________________
अमरकोषः ।
[ द्वितीयं काण्डम्
मस्य । ('हेमपुष्पं तु चम्पके । अशोकद्रौ जपापुष्पे ' ) । कन् चाम्पेयः केसरो नागकेसरः काञ्चनाह्वयः । (५।३।७५) ॥ (३) ॥*॥ त्रीणि 'चम्पकस्य' ॥ एतस्य कलिका गन्धफली स्यात्
चेति ॥ चम्पाया अपत्यम् । 'चाम्पेयचम्पके स्वर्णे किंजल्के नागकेसरे' इति मेदिनी ॥ (१) ॥*॥ केसराः सन्त्यस्य । अर्शआद्यच् ( ५/२।१२७ ) ॥ ( २ ) ॥ ॥ नागाख्यः केसरः । 'स्वर्णेभसर्पाख्यो नागकेसरः षट्पदप्रियः' इति रभसः ॥ (३) ॥*॥ काञ्चनस्याह्वय आह्वा यस्य ॥ (४)
॥* ॥ चत्वारि 'चाम्पेयस्य' ॥
१५०
एतेति ॥ गन्धः फलं साध्यमस्याः । 'पाककर्ण -' ( ४/१।५४) इति ङीष् । ‘प्रियंगौ स्त्री गन्धफली चम्पकस्य च कोरके' इति रुद्रः ॥ (१) ॥*॥ एकं 'चम्पककलिकायाः ' ॥
अथ केसरे ।
वकुलः
अधेति ॥ केसराः सन्त्यस्य । अर्शआयच् (५/२/१२७)। के जले सरति । ‘सृ गतौ' ( भ्वा० प० अ० ) । पचाद्यच् ( ३।१।१३४ ) वा । 'केसरं हिङ्गुनि क्लीवं किंजल्के न स्त्रियां पुमान् । सिंहच्छटायां पुंनागे बकुले नागकेसरे' इति मेदिनी ॥ (१) ॥*॥ वङ्कते 'वकिर्गत्यर्थः ' ( भ्वा० आ० से० ) । बाहुलकादुलच् । ' आगमशासनमनित्यम्' इति न नुम् ॥ (२) ॥॥ द्वे 'बकुलस्य' 'माँसरी' इति
ख्यातस्य ॥
वलोsशोके
वविति ॥ वजति 'वज गतौ' ( भ्वा० प० से ० ) । 'बाहुलकादुलच्' नुम् ॥ (१) ॥*॥ न शोकोऽस्मात् । 'अशोकस्त्रिषु निःशोके पुंसि कङ्केलिपादपे । स्त्रियां तु कटुरोहिण्यां पारदे स्यान्नपुंसकम्' इति मेदिनी ॥ ( २ ) ॥ * ॥ द्वे 'अशोकस्य' ॥
समौ करदाडिमौ ॥६४॥
समाविति ॥ करोति दोषाभावम् 'कृञादिभ्यो वुन्' (उ० ५।३५)। 'करकस्तु पुमान् पक्षिविशेषे दाडिमेऽपि च। द्वयोर्मेघोपले, न स्त्री करके च कमण्डलौ' इति मेदिनी ॥ (१) ॥*॥ दलनं दालः । 'दल विशरणे' ( भ्वा० प० से० ) । घञ् ( ३।३।१८ ) दालेन निर्वृत्तः । ' भावप्रत्ययान्तादिमप्' ( वा० ४।४।२० ) डलयोरेकत्वम् । 'दाडिमस्तु त्रिलिङ्गः स्यादेलायां करके त्रिषु' इति मेदिनी ॥ *॥ दाडिम्बोऽपि । 'दाडिम्बसार पिण्डीरस्वाद्वम्लशुकवल्लभाः' इति रभ - सात् ॥ ( २ ) ॥*॥ द्वे 'दाडिमस्य' ॥
१——वकुलोऽन्तस्थादिः। अत एव मुकुटेन 'उच्यते वर्ण्यते कविभिः' इति विग्रहो दर्शितः । नापि व्याख्यात्रा निम्बवत् 'बवयोरभेदः' इत्युक्तम् । तथा च 'भवद्वैरिनगरमिवानेकविधव कुलसंकुलम्' इति दमयन्ती ॥ न च वबयोरैक्येन निर्वाह: । 'व्यालम्बिना' इत्यादौ यत्र वबयोर्व्याकरणेन निर्णयस्तत्रैव तदङ्गीकारात् । न हि वकुलशब्दे व्याकरणेन स्पर्शादित्वं संभवति । अत एव दमयन्तीव्याख्यात्रापि 'महाव्रतिकान्तःपातिभिः' इत्यत्रैव 'बवयोरैक्यम्' इत्युक्तम् । नत्वत्रापि इति दिक् ॥
जया जयन्ती तर्कारी नादेयी वैजयन्तिका ॥ ६५ ॥ जयेति ॥ जयति । 'जि जये' ( वा० प० अ० ) । खीषु च । अग्निमन्थे ना जयन्ते विजये च युधिष्ठिरे इति पचाद्यच् ( ३।१।१३४) 'जया जयन्तीतिथिभित्पथ्योमात्स - मेदिनी ॥ ( २ ) ॥*॥ 'तृभूवहि - ' ( उ० ३।१२८ ) इति भिगौयरिन्द्रपुत्रीपताकयोः । पुमानैन्द्रौ हरे भीमे' इति झच् । 'षित्' इत्यनुवृत्तेङीष् (४।१।४१ ) । ' जयन्ती वृक्षमेदिनी ॥ ( २ ) ॥॥ तर्कमृच्छति । ‘ऋ गतौ' (भ्वा० प० 'नयादिभ्यो ढक्' ( ४।२।९७ ) ‘टिड्ढा-’। ( ४।१।१५) इति अ० ) । 'कर्मण्यण्' ( ३।२।१) ॥ ( ३ ) ॥ ॥ नयां भवा । ङीप् ॥ (४) ॥*॥ विजयन्तस्येयम् । 'तस्येदम्' ( ४३१२० ) इत्यण् । खार्थे कन् ( ५।३।७५) । यद्वा, -वैजयन्ती पताकेव । 'इवे प्रतिकृतौ ' ( ५।३।९६ ) इति कन् ॥ ( ५ ) ॥*॥ पञ्च 'वैजयन्तिकायाः' 'अरणी' इति ख्यातायाः । 'जाही' इति ख्याताया इत्यन्ये ॥ श्रीपर्णमग्निमन्थः स्यात्कणिका गणिकारिका ।
जया
(
श्रीति ॥ श्रीः पर्णेषु यस्य । श्रीपर्णमग्निमन्थेऽब्जे श्रीपर्णी शाल्मलो हठे' इति हैमः ॥ (१) ॥*॥ अभि मध्नाति । ' मन्थ विलोडने ' ( क्या० प० से ० ) । 'कर्मण्यण्' ३।२।१) ॥ ( २ ) ॥*॥ कणति । 'कण शब्दे' (भ्वा० प० से०)। कुन् ( उ० २।३२ ) । गणाः सन्त्यस्या वा । 'अतः -' (५/२/१५) इति ठन् । 'कणिका सूक्ष्मवस्तुनि । अभिमन्थे' इति हैमः ॥ (३) ॥ ॥ गणनम् । 'गण संख्याने ' ( चु० उ० से० ) । 'इक् कृष्यादिभ्यः' ( वा० ३।३।१०८ ) । गणिं करोति । 'कर्मण्यण् ' ( ३।२।१ ) । ङीप् ( ४।१।१५ ) । खार्थे कन् (५/३/७५)। यद्वा,-गणयति । ऋच्छति । ण्वुल् ( ३।१।१३३ ) गणिका चासावारिका च ॥ (४) ॥*॥ जयति । पचाद्यच् ( ३।१।१३४ ) । 'जया जयन्तीतिथिभित्पथ्योमातत्सखीषु च । अग्निमन्थे ना जयन्ते विजये च युधिष्ठिरे ' इति मेदिनी ॥ ( ५ ) ॥ ॥ पञ्च 'जयपर्णस्य' । ' अरणी' इति ख्याताया इत्येके । 'दशाप्यरणिपर्यायाः' इति स्वामी ॥
अथ कुटजः शक्रो वत्सको गिरिमल्लिका ॥ ६६ ॥ अथेति ॥ कूटे जायते स्म । 'सप्तम्यां जनेर्ड : ' ( ३।२।९७ ) । पृषोदरादिः ( ६ | ३|१०९ ) ॥ ॥ प्रज्ञायणि