SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ १६० पृश्निपर्णी पृथक्पर्णी चित्रपर्ण्यङ्घ्रिपर्णिका ॥ ९२ ॥ कोटुविना सिंहपुच्छी कलशिर्धावनिर्गुहा । पृश्नीति॥ पृश्निरल्पं पर्णमस्याः । 'पाककर्ण - 2 (४/१/५४) इति ङीष् ॥ (१) ॥ * ॥ पृथगसक्तं पर्णमस्याः । ङीष् (४|१|५४) ॥ (२) ॥*॥ चित्रं पर्णमस्याः (३) ॥*॥ अङ्गेरालभ्य पर्णान्यस्याः । ङीष् (४।१।५४ ) स्वार्थे कन् ( ५।१।७५) ॥*॥ - अ िमूलमारभ्य वल्लिरस्याः । 'अङ्घ्रिवल्लिका'इति मुकुटः ॥ (४) ॥*॥ क्रोष्टुभिर्विन्ना विचारितेव । दत्तेव, इति वा ॥ (५) ॥*॥ सिंहपुच्छमस्याः, सिंहपुच्छाकारपुष्प - त्वात् । 'उपमानात् पक्षाच्च पुच्छाच ' ( वा० ४।१।५ ) इति ङीष् ॥ (६) ॥ ॥ 'कलं शुक्रे त्रिष्वजीर्णे' ( इति मेदिनी ) कलं श्यति । ‘शो तनूकरणे' (दि० प० अ० ) । इन (उ० ४। ११८) । बाहुलकादाकारलोपः ॥ ( ७ ) ॥ ॥ धावति । 'धावु गतिशुद्ध्योः' (भ्वा० उ० से० ) । बाहुलकादनिः ॥ (८) ॥*॥ गूहति । ‘गुहू संवरणे’ (भ्वा० उ० से० ) । 'इगुपध - ' ( ३।१११३५) इति कः ॥ (९) ॥*॥ नव 'सिंहपुच्छया : ' 'पिठ वनी' इति ख्यातायाः ॥ । अमरकोषः । निदिग्धिका स्पृशी व्याघ्री बृहती कण्टकारिका ९३ प्रचोदनी कुली क्षुद्रा दुःस्पर्शा राष्ट्रिकेत्यपि । [ द्वितीयं काण्डम् इति खल् ॥ (९) ॥*॥ 'राष्ट्रं स्यात्तूपवर्तने । उपद्रवे क्लीबपुंसोः' (इति मेदिनी)। राष्ट्रमस्त्यस्याः । ' अतः - ' (पाशन ११५ ) इति ठन् ॥ (१० ) ॥ ॥ दश 'कण्टकारिकायाः' 'भटकटा' इति ख्यातायाः ॥ । । निदीति ॥ निदिह्यते स्म । 'दिह उपचये' (अ० उ० अ० ) क्तः (३।२।१०२) । टाप् ( ४1१1४ ) स्वार्थे कन् ( ५।३।७५ ) ॥ (१) ॥॥ स्पृशति । ‘स्पृश स्पर्शने' ( तु० प० अ० ) । 'इगु पध-' (३।१।१३५) इति कः । - ' स्पृश बाधनस्पर्शनयोः ' - इति मुकुटोक्तं निर्मूलम् । गौरादिः (४।१।४१) ॥ ( २ ) ॥*॥ व्याजिघ्रति 'व्याघ्रादिभि: - ' (२।१।५६ ) इति लिङ्गात् 'आतश्वोपसर्गे' (३।१।१३६) इति कः । न तु 'पाघ्रा - ( ३।१११३७) इति शः । गौरादिः (४।१।४१) ॥ (३) ॥॥ बृहति ‘बृह वृद्धौ’ (भ्वा० प० अ० ) । ' वर्तमाने पृषद्वृहत् - ( उ० २।८४) इति निपातः। शतृवत्त्वान् ङीप् (४।१।६) । 'क्षुद्रायां क्षुद्रवार्ताक्यां बृहती छन्दसि क्वचित्' इति शाश्वतः ॥ (४) ॥*॥ कण्टकानियर्ति । ‘ऋ गतौ' (जु० प० अ० ) । 'कर्मष्यण्' (३।२।१) । स्वार्थे कन् (५।३।७५) ॥ (५) ॥ ॥ प्रचोदयति । ‘चुद् संचोदने’ (चु० प० से०) । ल्युट् ( ३।३।११३) (६) ॥॥ कोलति। ‘कुल संस्त्याने' ( वा० प० से०) । 'इगुपध-' (३।१।१३५) इति कः । गौरादिः (४।१।४१ ) । - णिजन्तेन विगृह्य 'क: ' – इत्यभिधानं मुकुटस्य चिन्त्यम् । णिजन्तस्येगुपधत्वाभावात् अनुपयोगाश्च ॥ (७) ॥३॥ क्षुणत्ति । 'क्षुदिर् संपेषणे' (रु० उ० अ० ) । 'स्फायि - ' ( उ० २।१३ ) इति रक् । यस्तु - 'क्षुद संप्रेरणे' - इति धातुरुपन्यस्तो मुकुटेन । स धातुपाठे न लभ्यते । 'क्षुद्रा व्यङ्गानटीकण्टकारिकासरघासु च । चाङ्गेरीवेश्ययोर्हिस्रामक्षिकामात्रयोरपि' (इति मेदिनी) ॥ (८) ॥॥ दुरुपृश्यते । 'ईषदुर्-' ( ३।३।१२६) ॥ नीली काला क्लीतकिका ग्रामीणा मधुपर्णिका ॥ ९४॥ रञ्जनी श्रीफली तुत्था द्रोणी दोला च नीलिनी । 'नीली रुग्भेदनीलिन्यो:' (इति मेदिनी ) ॥ (१) ॥३॥ कल्यते । नीलीति ॥ 'नीलादोषधौ' ( वा० ४।१।४२ ) इति ङीष् । 'कल क्षेपे' ( चु० प० से० ) । कर्मणि घञ् (३।३।१९) । यत्तु — कर्मणि 'एरच्' ( ३ | ३|५६ ) – इति मुकुटेनोक्तम् । तन्न । कलधातोरिवर्णान्तत्वाभावात् । वृद्ध्यभावप्रसङ्गाच्च । व्यन्तत्वे 'कल्यते' इति विग्रहप्रदर्शनस्यासंभवाञ्च । वर्णत्वाभावान्न ङीष् । 'काला तु कृष्णत्रिवृतामञ्जिष्ठानीलिकासु च ( इति मेदिनी ॥ ( २ ) ॥*॥ क्रीतकं क्रयोऽस्त्यस्याः । कपिलकादित्वात् ( वा० ८।२।१८ ) लत्वम् । अतः - 2 (५/२/११५) इति उन् । 'क्रीतकं विनिमयः' इति स्वामि- मुकुटौ ॥ (३) ॥ ग्रामे भवा । ' ग्रामाद्यखनौ' (४/२/९४ ) । 'ग्रामीणा नीलि कायां स्त्री ग्रामोद्भूतेऽभिधेयवत्' ( इति मेदिनी ) ॥ (४) ॥*॥ मधुराणि पर्णान्यस्याः । 'पाककर्ण - ' ( ४।१।५४) इति मेदिनी ॥ (५) ॥*॥ रञ्जयति । ल्युट् (३।३।११३) । 'णिङीष् । 'मधुपर्णी तु गंभार्यां नीलीसंज्ञौषधावपि ' ( इति लोपस्य स्थानिवद्भावात् 'असनयोश्च' इति नलोपो न । रज्यते. ऽनया, इति विग्रहे तु 'करणा - ' ( ३।३।११७ ) इति ल्युटि भवत्येव । 'रञ्जेः क्युन्' (उ० २१७९) इति वा । 'गुडारोचनिकानीलीमञ्जिष्ठासु च रञ्जनी । रजनी नीलिनीरात्रि हरिद्राजनुकासु च' ( इति मेदिनी ॥ (६) ॥॥ श्रीमत् फलम स्याः । ' श्रीफलः पुंसि मालूरे धात्रीनीलिकयोः स्त्रियाम् ( इति मेदिनी ॥ ( ७ ) ॥*॥ तुद्यते। ‘तुद् व्यथने' (तु० उ० अ० ) । 'पातृतुदि - ( उ० २।७) इति थक्। तुत्थयति वा । 'तुत्थ आवरणें' । पचाद्यच् ( ३।१।१३४) । ' तुत्थमञ्जनभेदे स्यान्नीलीसूक्ष्मैलयोः स्त्रियाम्' (इति मेदिनी ॥ (८) ॥st द्रवति । 'दृ गतौ' (भ्वा० प० अ० ) 'वहिश्रि-' ( उ० ४०५१) इति निः ॥३॥ 'तूणी' – इति स्वामी। ‘तूण पूरणे’ चु० आ० से० ) । तूण्यतेऽनया । 'हलच' ( ३।३।१२१) इति घञ् । गौरादिः (४/१/४१) । ' तूणी नील्यां निषङ्गे ना' ( इति मेदिनी ॥ ( ९ ) ॥ ॥ दोलयति । 'दुल उत्क्षेपे' (चु० प० से० ) । पचाद्यच् । 'दोला नील्यां यानान्तरेऽपि च' (इति ( १- 'अनिदिताम् -' (६।४।२४ ) इति सूत्र भाष्ये 'रजकर जनरजः सूपसंख्यानम्' इति वार्तिकेन 'रजकरजनरजः सु किवा • सिद्धम् । कित एवैत औणादिकाः' इति भाष्येण नत्रत्यटेन 'असनयोश्च' इति वाक्यस्याभावध्वननेन ल्युटि नलोपाप्राप्त्या णिलोपस्येत्यादिभवत्येवेस्यन्तग्रन्थोऽसंगत एवेति बोध्यम् ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy