SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ कारिवर्गः १० ] ॥* ॥ अर्णास्त्र सन्ति । 'अर्णसो लोपश्च' ( वा ) इति वः सलोपश्च ॥ (१) ॥३॥ रत्नानानाकरः ॥ ( १२ ) ॥ ॥ जलानि निधीयन्तेऽत्र । 'कर्मण्यधिकरणे च' (३|३|९३ ) इति किः । जलानां निधिरिति वा ॥ (१३) ॥३॥ यादसां जलजन्तूनां पतिः ॥ (१४) ॥ ॥ अपां पतिः ॥ (१५) ॥३॥ पञ्चदश 'समुद्रस्य' ॥ तस्य प्रभेदाः क्षीरोदो लवणोदस्तथापरे ॥ २ ॥ व्याख्यासुधाख्यव्याख्यासमेतः । तस्येति ॥ क्षीरमुदकं यस्य । 'उत्तरपदस्य च ' ( वा० ६१३॥५७) इत्युद्ः ॥ (१) ॥*॥ एवं लवणोदः, इक्षुरसोदः, सुरोदः, दधिमण्डोदः, स्वादूदः, घृतोदः ॥ 'समुद्र विशेषाणां' पृथक्पृथगेकैकम् ॥ आपः स्त्री भूनि वार्वारि सलिलं कमलं जलम् । पयः कीलालममृतं जीवनं भुवनं वनम् ॥ ३ ॥ कबन्धमुदकं पाथः पुष्करं सर्वतोमुखम् । अम्भोऽस्तोयपानीयनीरक्षीराम्बुशंवरम् ॥ ४॥ मेघपुष्पं घनरसः । । आप इति ॥ आनुवन्ति, आप्यन्ते वा । 'आफू व्याप्तौ' (खा० प० अ० ) । 'आप्नोतेर्हखश्च' ( उ० २।५८) इति क्विव् हखत्वं च ॥॥ असुनि ( उ० ४।२०८ ) आपः सान्तं क्लीबं च। 'कबन्धमुदकमापोनीरवार्वारिनारम् । क्लीबमपि' इति संसारावर्तात् ॥ (१) ॥॥ वारयति । वृजो ण्यन्तात् ( ३19/१६) क्किए ( ३।२।१७८ ) । वार् क्लीवैमुक्तसंसारावर्तात् ॥ (२) ॥*॥ ‘वसिवपि-' ( उ० ४।१२५ ) इतीजि वारि च 'वारि हीबेरनीरयोः । वारिर्घट्यां सरखत्यां गजबन्धनभुव्यपि’) ॥ (३) ॥॥ सलति। 'पल गती' (भ्वा० प० से० ) 'सलिकलि—' ( उ० १।५४ ) इतीलच् । रलयोरेकत्वम् ‘सरिलं सलिरं सलिलम्' इति वाचस्पतिः ॥ (४) ॥*॥ कम्यते । 'कमु कान्ती' (भ्वा० आ० से० ) । वृषादित्वात् (उ० १५१०६) कलच्। ‘कमला श्रीर्जलं पद्मं कमलं कमलो मृगः' इति धरणिदर्शनात् ‘कमलम्' इत्येकं नाम । 'कमलं क्लोनि भेषजे । पङ्कजे सलिले ताम्रे कमलस्तु मृगान्तरे । कमला श्रीवरनार्योः' इति हेमचन्द्रः ॥ ( ५ ) ॥ ॥ जलति । 'जल अपवारणे' (चु० प० से ० ) पचाद्यच् ( ३।१।१३४) । 'जलं गोकलले नीरे हीबेरेऽप्यन्यवज्जडे' इति मेदिनी ॥ ( ६ ॥*॥ पयते पीयते, वा ! 'पय गतौ' ( वा० आ० से ० ) । । ) १—बाहुलकात्पष्ठया अलुक् ॥ वाक्येनैव नामेति सर्वधरः इति मुकुदः ॥ 'सुगममेव हि मध्यमपांपतेः' इति दर्शनात् - इति स्वामी ॥ २–'आपोभिर्मार्जनं कृत्वा' इति स्मृतेः - इति मुकुट बुधमनोहरे ॥ ३ – प्रयोगश्च 'वारि पतन्ति नदन्ति मयूराः' इति पूर्वघटकर्परः ॥ – पूर्वसाहचर्यात्स्त्रीत्वं वारः इति तु कलिङ्गः ॥ पूर्वोत्तरसाहचर्यात् स्त्रीक्लीबयोर्वार इति तु पञ्चिका-इति मुकुटः ॥ ९३ करणे 'पीङ् पाने' (दि० आ० अ० ) वा असुन ( उ० ४।१८९) १ 'पयः क्षीरे च नीरेचे' इति हैमः ॥ ( ७ ) ॥ ॥ कीलां ज्वालामलति वारयति 'अल भूषणादी' ( वा० प० से० ) । 'कर्मण्यण' ( ३१२०१ ) | और्वाग्नेः कलां लाति वा । 'कीलालं रुधिरे तोये' इति है मः ॥ ( ८ ) ॥ ॥ न मृतं मरणमस्त्यस्मिन् । प्राणस्यापोमयत्वात् । 'अमृतं यज्ञशेषे स्यात् पीयूषे सलिले घृते । अयाचिते च मोक्षे च ना धन्वन्तरिदेवयोः । अमृता मागधीपथ्यागुडूच्यामलकीषु च ॥ ( ९ ) ॥*॥ जीव्यतेऽनेन । 'जीव प्राणधारणे' ( वा० प० से० ) । 'ल्युट् ( ३।३।११६ ) । 'जीवनं वर्तते नीरप्राणधारणयोरपि । जीवनी जीवना चापि जीवन्तीभेदयोः क्रमात् ' ॥ (१०) ॥ ॥ भूयते । 'भू प्राप्तौ ' ( चु० आ० से० ) । ‘भूसुधूभ्रस्जिभ्यश्छन्दसि' ( उ० २।८० ) इति क्युन् । यद्वाभवन्त्युत्पद्यन्तेऽनेन । करणे ल्युट् ( ३।३।११६ ) संज्ञापूर्वक - त्वाद्गुणाभावः । 'भुवनं विटपेऽपि स्यात्सलिले गगने जले ' ॥ (११) ॥ ॥ वन्यते संभज्यते सेव्यते वा । 'वन संभक्तौ ' ( वा० प० से ० ) । 'वनु याचने' ( तु० आ० से ० ) वा । कर्मणि घञ् ( ३।३।१९ ) । संज्ञापूर्वकत्वाद्वृद्ध्यभावः । यत्तु — भुवनवद्बाहुलकात् क्युनि 'अनुदासोपदेश - ' ( ६ ४ ३७ ) इत्यादिना नलोपे वनम् — इत्युज्वलदत्तः - इति मुकुटः । तन्न । 'अनुदात्तोपदेश - ' ( ६।४१३७ ) इत्यनुनासिकलोपस्य किति झलि विधानात् क्युनि तदप्रसङ्गात् । अन्यथा वन्य इत्यादावपि प्रसङ्गात् । वनं प्रस्रवणे गेहे प्रवासेऽम्भसि कानने' इति हैमः ॥ ( १२ ) ॥ ॥ कं सुखं बना बन्धने' ( क्या० प० अ० ) । 'कर्मण्यणू' ( ३1२1१ ) । 'कबन्धं सलिले रुण्डे' इति शाश्वतादिदमेकं नाम । 'कबन्धोऽस्त्री क्रियायुक्तमपमूर्धक क्लीबं जले, पुंस्युदरे राहुरक्षोविशेषयोः ॥ ॥ केचित्तु - 'कमन्धम्' इति पठित्वा द्वे नामनी - इत्याहुः ॥ (१३) ॥॥ उनत्ति। ‘उन्दी क्लेद्ने’ (रु० प० से० ) । 'उदकं -' ( उ० २।३९) इत्युणादिसूत्रेण तचिन्त्यम्। उन्दे रोधादिकत्वात् ॥ (१४) ॥*॥ पाति । ‘पा साधु । यत्तु — उन्दति - इति विगृहीतवन्तौ स्वामि-मुकुटौ । रक्षणे' (अ० प० से० ) 'उदके थुट् च' ( उ० ४।२०४ ) इत्यन् थुट् । यत्तु — पीयते इति विग्रहप्रदर्शनं स्वामिमुकुटाभ्यां कृतम् । तन्न । 'पातेर्बले जुद् इत्यनुवृत्तिविरोधात् । १ - अत्र तु 'प्रसूरश्वा जनन्यपि' इत्यपि लिखितमासीत् ॥ तत्तु न प्रकृतोपयुक्तम् ॥ २ - प्रवासे यथा - 'आहूतस्याभिषेकाय विसृष्टस्य वनाय च' इत्यनेकार्थकैरवाकर कौमुदी । अत्र तु 'प्रवाहे ' इति लिखितमासीत् ॥ ३- 'समरसरसि नृत्यत्कबन्धे' इति वासवदत्तायाम् 'चलितोद्धतकबन्धसंपदाः' इति माघे च प्रयोगात् - इति मुकुटः ॥ ४' उदकशब्दसमानार्थ उदशब्दो विद्यते' । तथा च 'प्रसन्नोदम्, इत्यसंज्ञायामप्युदशब्दः प्रयुज्यते' इति (६।३१५७ सूत्रे) कैयट - इति मुकुटः ॥
SR No.016111
Book TitleNamalinganusasan Amarkosa
Original Sutra AuthorN/A
AuthorBhanuji Dikshit, Shivdatt Pandit
PublisherSatya Bhamabai Pandurang
Publication Year1944
Total Pages548
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy