SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ वनौषधिवर्गः ४ ] मेदिनी ) ॥*॥ 'मेला' इति स्वामी । ' तुत्था श्रीफलिका मेला सारवाही च रञ्जनी' इति निघण्टुः ॥ ( १० ) ॥*॥ नीलो वर्णोऽस्त्यस्याः । ‘अतः-’ (५/२/११५ ) इतीनि: (११) ॥*॥ एकादश 'नील्या: ' 'नील' इति ख्यातस्य ॥ व्याख्यासुधाख्यव्याख्यासमेतः । अवल्गुजः सोमराजी सुवल्लिः सोमवल्लिका ॥ ९५ कालमेषी कृष्णफला वाकुची पूतिफल्यपि । १६१ पिप्पली स्मृता' ( इति मेदिनी ) ॥ ( ८ ) ॥*॥ शुण्डायां मद्यपानगृहे भवा । 'शौण्डो मत्ते च विख्याते पिप्पल्यां तु भवेत्स्त्रियाम् ' ( इति मेदिनी ) ॥ ( ९ ) ॥*॥ कोलति । 'कु संस्त्याने' (भ्वा० प० से० ) । पचाद्यच् ( ३।१।१३४ ) ! ॥ 'कोलं कोलफले क्लीबं पिप्पलीचन्ययोः स्त्रियाम्' (इति मेदिनी ॥ (१०) ॥*॥ दश 'पिप्पल्या ः ' ॥ अथ करिपिप्पली । कपिवल्ली कोलवल्ली श्रेयसी वशिरः पुमान् ॥ ९७ ॥ अथेति ॥ करीव पिप्पली । बृहत्त्वात् ॥ (१) ॥*॥ कपिरिव वल्ली ॥*॥ कोल इव वल्ली । तयोस्तुल्यरोमत्वात् ॥ (२) ॥*॥ (३) ॥*॥ अतिशयेन प्रशस्ता । 'श्रेयसी करिपिप्पल्यामभयापाठयोरपि' ( इति मेदिनी ) ॥ (४) ॥*॥ वस्ते । 'वस आच्छादने' ( अ० आ० से० ) । बाहुलकारिकरच् ॥*॥ तालव्यपाठे तु - वष्टि । ' वश कान्ती' (अ० प० से० ) । संज्ञापूर्वकत्वान्न संप्रसारणम् । 'वशिरः पुमान् । किणिही हस्ति पिप्पल्योः ', 'क्लीबेsब्धिलवणे स्मृतम्' (इति मेदिनी ॥ ( ५ ) ॥*॥ पञ्च 'गजपिप्पली' इति ख्यातायाः ॥ चव्यं तु चविकम् । अवेति ॥ अवल्गोरशोभनाज्जातः ॥ (१) ॥* ॥ सोम इव सोमेन वा राजति । ‘राजृ दीप्तौ ' ( वा० उ० से० ) ' -उपमाने' ( ३।२।७९ ) इति 'सुप्यजातौ -' ( ३।२२७८ ) इति वा णिनिः ॥ (२) ॥*॥ शोभना वल्लिरस्याः ॥ (३) ॥* ॥ सोमस्य वल्लिः । स्वार्थे कन् ( ५।३।७५ ) ॥ (४) ॥*॥ कालं मिषति । “मिष स्पर्धायाम्' ( तु० प० से० ) । 'कर्मण्यण' (३।२।१) ॥ (५) ॥*॥ कृष्णं फलमस्याः । अजादित्वात् (४|१|४) टाप् ॥ ( ६ ) ॥*॥ वातं कोचयति । 'कुच शब्दे तारे' (भ्वा० प० से० ) । मूलविभुजादित्वात् ( वा० ३।२।५) कः । पृषोदरादिः ( ६ | ३|१०९ ) ॥* ॥ मुकुटस्तु —वाचं गुञ्जति । 'वागुजी' इत्याह । 'गुजि अव्यक्त शब्दे' ( भ्वा० प० से० ) । पूर्ववत्। गौरादिः ( ४|१|४१ ) ॥ ( ७ ) ॥* पूतिः फलेष्वस्याः 'पाककर्ण - ' ( ४|१|६४ ) इति ङीष् ॥ (८) ॥* ॥ अष्टौ 'वकुची' इति ख्यातायाः ॥ कृष्णोपकुल्या वैदेही मागधी चपला कणा ॥ ९६ ॥ क्लीबं वचायामपि योषिति' ( इति मेदिनी ) ॥ (१) ॥*॥ उषणा पिप्पली शौण्डी कोला कुन् ( उ० २।३२ ) । चविकम् ॥ ( २ ) ॥*॥ स्त्रियामपि । 'चव्या कोला च चविका चव्यं कुञ्जरपिप्पली' इति हट्टचन्द्रः ॥ (१) ॥*॥ द्वे ' चव्य' इति ख्यातस्य । केचित्तु पूर्वान्वयमाहुः । यदाह चन्द्रनन्दनः - 'चव्या कोलाथ चविका श्रेयसी गजपिप्पली । च्यवना कोलवल्ली तु चव्यं कुञ्जरपिप्पली' । अत्र पक्षे तुस्थाने चः पाठ्यः ॥ ॥ चेति ॥ चर्व्यते । 'चर्व अदने ' ( भ्वा० प० से० ) । ण्यत् (३।१।१२५)। पृषोदरादिः (६।३।१०९ ) ' चव्यं तु चविके ) कृष्णेति ॥ कृष्णो वर्णोऽस्त्यस्याः । अर्शआद्यच् (५/२/१२७)। ‘कृष्णा स्याद्द्रौपदीनीली कणाद्राक्षासु योषिति' ( इति मेदिनी ) ॥ (१) ॥*॥ उपकोलति । 'कुल संस्त्याने बन्धुषु च' (भ्वा० प० से० ) अन्यादिः ( उ० ४।११२ ) ॥*॥ उपगता कुल्याम्, इति वा ॥ ( २ ) ॥* ॥ विदेहेषु भवा । 'वैदेही रोचनासीतावणिक्स्त्रीपिप्पलीषु च' ( इति मेदिनी ) ॥ (३) ॥*॥ मगधेषु भवा। ‘मागधी स्त्री कणायूथ्योर्वाच्यवन्मगधोद्भवे। पुंसि वैश्यात्क्षत्रियाजे शुक्लजी रकबन्दिनोः ॥ ( ४ ॥*॥ चपति । ‘चप सान्त्वने’ ( भ्वा० प० से० ) वृषादित्वात् (उ० १।१०६) कलच् । 'चपला कमलाविद्युत्पुंश्चलीपिप्पलीषु च' ( इति मेदिनी ) ॥ ( ५ ) ॥*॥ कणति । 'कण शब्दे' (भ्वा० प० से० ) अन्तर्भावितण्यर्थः । पचाद्यच् (३1१।१३४) । ' कणा जीरककुम्भीरमक्षिकापिप्पलीषु च' (इति मेदिनी) ॥ (६) ॥*॥ ओषति । 'उष दाहे' ( भ्वा० प० से० ) । बाहुलकात् क्युन् ( उ० २७८ ) ॥ ॥ दीर्घादिरपि । ऊषति । 'ऊष रुजायाम्' (भ्वा० प० से० ) 'ऊषणं मरिचे क्लीचं कणायाभूषणा स्त्रियाम् ' ( इति मेदिनी ) ॥ ( ७ ) ॥*॥ पिपर्ति । ‘पॄ पालनपूरणयोः' ( जु० प० से० ) । बाहुलकाद - लच् । पृषोदरादिः । गौरादिः ( ४|१|४१ ) । ' पिप्पलं सलिले वस्त्रच्छेदभेदे च ना तरौ । निरर्गले पक्षिभेदे कणायां । अमर० २१ काकचिचागुञ्जे तु कृष्णला । काकेति ॥ काकवर्णा चिंचा ॥ * ॥ गौरादिः (४|१1४१ )इति स्वामी ॥ (१) ॥*॥ गुञ्जति । 'गुजि अव्यक्ते शब्दे ' (भ्वा० प० से० ) । पचाद्यच् ( ३।१।१३४ ) । ' गुञ्जा तु काकचिंचायां पटहे च कलध्वनौ' ( इति मेदिनी ) ॥ ( २ ) ॥*॥ कृष्णं वर्ण लाति ॥ (३) ॥*॥ त्रीणि 'गुञ्जायाः ' 'घोंगची' इति ख्यातायाः ॥ पलंकषा त्विक्षुगन्धा श्वदंष्ट्रा स्वादुकण्टकः ॥ ९८ ॥ गोकण्टको गोक्षुरको वनशृङ्गाट इत्यपि । पलमिति ॥ पलं मांसं कषति । 'कष हिंसार्थः ' ( भ्वा० प० से० ) । मूलविभुजादित्वात् ( वा० ३।२।५ ) कः । पृषोदरादिः ( ६ । ३ । १०९ ) । - ' तत्पुरुषे - ' ( ६।३।१४ ) इति द्वितीयाया अलुक् - इति मुकुटः । तन्न । अलौकिकविग्रहेऽमोऽप्रवेशात् । 'पलंकषा गोक्षुरके स्त्रियां रास्नापलाशयोः' इति मूर्धन्यान्तेषु रभसः । यत्तु - 'कर्षति' इति विगृह्य 'पृषोदरादिः '
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy