SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ २ देवकाण्डः । ९९ . . केतनं मीनमकरौ केतनं ध्वजः, मीनो मकरश्च, तेन मीनकेतनः, झषध्वजः, मकरकेतनः, मकरध्वजः ।। बाणाः पञ्च बाणाः पञ्चसङ्ख्याः , तेन पञ्चबाणो, विषमेषुः ॥ रतिः प्रिया । रतिः प्रिया कलत्रम् , तेन रतिवरो, रतिपतिः ॥ .. - मनःशृङ्गारसंकल्पात्मानो योनिः मनश्च शृङ्गारश्च संकल्पश्च आत्मा च ते योनिः, तेन मनोयोनिः, चेतोभवः, शृङ्गारयोनिः, शृङ्गारजन्मा, संकल्पयोनिः, स्मृतिभूः, आत्मयोनिः, आत्मभूः ॥ सुहृद् मधुः ॥ १४३ ॥ मधुश्चैत्रः, सुहृत् सखा, तेन मधुसुहृत् , चैत्रसखः ॥ १४३ ॥ सुतोऽनिरुद्ध ऋप्याङ्क उषेशो ब्रह्मसूश्च सः । कामस्य सुतः, न निरुद्धयते स्म अनिरुद्धः॥१॥ ऋष्यनामा मृगोऽङ्कश्चिद्रं यस्य ऋष्याङ्कः, यौग्मिकत्वाद् ऋष्यकेतुः ॥ २ ॥ उषा बाणदुहिता तस्या ईशः उषेशः, यौगिकत्वाद् उषारमणः ॥ ३ ॥ ब्रह्म ज्ञानं सूते ब्रह्मसूः ॥ ४ ॥ गरुडः शाल्मल्यरुणावरजो विष्णुवाहनम् ॥ १४४ ॥ सौपर्णेयो वैनतेयः सुपर्णः सर्पारातिर्वनिजिद् वज्रतुण्डः। पक्षिवामी काश्यपिः स्वर्णकाय . स्तार्श्वः कामायुर्गरुत्मान् सुधाहृत् ॥ १४५ ॥ - गिलति नागान् गरुडः “गृजदृवृभृभ्य उट उडश्च" ॥ (उणा-१५३)॥ इत्युडः, गरुद्भिर्डयते इति वा पृषोदरादित्वात् ; डस्य लत्वे गरुलः ॥ १ ॥ कूटशाल्मलो नाम गरुडस्य राजधानीपर्वतः, शाल्मलो भीमवत् , सोऽस्याऽस्ति शाल्मली ॥ २॥ अरुणस्याऽवरजोऽरुणावरजः ॥ ३ ॥ विष्णोर्वाहनं विष्णुवाहनम् ॥ ४ ॥ १४४ ॥ सुप ाः सुपर्णाया वाऽपत्यं सौपर्णेयः ॥ ५ ॥ विनताया अपत्यं वैनतेयः ॥ ६ ॥ शोभनानि स्वर्णमयत्वात् पर्णान्यस्य सुपर्णः ॥ ७ ॥ सर्पाणामरातिः सर्पारातिः ॥ ८ ॥ वर्जिणं जितवान् वज्रिजित् ॥ ९ ॥ वज्रवत् तुण्डमस्य वज्रतुण्डः ॥ १० ॥ पक्षिणां स्वामी पक्षिस्वामी ॥ ११ ॥ काश्यपस्याऽपत्यं काश्यपिः॥ १२ ॥ स्वर्णरूपः कायोऽ
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy