________________
१२४
अमरकोषः ।
७६) इति क्विप्॥(३)॥*॥ हियते । 'हृञ् हरणे' ( वा० उ० अ०) । 'ऋहलोर्ण्यत्' (३।१।१२४) । न हार्यः । ' अहार्यो हर्तु - मशक्ये शैलेऽपि' इति हैमः ॥ (४) ॥ ॥ धरति । 'धृञ् धारणे' (भ्वा० उ० अ० ) । पचाद्यच् ( ३।१।१३५) । 'धरः कूर्माधिपे गिरौ । कार्पासतूलेऽथ धरा मेदोभूमिजरायुषु' इति हैमः ॥ (५) ॥*॥ पर्वाणि सन्त्यत्र। 'तपू पर्वमरुद्भ्यां ' ( वा०५।२।१२२) यद्वा, - पर्वति । 'पर्व पूरणे' ( भ्वा० प० से० ) । 'भृमृदृशि -' ( उ० ३।११० ) इत्यतच् । ( ' पर्वतः पादपे पुंसि शाकमत्स्यप्रभेदयोः । देवमुन्यन्तरे शैले ' ॥ ( ६ ) ॥*॥ अत्ति, अद्यते, वा 'अद भक्षणे' (अ० प० अ० ) 'अदिशदिभूशुभिभ्यः क्रिन्' (उ० ४।६५ ) । 'अद्रिस्तु पर्वते । सूर्ये शाखि नि च' इति हैमः ॥ (७) ॥*॥ गां त्रायते । 'त्रैङ् पालने' ( भ्वा० आ० अ० ) । 'आत: - ' ( ३|२| ३ ) इति कः । 'गोत्रं क्षेत्रेऽन्वये छत्रे संभाव्ये बोधवर्त्मनोः । वने नाम्नि च गोत्रोऽद्रौ, गोत्रा भुवि गवां गणे' इति हैमः ॥ ( ८ ) ॥*॥ गिरति 'गृ निगरणे' ( तु० प० से० ) । बाहुलकात्किः । 'ऋत इद्धातोः’( ७।१।१००)। 'गिरिः पूज्येऽक्षिरुजि कन्दुके । शैले गैरेयके गीर्णावपि’ इति हैमः ॥ (९) ॥*॥ ग्रसते । 'ग्रसु अदने ' ( भ्वा० आ० से० ) 'अन्येभ्योऽपि - ' ( ३1२1७५) इति वनिप् । पृषोदरादिः ( ६।३।१०९ ) ॥ (१०)॥*॥
चलति । 'चल कम्पने' ( भ्वा० प० से० ) । पचाद्यच् (३।१।१३५)। 'अचलस्तु गिरिकीलयोः । अचला भुवि' इति हैमः ॥ (११) ॥*॥ प्रचुराः शिलाः सन्त्यत्र । ज्योत्स्ना - दित्वादण् ( वा० ५।२।१०३) ॥ 'शैलो भूभृति शैलं तु शैलेये तार्क्ष्यशैलके' इति हैमः ॥ ( १२ ) ॥*॥ शिलाभिरुच्चीयते । ‘चिञ् चयने' (स्वा० उ० अ० ) । 'एरच्' ( ३३।५६ ) ॥ (१३) ॥*॥ त्रयोदश 'पर्वतसामान्यस्य' ॥ starataश्चक्रवाल:
लोकेति ॥ ‘लोकॄ दर्शने’ ( वा० आ० से० ) । भावे घञ् (३।३।१३) । न लोकः । लोकालोकौ प्रकाशान्धकारावत्र स्तः । अन्तर्बहिः सूर्यकिरणानां स्पर्शास्पर्शाभ्याम् ॥ (१) ॥*॥ चक्रं भूमण्डलं वलते । 'वल वेष्टने' (भ्वा० आ० से ० ) । ‘कर्मण्यण्’ (३।२।१) । डलयोरेकत्वस्मरणात् 'चक्रवाडः' अपि । यद्वा, - चक्राकारेण वाडते । 'वाड़ आप्लाव्ये' (भ्वा० आ० से० ) पचाद्यच् ( ३।१।१३५ ) । 'चक्रवालमस्यास्ति' इति वा । अर्शआद्यच् (५/२/१२७) । 'चक्रवालोऽद्रिभेदे स्याच्चक्रवालं तु मण्डले' इति हैमः ॥ ( २ ) ॥*॥ द्वे 'सप्तद्वीपवत्या भूमेः' ॥
त्रिकूटस्त्रिककुत्समौ । त्रिकूट इति ॥ त्रीणि कूटान्यस्य । 'त्रिकूटं सिन्धुलवणे त्रिकूटः पर्वतान्तरे' इति है मैः ॥ (१) ॥*॥ त्रीणि ककुद
[ द्वितीयं काण्डम्
सदृशानि शृङ्गाण्यस्य । 'त्रिककुतू पर्वते' ( ५।४।१४७ ) ॥ (२ ) ॥*॥ द्वे 'लङ्काधिष्ठानपर्वतस्य' ॥
१- मे तु 'त्रिकूटस्तु सुवेलके' इति पाठो दृश्यते । उक्तपाठस्तु मेदिन्यां दृश्यते ॥
अस्तस्तु चरमक्ष्माभृत्
अस्त इति ॥ असति स्म । 'अस दीप्तौ' ( भ्वा० उ० से० ) ' गत्यर्था - ' (३।४।७२ ) इति क्तः । यद्वा - अस्यते स्म । 'असु क्षेपणे' (दि० प० से० ) । क्तः (३।४।७२ ) । 'अस्तं क्षिप्तेऽप्यवसिते त्रिषु, ना पश्चिमाचले' इति विश्व मेदिन्यौ ॥ (१) ॥*॥ चरन्त्यत्र । 'चर गतौ' ( भ्वा० प० से०) 'चरेरमः' (उ० ५/६९ ) ॥ ( २ ) ॥*॥ 'पश्चिमपर्वतस्य' द्वे ॥ उदयः पूर्वपर्वतः ॥ २ ॥
उदय इति ॥
उयन्ति ग्रहा अस्मात् । ' इण् गतौ' (अ० प० अ० ) 'एरच्' ( ३।३।५६ ) 'उदयः पर्वतोन्नत्योः ' इति है ॥ (१) ॥*॥ पूर्वः पर्वतः ॥ ( २ ) ॥*॥ द्वे 'उदयाचलस्य' ॥
हिमवान्निषधो विन्ध्यो माल्यवान्पारियात्रकः । गन्धमादनमन्ये च हेमकूटादयो नगाः ॥ ३ ॥
हिमेति ॥ हिममस्मिन्नस्ति । मतुप् (५/२/९५ ) ॥ (१) ॥*॥ निषीदति । पचाद्यच् ( ३।१।१३४) । पृषोदरादिः (६/३।१०९) । 'निषधः कठिने देशे तद्राजे पर्वतान्तरे' इति विश्व मेदिन्यौ ॥ (१) ॥*॥ विरुद्धं ध्यायति । 'ध्यै चिन्तायाम्' ( स्वा० प० अ० ) । ' आतश्चोपसर्गे' ( ३।१।१३६ ) इति कः । पृषोदरादिः । ( ६ | ३|१०९ ) यद्वा - वि इध्यते । 'ञिइन्धी दीप्तौ' (रु० आ० से० ) । ण्यत् ( ३।१।१२४ ) अन्तर्भावितण्यर्थः । शकन्ध्वादिः ( ६।१।९४ ) । वीन्धे वा । अघ्न्यादिः (उ० ४।१२२) । ' विन्ध्या स्त्रियां लवल्यां स्यात्पुंसि व्याधाद्रिभेदयोः ' ॥ (१) ॥*॥ माल्याकारताऽस्यास्ति । मतुप् (५२॥९५) ॥ (१) ॥ * ॥ परितो यात्रया दृश्यते । 'शेषे' ( ४।२।९२ ) इत्यण् । स्वार्थे कन् ( ५/३।७५ ) ॥ (१) ॥*॥ गन्धेन मादयति । 'मदी हर्षे' ( दि० प० से० ) । णिजन्तः । नन्द्यादिः ( ३|१|१३४ ) । ' स्याद्गन्धमादनो भृङ्गे गन्धके वानरान्तरे । स्त्री सुरायां नगे न स्त्री' + चिरेजीवि द्विकाजयोः + ॥ (१) ॥*॥ हेनः कूटो राशिः ॥ ( १ ) ॥*॥ आदिशब्दान् मलय-दर्दुर- चित्रकूट- मैनाक- सह्यादि - संग्रहः ॥
पाषाणप्रस्तरग्रावोपलाश्मानः शिला दृषत् । पाषाणेति ॥ पिनष्टि । 'पिष्ठ संचूर्णने' (रु०प० अ० ) ।
१ - पारियात्रकोऽन्तस्थतृतीयः । तथा च 'मुङ्क्ते महीमत्र विधाय यात्रां ससयविन्ध्याचलपारियात्राम्' इत्यन्तयमके वराहः - इति मुकुटः ॥ २ - 'इदं तु न प्रकृतोपयोगि । चिरजीविककाकयोः' इति पाठः ॥