SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ १०४ अमरकोषः । (तु०प० अ० ) । 'विशिभ्यां झच्' ( उ० ३।१२६ ) | ( १ ) ॥॥ पलति पल्यते वा । 'पल गतौ ' ( भ्वा० प० से ० ) । ‘सानसिपर्णसि-’ (उ० ४।१०७ ) इति वलच् । 'वेशन्तः पल्वलोsस्त्री' इति वाचस्पतिः ॥ ( २ ) ॥॥ अल्पं च तत्सरश्च ॥ (३) ॥*॥ त्रीणि 'स्वल्पसरोवरस्य ' ॥ | वापी तु दीर्घिका ॥ २८ ॥ वापीति ॥ उप्यते पद्माद्यस्याम् । 'डुवप् बीजतन्तुसंताने' (भ्वा० उ० अ० ) । ' वसिवपियजिराजि - ' ( उ० ४१२५) इतीञ् । ‘कृदिकारात् - ' ( ग० ४|१|४५ ) इति वा ङीष् । 'वाप्यां वापिरपि स्मृता' इति द्विरूपकोषः ॥ ( १ ) ॥*॥ दीर्घेव । ‘संज्ञायां कन्नू' (५।३।७५) ॥ ( २ ) ॥*॥ द्वे 'वाप्याः ' ॥ खेयं तु परिखा खेयमिति ॥ खन्यते । 'खनु अवदारणे' ( भ्वा० उ० से० ) । ' ई च खनः' ( ३।१।१११ ) इति यत् ॥ (१) ॥*॥ परितः खन्यते, इति । ‘अन्येभ्योऽपि - ' ( वा० ३।२।१०१ ) इति ङः ॥ (२) ॥*॥ द्वे दुर्गादिपरितः खातस्य' ॥ आधारस्त्वम्भसां यत्र धारणम् । आधार इति ॥ आध्रियते जलमस्मिन् । 'अध्याय - न्याय - ' ( ३।३।१२२ ) इति घञ् । 'आधारश्चाधिकरणेsप्यालवालेऽम्बुधारणे' ॥ (१) ॥ ॥ एकं 'बांध' इति ख्यातस्य ॥ स्यादीलवालमावालमावापः स्यादिति ॥ आ समन्ताज्जलस्य लवम् आलाति । 'ला आदाने' (अ० प० अ० ) । मूलविभुजादित्वात् ( वा० ३।२।५) कः ॥*॥ लवमालाति । तद्भिन्नम् । नञ्समासे ( अंलवालः) हखादिः - इत्यन्ये ॥ (१) ॥*॥ आवलतेऽम्भोsनेन। 'वल संवरणे' (भ्वा० प० से० ) 'अलश्च' ( ३।३।१२१ ) इति घञ् । आ ईषत् वाला वृक्षा अत्र वा ॥ ( २ ) ॥ * ॥ आ वपन्ति जलमन्त्र । 'डुवप् बीजतन्तु संताने' (भ्वा० उ० से०) 'हलश्च' (३।३।१२१) इति घञ् । 'आवापो भाण्डपेंचने परिक्षेप|लवालयोः’॥ (३) ॥*॥ त्रीणि 'वृक्षमूलकृतजलाधारस्य' ॥ । [ प्रथमं काण्डम् अथ नदी सरित् ॥ २९ ॥ तरङ्गिणी शैवलिनी तटिनी ह्रदिनी धुनी । स्रोतस्वती द्वीपवती स्त्रवन्ती निम्नगापगा ॥ ३० ॥ _१ – 'इहैव जम्बूतरुमालबालवत्परीयुषो वेर्भरतेऽन्धिना वृते' इति प्रयोगाद्दीर्घादिः॥ २– 'अलवालरोधिषु पयःसु विभ्रतः सपलाशिरा शिरिव मूलसंततिः' इति माघाद्धस्वादिः - इति मुकुट - बुधमनोहरे ॥ ३- भाण्डप चनमापाकस्थानम् । तत्र यथा - 'आवापधूमपरिधूसरमन्तरिक्षम् ' ॥ अरिचिन्तायामपि यथा - 'परं प्रत्यावापः फलति कृतसेकस्तरुरिव' ॥ वलयेऽपि यथा - 'प्रकोष्ठः शुशुभे तस्या गतोऽप्या वापशून्यताम्'- इत्यनेकार्थकैरवाकर कौमुदी ॥ ४ - ' भाण्डवपने' इति पाठः ।। अथेति ॥ नदति । 'णद अव्यक्त शब्दे' ( भ्वा०प० से० ) । पचादिषु ( ३।१।१३४ ) ' नदद्र इति टित्त्वनिपातनात् 'टिड्डा - ' ( ४|१|१५ ) इति ङीष् । ( 'नदी सरिति, शोणादी ना' ) ॥ (१) ॥*॥ सरति । 'सृ गतौ' (भ्वा० प० से० ) । सरतेरिनिः ( उ० १।९७ ) ॥ ( २ ) ॥*॥ तरङ्गाः सन्त्यस्याम् । अत इनिः (५।२।११५) ॥ (३) ॥*॥ शैवलमस्त्यस्याम् ॥ ( ४ ) ॥*॥ तटमस्त्यस्याः ॥ ( ५ ) ॥*॥ हृदाः सन्त्यस्याम् । 'हादिनी' इत्यन्ये ॥ (६) ॥*॥ धुनोति वेतसादीन् । क्किप् (३।२।१७८) पृषोदरादित्वात् । ( ६।३।१०९ ) नुक् । नान्तत्वान्ङीप् ( ४।१।५) ॥ ( ७ ) ॥ ॥ स्रोतांसि सन्त्यस्याम् । मतुप् (५।२।९४) ॥*॥ ' अस्माया-' ( ५|२|१२१ ) इति विनौ तु 'स्रोतस्विनी' इत्यपि ॥ ( ८ ) ॥*॥ द्वीपमस्त्यस्याम्। मतुप् (५।२।९४ ) ॥ ( ९ ) ॥*॥ स्रवति । 'लटः शतृ-' ( ३।२।१२४ ) । ' उगितश्च' ( ४|१|६ ) इति ङीप् । 'शश्यनो:-' ( ७।१।८१ ) इति नुम् ॥ (१०) ॥*॥ निम्नं गच्छति । 'गम्लृ गतौ' ( भ्वा० प० अ० ) । ' अन्येभ्योऽपि - ' ( वा० ३।२।१०१ ) इति ङः ॥ (११) ॥॥ अपां समूह आपम् । तेन गच्छति । डः ( वा० ३।२।४८ ) ॥ - ॥ अप गच्छति । डः हस्वादिरपि । 'विद्यादगारमागार( वा० ३।२।१०१ ) । पगामापगामपि' इति द्विरूपकोषः ॥ ( १२ ) ॥*॥ द्वादश 'नद्याः ' ॥ गङ्गा विष्णुपदी जह्नुतनया सुरनिम्नगा । भागीरथी त्रिपथगा त्रिस्रोता भीष्म सूरपि ॥ ३१ ॥ गङ्गेति ॥ गच्छति । 'गत् गम्यद्योः ' ( उ० ११२३ ) (१) ॥*॥ विष्णुः पदं स्थानं यस्याः । गौरादिः ( ४|१|४१ ) । 'विष्णुपदं नभोऽब्जयोः । विष्णुपदस्तु क्षीरोदे विष्णुपदी सुरापगा । (संक्रान्तिर्द्वारिका चापि )' इति हैमः ॥ ( २ ) ॥*॥ जहो राजर्षेस्तनया ॥ (३) ॥*॥ सुराणां निम्नगा । क्षुनादिः ( ८|४|३९ ) ॥ (४) ॥*॥ भगीरथस्येयम्। ‘तस्यैदम्' (४।३।१२० ) इत्यण् ॥ ( ५ ) ॥*॥ त्रीने पथो गच्छति । डः ( वा० ३।२।४८ ) यद्वा - त्रयाणां पथां समाहारः त्रिपथम् । तेन गच्छति । डः ( ३।२।४८ ) ॥ (६)॥॥ त्रीणि स्रोतांसि यस्याः, ('त्रिस्रोता जहुकन्यायां स्रोतस्खत्यन्तरे स्त्रियाम्) (७) ॥*॥ भीष्मं सूते । ' षूङ् प्राणिप्रसवे' ( अ० अ० अ० ) । क्विप् ( ३।२।१७८ ) ॥ ( ८ ) ॥*॥ अष्टौ ' भागीरथ्याः ॥ १ - ' तुहिनाचल इव पुण्यभागीरथीसहितो नलः' इति दमय न्तीश्लेषः ॥ २ तथा च भारते- क्षितौ तारयते मर्त्यान्नागांस्ता रयतेऽप्यधः । दिवि तारयते देवांस्तेन त्रिपथगा स्मृता' इति - इति मुकुटः ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy