SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ १५२ अमरकोषः । ॥*॥ जीमूत इव 'जीमूतोऽद्रौ भृतिकरे देवताडे पयोधरे' इति मेदिनी ॥ ( ५ ) ॥*॥ पञ्च 'देवतालस्य' ॥ श्रीहस्तिनी तु भूरुण्डी श्रीति ॥ श्रिया हस्तः । श्रीहस्तो विद्यतेऽस्याः । 'अतः - (५।२।११५) इतीनिः । हस्तं गृह्णाति, हस्तयति, अवश्यं श्रियं हस्तयति । ‘आवश्यका–’ ( ३।३।१७० ) इति णिनिः, इति वा ॥ (१) ॥*॥ भुवं रुण्डयति आच्छादयति । 'रुटि लुटि स्तेयकरणे' (भ्वा॰ प० से० ) इत्यत्र माधवीयायां वृत्तौ 'रुडि, लुडि, इत्यपरे' इति पाठान्तरमुपन्यस्तम् । 'कर्मण्यण्' (३1२1१ ) ॥ ( २ ) ॥*॥ हस्तिकर्णपत्रा शाकविशेष इति स्वामी । द्वे (माषादिक्षेत्रभवाया वकुलपुष्पाभलोहितपुष्पायाः 'हस्तिकर्णाभपत्रस्य' 'शिरीहथिनी' इति ख्यातायाः) ॥ तृणशून्यं तु मल्लिका ॥ ६९ ॥ [ द्वितीयं काण्डम् वा० 'सुवहा सल्लक्येलापण गोधापदीषु वीणायाम् । रास्नाशेफालिकयोः स्त्री, सुखवाह्येऽन्यलिङ्गः स्यात् ' ( इति मेदिनी ) ॥ ( २ ) ॥*॥ नीलवर्णा । 'नीलादौषधौ' 'प्राणिनि च ' ४।१।४२ ) इति ङीष् । खार्थे कन् ( ५।३।७५ ) । 'नीलिका नीलिनीक्षुद्ररोगशेफालिकासु च' ( इति मेदिनी ) ॥ (४) ॥*॥ चत्वारि 'कृष्णपुष्पाया निर्गुण्ड्याः' 'न्यवारी' इति ख्यातायाः ॥ सितासौ श्वेतसुरसा भूतवेशी भूपदी शीतभीरुश्च । तृणेति ॥ ' इतो धत्तूरान्तानि पुष्पाणि' इति स्वामी । तृणशून्ये स्थाने साधु । ' तत्र साधुः ' ( ४|४|१८ ) इति यत् । हलो यमाम् (८।४।६४) यलोपः । 'तृणशून्यं मल्लिकायां तथा स्यात्केतकीफले' इति विश्व-मेदिन्यौ ॥*॥ – 'तृणशुळे गुल्मे साधु तृणशूल्यम् ' - इति तु खामी ॥ (१) ॥ ॥ महते गन्धम् मल्यते वा । ‘मल्ल धारणे' (भ्वा० आ० से० ) । 'सर्वधातुभ्य इन्' (उ० ४।११८) । वा ङीष् (ग० ४।१।४५) । खार्थे कन् | (५।३।७५) । 'मल्लिको हंसभिद्यपि । मल्लिका तृणशून्ये- | sपि मीनमृत्पात्रभेदयोः' इति मेदिनी ॥ ( २ ) ॥*॥ भुवि पदमस्याः । गौरादिः ( ४।१।४१ ) | ( ३ ) ॥*॥ शीताद्भीरुः ॥२॥ ‘शतभीरुः' इति वा पाठः । शतं वियोगिनो भीरवोऽस्याः । 'मल्लिका शतभीरुश्च गवाक्षी भद्रमल्लिका । शीतभी दायन्ती भूपदी तृणशून्यकम्' इति वाचस्पतिः ॥ (४) ॥* ॥ चत्वारि 'मल्लिकायाः ' 'वेल्लि' इति ख्यातायाः ॥ सैवास्फोता वनोद्भवा । सैवेति ॥ आस्फोटयति । ‘स्फुटिर् विकसने ' ( वा० प० से ० )। पचाद्यच (१।३।१३४)। पृषोदरादित्वात् (६।३।१०९) टस्य तो वा । 'आस्फोता विष्णुक्रान्तायां वनमध्यर्कपर्णयोः इति रभसः । ' आस्फोतस्तु पुमानर्कपर्णे स्यात्कोविदारके । आस्फोता गिरिकर्व्यां च वनमल्यां च योषिति' इति मेदिनी ॥ (१) ॥*॥ एकं 'वनमल्याः ॥ १ - (कनभावे) शेफालीत्यपि - 'कथमितरथा शेफालीषु स्खलत्कुसुमास्वपि' इति प्रयोगदर्शनात् इति मुकुटः ॥ सितेति ॥ शोभनो रसोऽस्याः । श्वेता चासौ सुरसा च ॥ (१) ॥ ॥ भूतानि विशति । 'विश प्रवेशने ' ( तु० प० अ० ) 'कर्मण्यण्' ( ३।२।१) ॥ ( २ ) ॥ ॥ द्वे 'श्वेतनिर्गुण्ड्याः' ॥ अथ मागधी । गणिका यूथिकाम्बष्ठा अथेति ॥ मगधे देशे भवा । 'तत्र भवः' (४।३।५३) इत्यण् । 'मागधो मगधोद्भूते शुक्लजीर कबन्दिनोः । वैश्यतः क्षत्रियापुत्रे मागधी स्यात्तु पिप्पली ॥ यूथी भाषाविशेषश्च' इति हैमः ॥ (१) ॥*॥ चित्ताकर्षकत्वाद्गणिकेव । 'गणिका यूथीवेश्येभीतर्कारीषु ना तु दैवज्ञे' इति मेदिनी ॥ ( २ ) ॥*॥ यूथमस्त्यस्याः । 'अत इनिठनौ' (५/२/११५) 'यूथिकाम्रातके पुष्पविशेषेऽपि च योषिति' इति मेदिनी ॥ (३) ॥ ॥ अम्बेव मातेव तिष्ठति । 'सुपि स्थः ' ( ३।२।४) इति कः । 'अम्बाम्ब -' ( ८।३।९७) इति षत्वम् । 'ड्यापो:' ( ६।३।६३) इति हखः । - अम्बे तिष्ठति - इति खामी । 'अम्बष्ठो देशभेदेऽपि विप्राद्वैश्यासुतेऽपि च' । 'अम्बष्ठाप्यम्ललोण्यां स्यात्पाठायूथिकयोरपि' इति विश्व मेदिन्यौ ॥ (४) ॥*॥ चत्वारि 'यूथि कायाः' 'जूही' इति ख्यातायाः ॥ सा पीता हेमपुष्पिका ॥ ७१ ॥ सेति ॥ हेमवर्ण पुष्पमस्याः । ' पाककर्ण - ' ( ४|१|५४ ) इति ङीष् । 'स्याद्धेमपुष्पिका यूथ्यां चम्पको हेमपुष्पकः (इति मेदिनी ॥ (१) ॥ ॥ एकं 'तस्या एव पीतपुष्पायाः ' ॥ अतिमुक्तः पुण्ड्रकः स्याद्वासन्ती माधवी लता । शेफालिका तु सुवहा निर्गुण्डी नीलिका च सा ॥७०॥ अतीति ॥ अतिक्रान्तो मुक्तां शौक्यात् । 'अत्यादयः' ( वा० २।२।१८ ) । इति तत्पुरुषः । 'गोस्त्रियोः - ' (१|२|४८) इति हखः । यद्वा-मुक्तान् विरक्तान् । 'अतिमुक्तस्तु निःसङ्गे वासन्त्यां तिनिशेऽपि च ' ( इति मेदिनी ) ॥ (१) ॥ ॥ पुण्डति पुण्ड्यते वा 'मुडि खण्डने' 'पुडि च' ( स्वा० १० से० ) । 'स्फायि - ' ( उ० २।१३) इति रक्। स्वार्थे कन् (५३।७५) ॥ ( २ ) ॥*॥ वसन्ते पुष्यति । 'कालात्साधुपुष्यतू -' ( ४।३।४३) इत्यण् । 'वासन्ती माधवयूथ्योरुष्ट्रे नावहिते त्रिषु' ( इति मेदिनी ) | ( ३ ) ॥*॥ मधौ पुष्यति । शेफेति ॥ शेरते शेफा अलयोऽस्याम् । वा ङीष् ( ) । स्वार्थे रकेन् (५।३।७५) ॥ (१) ॥*॥ सुष्ठु वहत्यामोदम् । 'वह प्रापणे' (भ्वा० उ० अ० ) । पचाद्यच् ( ३।१।१३४ ) | १- अतिरक्तस्वात्' इति भट्टक्षीरस्वामी ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy