________________
अभिधानचिन्तामणौमदनो जराभीरुरनङ्गमन्मथौ ___ कमनः कलाकेलिरनन्यजोऽङ्गजः । मधुदीपमारौ मधुसारथिः स्मरो
विषमायुधो दर्पककामहृच्छयाः ॥ १४१ ॥ प्रद्युम्नः श्रीनन्दनश्च कन्दर्पः पुष्पकेतनः । मदयति मदनः ॥ १ ॥ जराया भीरुः जराभीरुः ॥ २ ॥ न विद्यतेऽङ्गमस्य अनङ्गः ॥ ३ ॥ मथति चित्तं रागिणां मन्मथः “ ऋमिमथिभ्यां चन्मनौ च".॥ ( उणा-१२ ) ॥ इति अः, द्विर्वचनस्य च मनादेशः; मनो मनातीति वा, पृषोदरादित्वात् ; मननं मन् चेतना, मनो मथः मन्मथ इति वा ॥ ४ ॥ कामयते शृङ्गारं कमनः “ रम्यादिभ्यः कर्तरि ” ॥ ५।३।१२६ ॥ इत्यनट् ॥ ५॥ कलासु केलिरस्य कलाकेलिः ॥ ६ ॥ न मनसोऽन्यस्माज्जायते अनन्यजः ॥ ७ ॥ अङ्गाज्जायते अङ्गजः ॥ ८ ॥ मधौ वसन्ते दीप्यते मधुदीपः ॥ ९ ॥ मारयति मारः ॥ १० ॥ मधुः सारथिरस्य मधुसारथिः ॥ ११ ।। स्मरन्त्यनेन स्मरः “ पुंनानि घः"।।५।३। १३० ॥ १२ ॥ विषमाणि आयुधान्यस्य विषमायुधः, पञ्चेषुत्वात् ॥ १३ ॥ दर्प-. यति दर्पकः ॥ १४ ॥ कामयतेऽनेन कामः “ व्यञ्जनाद् घञ्” ॥५।३।१३२॥ कामोऽस्त्यस्य वा ॥ १५ ॥ हृदि शेते हृच्छयः, यौगिकत्वाद् मनसिशयः ।। १६ ।।१४१ ।। प्रकृष्टं शुम्नं बलमस्य प्रद्युम्नः ॥ १७ ॥ श्रिया लक्ष्म्या नन्दनः श्रीनन्दनः, रुक्मिण्याः श्रियोऽवतारत्वात् ॥ १८ ॥ कं अव्ययं कुत्सायाम् , कं दर्पोऽस्य कन्दर्पः ॥ १९ ॥ पुष्पाणि केतनमस्य पुष्पकेतनः, यौगिकत्वात् पुष्पध्वजः ॥ २० ॥ शेषश्चात्र--
कामे तु यौवनोद्भेदः शिखिमृत्युर्महोत्सवः । शमान्तकः सर्वधन्वी रागरज्जुः प्रकर्षकः ॥ १ ॥
मनोदाही मथनश्च ॥ .. कन्तुर्दश्यां संस्कृतेऽपि ॥
पुष्पाण्यस्येषुचापास्त्राणि
अस्य कामस्य पुष्पाणि, इषुर्बाणः, चापं धनुः, अस्त्रमायुधम् , तेन पुष्पेषुः, कुसुमबाणः, पुष्पचापः, कुसुमधन्वा, पुष्पास्त्रः, कुसुमायुधः कामः स्यात् ; इषुचापयोः सत्यप्यस्त्रत्वे भेदेन ग्रहणम् , लोके तथाव्यवहारात् ।।
अरी शंवरशूर्पकौ ॥ १४२॥ अरिः शंवरः शं वृणोतीति कृत्वा, शूर्पयति परवीर्याणि मिमीते शूर्पकश्च; तेन शंवरारिः, शूर्पकारिः ॥ १४२ ॥