SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ १४४ अमरकोषः । | (- ३।१।१३५) इति कः । चातुर्वर्ण्यादित्वात् ( वा० ५1१1 - १२४) ष्यञ् ॥ (३) ॥*॥ अश्वकर्ण इव पत्रमस्य ॥ (४) ॥*॥ सस्यैः संत्रियते । ‘वृञ् वरणे' ( वा० उ० से ० ) । ' ग्रहवृह - ' ( ३।३।५८ ) इत्यप् ॥ ( ५ ) ॥ ॥ पञ्च 'सालस्य' 'शालवृक्षस्य' ॥ नदी सर्जो वीरतरुंरिन्द्रः ककुभोऽर्जुनः । नेति ॥ नद्याः सर्जः ॥ (१) ॥* ॥ वीरश्वासौ तरुश्च । दृढकाष्ठत्वात् ॥ (२) ॥*॥ इन्द्रस्य, इन्द्र इव वा दुः ॥ (३) 'ककुप् स्त्रियां प्रवेणीदिक्शोभासु चम्पकस्रजि' । कुकुभो दिशः सन्त्यस्य । बहुविस्तारत्वात् । अर्शआद्यच् (५/२/१२७ ) । ' ककुभो रागभेदेऽपि वीणाऽर्जुनपादपे ॥ ( ४ ) ॥*॥ अर्ज्यते । ‘अर्ज अर्जने’ (भ्वा० प० से० ) । 'अर्जेणिलुक् च' (उ० ३।५८ ) इत्युनन् ॥ ॥ 'पार्थस्तु ककुभे जिष्णौ' इति विश्वात् पार्थोऽपि ॥ ( ५ ) ॥*॥ प 'अर्जुनवृक्षस्य ' 'कौपीतक' इति ख्यातस्य ॥ राजादनः फलाध्यक्षः क्षीरिकायाम् राजेति ॥ राजभिरद्यते । 'अद भक्षणे' (अ० प० अ० ) कर्मणि ल्युट् ( ३।३।११४) । 'राजादनं क्षीरिकायां पियाले किंशुकेऽपि च' । 'राजादनः पियालद्रौ क्षीरिकायां त्रिप त्रके' इति हैमात् पुंलिङ्गोऽपि ॥ (१) ॥*॥ फलानामध्यक्षः ॥ (२) ॥*॥ क्षीरमस्त्यस्याः । ' अतः - ' ( ५।२1११५ ) इति थन् ॥ ( ३ ) ॥*॥ त्रीणि 'क्षीरिकायाः ' 'खिरणी' इति अथ द्वयोः ॥ ४५ ॥ ख्यातस्य ॥ इङ्गुदी तापसतरुः । अथेति ॥ इङ्गनम् । 'इगि गतौ ' ( भ्वा० प० से० ) । घञ् ( ३।३।१८ )। इङ्गं द्यति 'दो अवखण्डने ' ( दी ० प० अ० ) 'आतोऽनुप-' ( ३।२।३ ) इति कः । पृषोदरादिः ( ६ | ३ |१०९)। ‘जातेः’ (४।१।५३) इति ङीष् ॥ (१) ॥*॥ तपखिन उपयुक्तस्तरुः ॥ (२) ॥* ॥ द्वे 'इङ्गुद्याः' 'इङ्गुआ' इति ख्यातस्य । 'जिया पूता' इति ख्यातस्य - इति मुकुटः ॥ भूर्जे चर्मिमृदुत्व | स्विति ॥ ऊर्जनमूर्जः । 'ऊर्ज बलप्राणनयो:' ( चु० प० से०) घञ् (३।३।११८) । भूरुर्जोऽस्य ॥ (१) ॥॥ प्रशस्तं चर्मास्यास्ति । व्रीह्यादित्वात् (५।२1११६ ) इनिः । ' चर्मी फलकपाणौ स्याद्भूर्जे भृङ्गिरिटावपि ॥ ( २ ) ॥*॥ मृदुस्त्वगस्य ॥ (३) ॥*॥ त्रीणि 'भोजपत्रवृक्षस्य ' ॥ पिच्छिला पूरणी मोचा स्थिरायुः शाल्मलिर्द्वयोः ४६ [ द्वितीयं काण्डम् 'टिड्डा - ' (४/१/१५ ) इति ङीप् । यत्तु मुकुटः - ' : - ' ( ८/२/७६ ) इत्यादिना दीर्घः - इत्याह । तन्न । हल्पदान्तयोरभावात् । धातोर्दीर्घोपधत्वाच्च । 'पूरणः पूरके त्रिषु । क्लीबं पिष्टप्रभेदे च पूरणी शाल्मलिद्रुमे । (पटारम्भकसूत्रेषु)' ॥ ( २ ) ॥*॥ मुञ्चति रसम् । 'मुच्ऌ मोक्षणे' ( तु० उ० अ० ) । पचाद्यच् ( ३।१।१३४ ) । ' मोचः शोभाञ्जने पुंसि मोचा शाल्मलिरम्भयोः ' ॥ ( ३ ) ॥*॥ स्थिरमायुर्यस्याः । षष्टिं वर्षसहस्राणि वने जीवति शाल्मलिः' इति वचनात् ॥ (४) ॥*॥ शालयति । 'शल संचलने' (भ्वा० आ० से०) णिजन्तः । क्विप् (३।२।१७८ ) । मलते । 'मल धारणे' ( भ्वा० आ० से० ) । 'सर्वधातुभ्य इन्' ( उ० ४।११८) । शालू चासौ मलिश्व ॥ ( ५ ) ॥३॥ पञ्च 'शाल्मल्याः' 'सेंबर' इति ख्यातस्य ॥ पीति ॥ पिच्छा शाल्मलिनिर्यासोऽस्या अस्ति । पिच्छा दित्वात् (५।२।१००) इलच् ॥ (१) ॥*॥ पूरयति । 'पूरी आप्यायने' ( चु० उ० से० ) । ल्युट् ( ३|३|११४) । पिच्छा तु शाल्मलीवेष्टे पीति ॥ पतितुमिच्छति । 'पत्लृ गतौ' ( भ्वा० प० से ० ) सन्नन्तः । पचाद्यच् (३।१।१३४ ) । पृषोदरादिः ( ६ | ३ |१०९ ) । यद्वा - पिच्छ (य) ति, पिच्छयते, वा । 'पिच्छ बाधे' (चु० प० से ० ) । अच् ( ३।१।१३४ ) । घञ् ( ३।३।१८ ) वा ॥ (१) ॥ * ॥ शाल्मल्या वेष्टः । ' क्वाथः कषायो निर्यूषो निर्यासो वेष्टकस्तथा' इति रभसः ॥ 'शाल्मलिक्वाथस्य' 'सेंवरीगोंद' इति ख्यातस्य ॥ रोचनः कूटशाल्मलिः । ॥*॥ द्वे रोचेति ॥ रोचते । 'रुच दीप्तौ ' ( भ्वा० आ० से० ) । 'अनुदात्तेतश्च -' ( ३।२।१४९ ) इति युच् । रोचना रक्त कहारे गोपित्तवरयोषितोः । रोचनः कूटशाल्मल्यां पुंसि स्याद्रोचके त्रिषु' ॥ (१) ॥*॥ कूटश्चासौ शाल्मलिश्व ॥ (२) ॥*॥ द्वे 'कृष्णशाल्मलेः' । 'कुत्सितशाल्मलेः' इत्येके॥ चिरविल्वो नक्तमालः करजश्च करञ्जके ॥ ४७ ॥ चिरेति ॥ चिरं विलति । 'विल भेदने' (तु० प० से० ) बाहुलकाद्वः ॥*॥ ' चिरिबिल्वः' इत्यन्ये ॥ (१) ॥*॥ नक्तं मालो धारणमस्य । नक्तमा अलति वा । 'अल भूष णादौ' ( भ्वा० प० से० ) । पचाद्यच् ( ३।१।१३४ ) ॥*॥ 'रक्तमालः' इति स्वामी ॥ ( २ ) ॥ ॥ करेण जन्यते । 'अन्यत्रापि - ' ( ३।२।१०१ ) इति ङः । कं सुखं जलं वा रञ्जयति । 'कर्मण्यण्' ( ३।२।१ ) - 'सजरज -' ( ३।२।१४२ ) इति निर्देशादक्कित्यपि नलोपः । संज्ञापूर्वकत्वान्न वृद्धिः । — णिलोपस्य स्थानिवत्त्वान्नोपधावृद्धिः - इति मुकुटः । तन्न । एवमपि णिनिमित्त वृद्धेर्दुर्वारत्वात् । 'करजं स्या अनखयोः पुमान् ॥ (३) ॥*॥ कं रञ्जयति । 'कर्मण्यण्' ( ३।२1१ ) | ( ( ज्ञापकसिद्धं न सर्वत्र' इत्युक्तेर्नलोपाभावः ) । स्वार्थे कन् (५।३।७५) ॥ (४) ॥* ॥ चत्वारि 'करञ्जवृक्षस्य ' ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy