SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ अमरकोषः । [ द्वितीयं काण्डम् सदनानां राजा । राजदन्तादिः ( २ |२| ३१ ) ॥ ( २ ) ॥ ॥ प्रघाणप्रघणालिन्दा बहिर्द्वारप्रकोष्ठ के ॥ १२ ॥ द्वे 'राजगृहस्य' ॥ १२० उपकार्योपकारिका । उपेति ॥ उपक्रियते । कर्मणि 'ऋहलोर्ण्यत् ' ( ३।१११२४)। (‘उपकार्या राजसद्मन्युपकारोचितेऽन्यवत् ' ) ॥ (१) ॥*॥ उपकरोति ण्वुल् ( ३।३।१३३) । ( ' उपकारि कोपकर्त्यां पिष्टभेदे नृपालये' ) ॥*॥ 'उपकार्युपकारिका' इति द्विरूपको शदर्शनादुपकार्यपि । तत्र उपकारयति पचाद्यचि (३।१।१३४) गौरादि ( ४।१।४१ ) ङीष् । यन्तु — उप अधिकं करोतीति विगृह्य 'कर्मण्यण' ( ३।२1१ ) इत्युक्तं मुकुवेद । तन्न । निपातानामसत्त्वार्थकत्वेन कारकत्वायोगात् ॥ (२) ॥ ॥ द्वे 'राजगृहसामान्यस्य' ॥ स्वस्तिकः सर्वतोभद्रो नन्द्यावर्तादयोऽपि च ॥ १० ॥ विच्छन्दकः प्रभेदा हि भवन्तीश्वरसद्मनाम् । ॥ 'कै शब्दे' इति कः । (१) ॥*॥ आवर्तोऽत्र । स्वस्तिक इत्यादि ॥ स्वस्ति क्षेमं कायति । ( वा० प० अ० ) 'आतोऽनुप - ' ( ३।२१३ ) 'स्वस्तिको मङ्गलद्रव्ये चतुष्क - गृहभेदयोः ' ) सर्वतोभद्रमत्र ॥ (१) ॥ *॥ नन्दयतीति नन्दी ( 'नन्द्यावर्तः पुमान्वेश्मप्रभेदे भगवद्दुमे ' ) ॥ (१) ॥*॥ ॥१०॥ विशिष्टच्छन्दोऽत्र । यद्वा - विशिष्टाञ्छन्दयति साभिलाषान्करोति । ण्वुल् ( ३।१।१३३ ) कुन् ( उ० २।३२ ) वा ॥*॥ ‘विच्छर्दकः' इति पाठः - इति स्वामी । तत्र 'उच्छुदिर् दीप्तौ' (रु० उ० से० ) । ण्वुल् ( ३।१।१३३ ) ॥ (१) ॥*॥ आदिना रुचक–वर्धमानादिपरिग्रहः ॥ 'ईश्वरगृहविशेषाणां' पृथगेकैकम् ॥ रूयगारं भूभुजामन्तःपुरं स्यादवरोधनम् ॥ ११ ॥ शुद्धान्तश्चावरोधश्च रूयेति ॥ स्त्रीणामगारम् । अन्तरभ्यन्तरे पुरं गृहम् ॥ (१) ॥*॥ अवरुध्यन्तेऽत्र ल्युट् ( ३।३।११७ ) ॥ (२) ॥*॥ घञि ( ३।३।१४ ) त्ववरोधः । ( 'अवरोधस्तिरोधाने राजदारेषु तद्गृहे') ॥ (४) ॥*॥ शुद्धा उपधाशुद्धा रक्षका अन्ते समीपेऽस्य ॥ (३) ॥*॥ चत्वारि 'राज्ञां स्त्रीगृहस्य' ॥ स्यादट्टः क्षोममस्त्रियाम् । स्यादिति ॥ अध्यते । 'अट्ट अतिक्रमणे' ( भ्वा० आ० से० ) । कर्मणि घञ् ( ३।३।१४ ) । अव्यति वा । अच् ( ३। ३।१३४) ॥ (१) ॥*॥ क्षुवन्त्यत्र । 'टुक्षु शब्दे' (अ० प० से० ) । ‘अर्तिस्तु' (उ० १।१३७ ) इति मः ॥* ॥ प्रज्ञायणि (५/४१३८) 'क्षौमः' अपि ॥ ( २ ) ॥* ॥ द्वे 'हर्म्याद्युपरि गृहस्य' ॥ १--असत्त्वार्धकानामपि कारकत्वं पचादयः क्रिया भवतिक्रियायाः कर्यो भवन्ति' इति 'भूवादि - ' (१|३|१) सूत्रस्थभा ष्यतो लभ्यते ॥ २- एतदग्रे युज्वेति पाठः । प्रघाणेति ॥ प्रहण्यते । ' अगारैकदेशे प्रघण: प्रघाणश्च' ( ३।३।७९ ) ॥ (१) ॥*॥ ' प्रघणोऽलिन्दके ताम्रकलशे लोहमुद्गरे' इति हैमः ॥ ( २ ) ॥ अल्यते भूष्यते । ‘अल भूषणादौ' (स्वा० प० से० ) बाहुलकात्किन्दच् ॥*॥ प्रज्ञायणि 'आलिन्दः' अपि । 'गृहैकदेशे आलिन्दः प्रघाणः प्रघणस्तथा' इत्यमरमाला । 'अलिन्दस्त्वल्पपिण्डिका' इति सुभूतिः ॥ (३) ॥॥ त्रीणि ' द्वारप्रकोष्ठाद्वहिर्द्वारावर्तिचतुष्कस्य' ॥ गृहावग्रहणी देहली गृहेति ॥ गृहमवगृह्यतेऽनया । ' ग्रह उपादाने' ( क्या० उ० से० ) । ‘करणा-’ ( ३।३।११७ ) इति ल्युट् ॥ (१) ॥॥ देहनम् 'दिह उपचये' (अ० उ० अ० ) भावे घञ् ( ३।३११३) देहं गोमयाद्युपलेपं लाति । 'ला दाने' (अ० प० अ० ) । 'आतोऽनुप-' ( ३।२।३) इति कः । गौरादिः ( ४|१|४१ ) ( २ ) ॥*॥ द्वे 'उदुम्बरस्य' ॥ अङ्गनं चत्वराजिरे । ' अङ्गन मिति ॥ अङ्गत्यत्र । 'अगि गतौ' (भ्वा० प० से ० ) । करणा- ' ( ३।३।११७ ) इति ल्युट् । 'अङ्गनं प्राङ्गणे याने कामिन्यामङ्गना मता' इति नान्तवर्गे विश्वः । 'अङ्गणम्' इति पाठे तु पृषोदरादिः ( ६।३।१०९ ) ॥ (१) ॥#॥ चत्यते । 'चते याचने' (भ्वा० उ० से० ) । ‘कृगृशृवृश्चतिभ्यः ष्वरच्’ उ० २।१२१ ) । ' चत्वरं स्यात्पथां श्लेषे स्थण्डिलाङ्गनयो ( १ - अलिन्दो हस्वादिः 'यस्यामलिन्देषु न चक्रुरेव' इति माघः - इत्यपि मुकुटः ॥ २ - एतदग्रे 'युचि तु गौरादित्वम्, इति पाठः ॥ ३- यत्तु मालतीमाधवव्याख्यायां जगद्धुरः 'अङ्गणशब्दे विधायकाभावाण्णत्वश्रुतिरयुक्ता । पृषोदरादित्वाण्णत्वमित्यपि वचोऽमूलकमेव ' इति । यदपि मुरारिव्याख्यायां रुचिपतिः अङ्गनशब्दो णकारान्त इति केचित्पठन्ति । तदप्रामाणिकम् । न च पृषोदरादिपाठेन णत्वमिति वाच्यम् । पृषोदरादिपाठे प्रमाणाभा वात् । तथाविधानुप्रासयमकादेरदर्शनाच्च' इति तदुभयमपि मन्दम् । 'कानि पृषोदरादीनि, पृषोदरप्रकाराणि । कानि वृषोदरप्रकाराणि, नीति । किमादिशब्दः प्रकारे, अथ व्यवस्थायाम्, इति संदेहायेषु लोपागमवर्णविकाराः श्रूयन्ते, न चोच्यन्ते' इति भाष्यतः 'का त्प्रश्नः । पृषोदरप्रकाराणीति ॥ प्रकार आदिशब्दः, व्यवस्थार्थे ह्यादिशब्दे यथोपदिष्टग्रहणमनर्थकं स्यात्' इति कैयटतश्च श्रूयमाणाप्रा | सलोपागमवर्णविकारस्यैव पृषोदरादित्वस्य लाभात् । गणपाठस्याप्रामाणिकत्वात् प्रामाणिकत्वेऽपि तस्याकृतिगणत्वेनाङ्गणशब्दस्य पृषोदरादित्वे बाधकाभावात् ॥ न च शिष्टायुक्तत्वेनाप्रामाणिक तेति वाच्यम् । 'अध्यास्य सौरमेयं मौक्तिकरुचिरङ्गणेषु विहितमतिः' इति शृङ्गारवैराग्यार्थद्वयप्रतिपाद करसिकरञ्जन - काव्ये लेपस्य णान्तत्वमन्तरासंभवेन तस्यावश्यकत्वात् ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy