SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ [ द्वितीयं काण्डम् 'कमलिन्यां च वैनतेयस्य मातरि' ) ॥ ( ८ ) ॥*॥ अष्ट 'सोनालु धनवहेढ' इति ख्यातस्य ॥ स्युर्जम्बीरे दन्तशठजम्भजम्भीरजम्भलाः ॥ २४ ॥ स्युरिति ॥ जयते । ' जमु अदने ' ( भ्वा० प० से०)। 'गम्भीरादयश्च' ( उ० ४।३५ ) इति साधुः । ' जम्बीर: प्रस्थपुष्पे स्यात्तथा दन्तशठद्रुमे ॥ (१) ॥ ॥ दन्तानां शठ इव । (स्याद्दन्तशठो जम्बीरे कपित्थे कर्मरङ्गके । नागरङ्गेऽपि च पुमान् स्याच्चार्यां तु योषिति' ) ॥ (२) ॥३॥ जम्भयत्यम्लत्वात् । 'जभी गात्रविनामे' (भ्वा० आ० से० ) । पचाद्यच् (३।१।१३४)। 'रधिजभो - ' ( ७।१।६१ ) इति नुम् । 'जम्भः स्याद्दानवान्तरे । दन्तभोजनयोरंसे हनौ जम्बीरतूनयोः ' ॥ (३) ॥ ॥ गम्भीरादित्वात् ( उ० ४।३५ ) इरन् ॥ (४) ॥*॥ वृषादित्वात् ( उ० १।१०६ ) कलच् । ( 'जम्भल: पुंसि जम्बीरे बुद्धदेवान्तरेऽपि च ' ) ॥ ( ५ ) ॥॥ पथ 'जम्बीरस्य', 'जम्भेरी' इति ख्यातस्य ॥ वरणे वरुणः सेतुस्तिक्तशाकः कुमारकः । आरगिति ॥ आ रगणम् । 'रगे शङ्कायाम्' (भ्वा० प० से० ) । संपदादिः ( वा० ३ | ३ | १०८ ) । आरगं रोगशङ्कामपि हन्ति । ‘कर्मण्यण्’ (३।२।१) । ' बहुलं तणि' ( वा० २|४|५४) इति हन्तेर्वधोऽदन्तः । ‘व्यलोपौ ' ( वा० ६।४।४८) इत्यलोपः । 'रञ्ज रागे' ( भ्वा०, दि० उ० अ० ) । संपदादिः ( वा० ३1३।१०८) आरजं रोगरागमपि हन्ति । यत्तु मुकुटः - आ समन्तात् रुजं वधति छिनत्ति । 'वध छेदनसेवनपूरणेषु' । पृषोदरादिः ( ६।३।१०९ ) - इत्याह । तन्न । उक्त धातोः पाणिनीये कुत्राप्यदर्शनात् । यत्तु –वधिः प्रकृत्यन्तरम् — इति ‘जनिवध्योश्च ' ( ७।३।३५) इति सूत्रेऽपि वृत्तिः । तन्न । मुनित्रयविरोधात् इति प्रपञ्चितं मनोरमामण्डने । यदपि खामिनोक्तम् — आ समन्ताद् रुजां वधोऽत्र — इति । तदपि न । व्यधिकरणबहुव्रीहित्व - पृषोदरादि ( ६।३।१०९ )त्वकल्पनप्रसङ्गात् ॥*॥ त्र्यच्कोऽपि ह्रस्वादिरपि । 'आरग्वधो ऽथ संपाकः कृतमालस्तथार्श्वधः' इति रत्नकोषात् ॥ (१) ॥* ॥ राजा चासौ वृक्षश्च । वृक्षाणां राजा । राजदन्तादिः (२।२।३१ ) इति वा । रोगाणां राजानं वृश्चति, इति वा । ‘ओव्रश्चू छेदने' (तु० प० से०) । बाहुलकात् सकू ॥ ( २ ) ॥॥ सम्यक् पाकोऽस्य । दन्त्यादिः । ' संपाकस्तर्कके, पृष्ठे त्रिषु ना चतुरङ्गुले' ॥*॥ शं कल्याणं पाकोऽस्य, इति (शंपाकः) तालव्यादिरपि ॥*॥ स्वामी तु — शमीं शिविम् अकति, इति विगृह्णन् ‘शम्याकः’ इति पाठं मन्यते ॥ (३) ॥ ॥ चतस्रोऽङ्गुलयः प्रमाणमस्य पर्वणः । तद्योगाद् वृक्षोऽपि ॥ (४) ॥ ॥ आरेवयति निःसारयति मलं सारकत्वात् । 'रेब्रु, प्लव, गतौ' (भ्वा० आ० से०) । णिच् (३।१।२६) । विच् (३।२।७५) । अति 1 'अत सातत्यगमने' ( भ्वा० प० से० ) । पचाद्यच् (३।१।१३४) आरेव् चासावतश्च ॥ ( ५ ) ॥ ॥ व्याधीन् हन्ति । 'कर्मण्यण् ' ( ३।२।१) 'हनस्तोऽचिण्णलोः ' (७।३।३२) ॥ (६) ॥*॥ कृता मालाऽस्य पुष्पैः ॥ ( ७ ) ॥* ॥ शोभनो वर्णोऽस्य ॥॥ सुष्ठु पर्णान्यस्य, इति वा पाठः । ('सुपर्णः खर्णचूडे च गरुडे कृतमालके । सुपर्णा वरेति ॥ वृणोति । 'वृञ् वरणे' ( वा० उ० से ० ) । कर्तरि ल्युट् ( ३।३।११३) | कर्तरि ल्युट् ( ३।३।११३ ) ( ३।३।११७) वा ॥ (१) ॥*॥ ‘कृवृदारिभ्य उनन् ' ( उ० ३।५३ ) । 'वरुणस्तरुभेदेऽप्सु प्रतीचीपति सूर्ययोः ॥ ( २ ) ॥*॥ सिनोति, सीयते वा । 'षिञ् बन्धने' ( वा० उ० अ० ) । 'सितनि-' (उ० १।६९) इति तुन् । 'सेतुर्नालौ कुमारके' ॥ (३) ॥*॥ तिक्तः शाकोऽस्य । शाकत्वं चास्य पत्राणां शाकमध्ये पाठात् । ' तिक्तशाकस्तु खदिरे वरुणे पत्र सुन्दरे ' ॥ (४) ॥ ॥ कुमारश्चिरतरुणत्वात् । कुमारयति । 'कुमार क्रीडायाम्' ( चु० उ० से० ) । पचाद्यच् ( ३|१|१३४ ) । कुमार इव 'इवे प्रतिकृतौ ' ( ५। ३ ।९६ ) इति कन् ॥ ( ५ ) ॥ ॥ पच 'वरणस्य' ॥ पुंनागे पुरुषस्तुङ्ग केसरो देववल्लभः ॥ २५ ॥ नेति ॥ पुमान् नाग इव । ' उपमितं व्याघ्रा - ' (श १।५६ ) इति समासः । पुंनागो नृश्रेष्ठः । प्राधान्यात्स इव । 'पुंनागस्तु सितोत्पले । जातीफले नरश्रेष्ठे पाण्डुनागेमान्तरे ॥ ( २ ) ॥*॥ पुरति । 'पुर अग्रगमने' (तु० प० से० ) । 'पुरः कुषन्' ( उ० ४।७४ ) । यत्तु - 'पिपर्ति' इति पुरः कुषन्' इत्युपन्यस्तं मुकुटेन । तद्रभसात् । 'पुरुषस्त्वात्मनि नरे पुंनागे च ' ॥ ( २ ) ॥ ॥ तुयते । 'तुजि हिंसायाम् ' ( भ्वा० प० से, चु० उ० ) । घञ् ( ३।३।१८ ) । न्यङ्कादिः (७/३/५३ ) | उच्चत्वाद्वा । 'तुङ्गः पुंनागनगयो र्बुधे स्यादुन्नतेऽन्यवत् । तुङ्गी प्रोक्ता हरिद्रायां वर्वरायामपीष्यते' इति हैमः ॥ (३) ॥*॥ प्रशस्ताः केसरा अस्य । अर्शआयच् (५।२।१२७ ) । 'केसरो नागकेसरे । तुरंगसिंहयोः ' | १३६ अमरकोषः । सप्तपर्णे विशालत्वकू शारदो विषमच्छदः । सप्तेति ॥ काण्डे काण्डे सप्त पर्णान्यस्य ॥ (१) ॥*॥ विशाला त्वगस्य ॥ (२) ॥*॥ शरदि पुष्यति । 'कालात्साधुपुष्प्यत् -' ( ४।३।४३ ) इत्यण् ॥*॥ शारदी यन्ताऽपि । 'शारदी तोयपिप्पल्यां सप्तपर्णे च शारदी' इति दन्त्यान्तेषु रुद्रः । ('शारदोऽब्दे, स्त्रियां तोयपिप्पलीसप्तपर्णयोः । सस्ये क्लीबं, शरजातनूतनाप्रतिभे त्रिषु' इति मेदिनी ॥ ( ३ ) ॥ ॥ विषमाश्छदा यस्य ॥ (४) ॥ ॥ चत्वारि 'सप्तपर्णस्य', 'छतवती' इति ख्यातस्य ॥ आरग्वधे राजवृक्षसंपाकचतुरङ्गुलाः ॥ २३॥ आरेवतव्याधिघातकृतमालसुवर्णकाः ।
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy