________________
व्याख्यासुधाख्यव्याख्यासमेतः ।
वारिवर्गः १० ]
किसलयकसरसभाः” इति सभेदात् ) ॥*॥ के शीर्यते । 'शू हिंसायाम्' (क्या० प० से ० ) । 'ऋदोरप' ( ३।३।५७) । तालव्यशः । 'केसरं हिङ्गुनि क्लीबं, किंजल्के न स्त्रियां, पुमान् । सिंहच्छटायां पुंनागे बकुले नागकेसरे' ॥ ( २ ) ॥*॥ द्वे 'पद्मकेसरस्य' ॥
संवर्तिका नवदलम्
।
समिति ॥ संवर्तते । 'वृतु वर्तने' (भ्वा० आ० से० ) । ‘हृपिषिरुहिवृतिविदिच्छदिकीर्तिभ्यश्च' ( उ० ४।११९) इतीन् ‘संवर्तिर्नवपत्रिका' इति बोपालितः । ततः स्वार्थे कन् (५१३॥७५) ॥ (१) ॥*॥ नवं च तद्दलं च ॥ ( २ ) ॥॥ द्वे 'पद्मादीनां नवपत्रस्य' ॥
1
वीजकोषो वराटकः ॥ ४३ ॥ वीजेति ॥ वीजस्य कोषः पात्रमाधारः । तालव्यान्तोऽपि ॥ (१) ॥* ॥ त्रियते दलैः । 'वृञ् आवरणे' ( 'अन्येभ्योऽपि -' ( ) इत्याटच् । ततः खार्थे कन् (५/३।७५) । यद्वा,—वरं दलवरणम् अटति । 'अट गतौ' (भ्वा० प० से० ) । 'कर्मण्यण्' ( ३।२।१ ) ततः स्वार्थे कन्
१०९
( ५।३।७५) । ' वराटकः पद्मबीजकोशे रज्जौ कपर्दके ॥ (२) ॥*॥ द्वे 'पद्मबीजस्य' ॥
इति वारिवर्गविवरणम् ॥
उक्तान्वर्गान् संगृह्णाति—
उक्तं स्वर्व्योमदिक्कालधीशब्दादिसनाट्यकम् । पातालभोगिनरकं वारि चैषां च संगतम् ॥ ४४ ॥ इत्यमरसिंहकृतौ नामलिङ्गानुशासने । स्वरादिकाण्डः प्रथमः साङ्ग एव समर्थितः ॥ ४५ ॥ उक्तमिति ॥ अत्रैकादश वर्गाः ॥
इति श्रीवघेलवंशोद्भवश्रीमहीधरविषयाधिपश्री कीर्तिसिंहदेवाज्ञया श्रीभट्टो जिदीक्षितात्मजश्रीभानुजीदीक्षितविरचितायाममरटीकायां व्याख्यासुधायां प्रथमकाण्डः संपूर्णतामगात् ।
१- आदिशब्देन पातालस्य ग्रहणम् इति मुकुटः ॥ अत्रायं भावः -
अस्मिन्काण्डे द्वावेव मुख्यवर्गौ- स्वर्ग: पातालश्च । तत्र नाट्यवर्गपर्यन्तं स्वर्गसाधारणपदार्थानां निरूपणात्स्वर्गवर्गत्वम् । तदुत्तरं पातालसंग - तार्थनिरूपणात्पातालवर्गत्वम् । अत एवाग्निपुराणे प्रथमकाण्डे एतानेव
१–'आन्दोलकुसुमकेशरशरेणमुखी' इति वासवदत्तायां तालव्य पदार्थानुक्त्वा उपसंहृतम् ' स्वर्गपातालवर्गाद्या उक्ताः' इति ॥ तत्राद्यमध्यदर्शनात् ॥ इति मुकुटः ॥
शब्देनावान्तर वर्गग्रहणम्-इत्यपि मुकुटे व्यक्तम् ॥