SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ वनौषधिवर्गः ४ ] । इति खामी चिन्त्यः ॥ (१) ॥*॥ बदति । 'बद स्थैर्ये' ( वा० प० से० ) । ' दिवि भ्रमि - ' ( उ० ३।११७ ) इत्यमरः । गौरादिङीष् (४।१।४१)। यत्तु — 'द्वयोः' इत्युक्तेः कर्कन्धूबंदरश्च—इति मुकुटः । तन्न । 'बदरी कोले, क्लीबं तु तत्फले' इति मेदिनीविरोधात् ॥ ( २ ) ॥ ॥ कोलति घनीभवति । ‘कुल संस्त्याने' (भ्षा॰ प० से० ) । अच् ( ३।१।१३४) गौरादिङीप् ( ४।१।४१ )। मुकुटस्तु - इन् ( उ० ४।११८ ) प्रत्यये वा ङीप् ( ग० ४।१।४५ ) - इत्याह । तन्न । कोल्याः फले अण् (४।३।१३४) लुको: ( ४।३।१६४ ) ङीषो लुकि (१।२।४९) च 'कोलि' इति रूपापत्तेः । ( 'कोलम्' इति रूपा - नुपपत्तेः) ॥*॥ इनि (उ० ४।११८) (कोलिः) हखान्तोऽपि # (३) ॥ कौवलति । 'वल प्राणने' ( स्वा० प० से० ) 1 अच् ( ३।१।१३४ ) । कुवलीशब्दोऽप्यत्र ॥*॥ त्रीणि 'दर्याः ' ॥ व्याख्यासुधाख्यव्याख्यासमेतः । कोलं कुवलफेनिले ॥ ३६ ॥ सौवीरं बदरं घोण्टापि कोलमिति ॥ कोलीकुवलीबदरीणां फलेऽण् ( ४१३३१३४) लकौ (४।३।१६४) । 'लुक् तद्धितलुकि ' (१।२।४९ ) इति ङीषो लुक्। ‘कोलं कोलिफले क्लीबं पिप्पलीचव्ययोः स्त्रियाम्' ॥ (१) ॥*॥ (‘कुवलं चोत्पले मुक्ताफलेऽपि बदरी - फले' ) ॥ ( २ ) ॥*॥ फेनोऽस्यास्ति । 'फेनादिलच' (५|२९९) ॥ (३) ॥॥ सुवीरदेशे भवम् । 'तत्र भवः' ( ४१३३५३.) इत्यण् । स्रोतोऽञ्जने तु सौवीरं बदरे काञ्जिकेऽपि च' इति दन्त्यादौ रभसः ॥ (४) ॥*॥ ( ५ ) ॥*॥ घोणते । 'घुण भ्रमणे' (भ्वा० आ० से०) बाहुलकाः । 'घोण्टा तु बदरीपूगवृक्षयोरपि योषिति' ( इति मेदिनी ) । 'बदरी सदृशाकारो वृक्षः सूक्ष्मफलो भवेत् । अटव्यामेव सा घोण्टा गोपघण्टेति चोच्यते' ॥ ( ६ ) ॥ ॥ षट् 'कर्केधूफलस्य' । स्वामी तु — आद्यास्त्रयो वृक्षार्थाः । अन्ये फलार्थाः । घोण्टा तूभयार्था—इत्याह । खामी तु घोण्टाकोले व्यत्यासेन पठति ॥ अथ स्यात्स्वादुकण्टकः । विकङ्कतः वावृक्षो ग्रन्थिलो व्याघ्रपादपि ॥ ३७ ॥ अथेति ॥ कण्टकस्यास्ति । अर्शआद्यच् ( ५।२।१२७ ) खादुश्चासौ कण्टकश्च ॥ (१) ॥*॥ विकङ्कते । 'ककिर्गत्यर्थ:' ( भ्वा० आ० से ० ) । अतच् प्रत्ययः ॥ ( २ ) ॥ ॥ सुवाया वृक्षः । 'स्स्रुवा द्वयोर्होपात्रे सल्लकीमूर्वयोः स्त्रियाम् ॥ (३) ॥*॥ ग्रन्थिरस्यास्ति सिध्मादित्वाल्लच् (५/२/९७ ) ॥ (४) * व्याघ्रस्य पादा इव पादा मूलान्यस्य । ' पादस्य लोपः - ' ( ५|४|१३८ ) इत्यकारलोपः ॥ ( ५ ) ॥ ॥ पञ्च 'विकङ्क - तस्य' 'कठेर' इति ख्यातस्य ॥ १४१ ऐरावतो नागरङ्गः ऐरेति ॥ इरावत्या विद्युत इवायम् । 'तस्येदम्' ( ४१३११२० ) इत्यण् । 'ऐरावतोऽभ्रमात नारङ्गे लकुटद्रुमे । नागभेदे च पुंसि स्याद्विद्युत्तद्भेदयोः स्त्रियाम् । नपुंसके महेन्द्रस्य ऋजुदीर्घशरासने' ॥ (१) ॥ ॥ नागा रजन्त्यत्र । 'रज रागे' ( वा० उ० अ० ) । 'हलच' (३।३।१२१ ) इति घञ् । नागस्य सिन्दूरस्येव रङ्गोऽस्य, इति वा ॥॥ ‘नागरङ्गे तु नारङ्गो नार्यस्तवासनः' इति वाचस्पतिः । ‘नारङ्गः पिप्पलीरसे । यमजप्राणिनि विटे नागरङ्गमेऽपि च ' ॥ (२) ॥*॥ द्वे 'नारङ्गी' इति ख्यातस्य ॥ नादेयी भूमिजम्बुका । नेति ॥ गद्यां भवा । ' नद्यादिभ्यो ढक्' ( ४/२/९७ ) । 'नादेयी नागरङ्गे स्याज्जयायां जलवेतसे । भूमिजम्ब्वां जपायां च काङ्गुष्ठे च समीक्ष्यते' इति विश्वः ॥ (१) ॥* ॥ भूमेर्जम्बू : ह्रस्वत्वात्स्वार्थे कन् ( ५।३।८६ ) ॥ (२) ॥*॥ द्वे 'नारङ्गस्य', चत्वारि 'नारङ्गस्य' इत्यन्ये ॥ तिन्दुकः स्फूर्जकः कालस्कन्धञ्च शितिसारके ३८ तीति ॥ वियति । 'तिम आर्द्रत्वे' ( दि० प० से० ) । मृगय्वादिः ( उ० १।३७ ) 'संज्ञायां कन्' (५।३।७५) ॥ (१) ॥*॥ स्फूर्जति । 'टुओ स्फूर्जा वज्रनिर्घोषे' (भ्वा० प० से० ) । वुल् ( ३|१|१३३ ) ॥ ( २ ) ॥*॥ कालः स्कन्धो यस्य । 'कालस्कन्धस्तमाले स्यात्तिन्दुके जीवकद्रुमे' इति विश्वः ॥ (३) ॥ ॥ शिति कालः सारो मज्जा यस्य ॥ (४) ॥*॥ चत्वारि 'तिन्दुकस्य' 'तेहुँ' इति ख्यातस्य ॥ काकेन्दुः कुलकः काकपीलुकः काकतिन्दुके । केति ॥ काकानां काकवर्णो वा तिन्दुः ॥ (४) ॥*॥ पृषोदरादिः ( ६।३।१०९ ) ॥ (१) ॥ ॥ कुलस्य गृहस्य प्रतिकृतिरिव । 'इवे प्रतिकृती' ( ५।३।९६ ) इति कन् । 'कुलकं तु पटोले स्यात्संवेद्धश्वोकसंहतौ । पुंसि वल्मीकका केन्दुकुलश्रेष्ठेषु कथ्यते' इति विश्वमेदिन्यौ ॥ ( २ ) ॥*॥ काकैः पील्यते । 'पील प्रतिष्टम्भे' (भ्वा० प० से० ) । बाहुलकादुः । 'काकानां पीलुरिव' इति वा ॥ (३) ॥*॥ चत्वारि 'कटुतिन्दुकस्य', 'कुचिला' इति ख्यातस्य इत्यन्ये ॥ १ - नृणाति । बाहुलकादङ्गच् । गकारान्तोऽयम् । 'भवद्वैरिवधूवदने वने च नारङ्गतरूपशोभे भान्ति गण्डशैलस्थलालंकारधारिण्यो लोभलताः' इति दमयन्तीषात् ॥ २ – उक्तं च समन्वयप्रदीपे – 'यत्र वाक्यार्थविश्रान्तिः लोकेनैकेन जायते । तन्मुक्तकं युगं द्वाभ्यां त्रिभिः स्यात्तिलकं पुनः । चतुर्भिः स्याच्चक्कलकं पञ्चभिः कुलकं ततः । महाकुलकमित्यार्याः कथयन्ति ततः परम् ॥' इति । तिलकपर्यायान्तरं वैशेषिकम् ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy