र्या० प० से०)। 'कुंगृशृपृकुटि - ' ( उ० ४।१४२ इतीण् । शारिरस्त्यस्याः । ‘अन्येभ्योऽपि - ' ( वा० ५ | १|१०९) इति वः ॥ (३) ॥*॥ न अन्तोऽस्याः । 'अनन्ता च विशल्यायां शारिवादूर्वयोरपि' (इति मेदिनी ॥ (४) ॥*॥ उत्पलमस्त्यस्याः। उत्पलाकारपुष्पत्वात् । अर्शआयच् ( ५।२।१२७) । यद्वा - उद्यतं पलमनया । उत्पला चासौ शारिवा च ॥ ( ५ ) ॥*॥ पञ्च 'उत्पलशारिवायाः ' 'गुलीसर' इति ख्यातस्य ॥ ) १ – उज्ज्वलदत्तादिषु तु 'श्रः शकुनौ' ( उ० ४ १२८ ) इत्येव सूत्रमुपलभ्यते ॥ [ द्वितीयं काण्डम् योग्यमिति ॥ युज्यते । 'युजिर् योगे' (रु० उ० अ० ) । 'ऋहलोर्ण्यत् ' ( ३।१।१२४) । यद्वा, - योगाय प्रभवति । 'योगा• यच्च' ( ५।१।१०२ ) । 'योग्यः प्रवीणयोगार्होपायिशक्तेषु वाच्यवत् । क्लीबमृद्ध्योषधौ, पुष्पे नारूयभ्यासार्कयोषितोः' (इति मेदिनी ) (१) ॥*॥ ऋनोति । 'ऋधु वृद्धौ' ( स्वा०प० से० ) । क्तिच् ( ३।३।१७४) । 'ऋद्धिः स्यादौषधीभेदे समृ. द्वावपि योषिति' ( इति मेदिनी ) ॥ ( २ ) ॥*॥ सिध्यति । 'षिधु संराद्धौ' ( दि० प० अ० ) । क्तिच् ( ३।३।१७४ ) । 'सिद्धिस्तु मोक्षे निष्पत्तियोगयोः' इति हैमः । ( 'सिद्धिः स्त्री योगनिष्पत्तिपादुकान्तर्द्धिवृद्धिषु' इति मेदिनी ) ॥ (३) ॥*॥ लक्ष (य) ति । लक्ष्यते वा । 'लक्ष दर्शने' ( चु०प० से० ) । 'लक्षेर्मुद च' ( उ० ३।१६० ) इतीः । 'लक्ष्मीः संपत्तिशोभयोः । ऋद्ध्योषधौ च पद्मायां वृद्धिनामौषधेऽपि च ' ( इति मेदिनी ) ॥ (४) ॥*॥ चत्वारि 'ऋद्ध्याख्यौषधेः ॥ वृद्धेरप्याह्वया इमे ॥ ११२ ॥ वृद्धेरिति ॥ इमे उक्ताश्चत्वारो वृद्ध्याख्यौंषधेरप्याह्वया नामानि ॥ (४) ॥*॥ वर्धतेऽनया । 'वृधु वृद्धौ' (भ्वा० आ० से० ) । क्तिच् ( ३।३।१७४ ) । ' वृद्धिस्तु वर्धने योगे - ऽप्यष्टवर्गौषधान्तरे । कालान्तरे चाभ्युदये समृद्धावपि योषिति' ( इति मेदिनी ) ॥ ( ५ ) ॥*॥ (पञ्च 'वृद्ध्याख्यौषधेः' ) ॥ कदली वारणवसा रम्भा मोचांशुमत्फला । काष्टिला कदेति ॥ कन्दते । कन्द्यते वा । 'कदि आह्वाने रोदने च' (भ्वा० आ० से० ) । वृषादित्वात् ( उ० १।१०६ ) साधुः ( आगमशासनमनित्यम्) । केन वायुना दल्यते वा । 'दल विशरणे' ( भ्वा० प० से ० ) 'खनो घ च ' ( ३।३।१२५) इति घः । गौरादिः (४|१|४१) । यत्तु - 'घञर्थे कः' ( वा० ३२३१५८ ) – इति मुकुटः । तन्न । परिगणनात् । मुकुटस्तु — कदेः सौत्रात् 'कदल्यादयः' इत्यलच् – इत्याह । तन्न । कदेः सौत्रस्य धातोरभावात् । उज्वलदत्ताद्युणादिवृत्तिषूक्तसूत्रस्यादर्शनात् । 'कदला कदलौ पृश्यां कदली- कदलौ पुनः । रम्भावृक्षेऽथ कदली पताकामृगभेदयोः । कदला डिम्ब - कायां च शाल्मली भूरुहेऽपि च ' ( इति मेदिनी ) ॥*॥ अजादित्वात् ( ४|११४ ) टापि कदला । 'कदलश्च कदल्यसौ' इति व्याडिः ॥ (१) ॥ ॥ वारणानां बुसा । वस्यति स्यते वा। 'वुस उत्सर्गे' (दि० प० से० ) । ' इगुपध - ' ( ३|१|१३५ ) इति कः । भिदाय‍ ( ३ | ३|१०४ ) वा । ' घजर्थे कः ' इति परिगणनान्नेह प्रवर्तते ॥*॥ 'बुषा' इति मूर्धन्यान्तः इति केचित् ॥ ( २ ) ॥*॥ रभति । 'रभ राभस्ये' (भ्वा० आ० अ० ) । पचाद्यच् ( ३।१।१३४) । 'रभेरशब्लिटो:' ( ७७१।६३ ) इति नुम् । रभ्यते वा । घञ् ( ३।३।१९ ) । मुकुट
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy