________________
२ देवकाण्डः ।
मुसलमस्त्यस्य मुसली ॥ ३ ॥ सत्वतोऽपत्यं, तत्र भवो वा सात्वतः “ उत्सादेरञ्" ॥ ६।१।१९ ॥ इत्यञ् ॥ ४ ॥ कामान् पालयति, कामं स्मरं भ्रातृव्यत्वात् पालयति वा कामपालः ॥ ५॥ संकर्षति यमुनां संकर्षणः ॥ ६ ॥ प्रियं मधु मद्यमस्य प्रियमधुः ॥ ७ ॥ बलभद्रकदशो बलः, भीमवत् ; बलमस्यास्तीति वा ॥ ८ ॥ रोहिण्या अपत्यं रौहिणेयः, शुभ्रादित्वादेयण ॥९॥ रुक्मिणं, प्रलम्ब, यमुनां च भिनत्ति रुक्मिाभित् , प्रलम्बभित् , यमुनाभित् , यौगिकत्वाद् रुक्मिदारणः, प्रलम्बघ्नः, कालिन्दीकर्षण इत्यादयः ॥ १० ॥ ११ ॥ १२ ॥ अनन्तः शेषः, तन्मूर्तित्वाद् अनन्तः ॥ १३ ॥ तालो वृक्षो लक्ष्माऽस्य स ताललक्ष्मा ॥ १४ ॥ एकं कुण्डलमस्य एककुण्डलः, शेषमूर्तित्वात् ॥ १५ ॥ सितः सिताङ्गत्वात् , असितो नीलाम्बरत्वात् सितासितः ॥ १६ ॥ रेवत्या ईशो रेवतीशः ॥ १७ ॥ १३८ ॥ बलेन दीव्यति बलदेवः ॥ १८ ॥ बलेन भद्रो बलभद्रः ॥ १९ ॥ नीलं वस्त्रमस्य नीलवनः॥२०॥ अच्युतस्याऽग्रजः अच्युताग्रजः ॥ २१॥ शेषश्चात्र
बलभद्रे तु भद्राङ्गः फालो गुप्तचरो बली ॥ प्रलापी भद्रचलनः पौरः शेषाहिनामभृत् ॥
मुसलं त्वस्य सौनन्दं सुनन्दाया इदं सौनन्दम् ॥ १॥
हलं संवर्तकाह्वयम् ॥ १३९ ॥ संवर्तयति संहरति शत्रून् संवर्तकम् ॥ १ ॥ १३९ ॥
लक्ष्मीः पद्मा रमा या मा ता सा श्रीः कमलेन्दिरा ।
हरिप्रिया पद्मवासा क्षीरोदतनयाऽपि च ॥ १.४० ॥ लक्ष्यते लक्ष्मीः " लक्षेर्मोऽन्तश्च" ॥ (उणा-७१५)॥ इति ईः ॥ १॥ पद्ममस्त्यस्याः पद्मा, अभ्रादित्वाद् अः ॥२॥ रमते रमा ॥ ३ ॥ अस्य विष्णोर्भार्या ईः ॥ ४ ॥ अटति, अतति वा आ “क्वचित् ” ॥५।१।१७१॥ इति डः, यातीति या इत्यखण्डं वा ॥ ५॥ मीयते संख्यायते पुरुषेषु पुमान् अनया मा ॥ ६॥. सनोति ऋद्धि ता ॥ ७ ॥ स्यति दारिद्यं सा ॥ ८ ॥ श्रयतीत्येवंशीला श्रीः “दिद्युद्दद्द-"॥५।२।८३॥ इत्यादिना क्विपि दीर्घो निपात्यते ॥ ९॥ कमलमस्त्यस्याः कमला ॥ १० ॥ इन्दत्यनया इन्दिरा “मदिमन्दि-" ॥ (उणा--४१२) ॥ इति बहुवचनादिरः ॥ ११॥ हरेः कृष्णस्य प्रिया हरिप्रिया ॥ १२ ॥ पद्मे वासोऽस्याः पद्मवासा ॥ १३ ॥ क्षीरोदस्य तनया क्षीरोदतनया ॥ १४ ॥
शेषश्चात्रलक्ष्म्यां तु भर्भरी विष्णुशक्तिः क्षीराब्धिमानुषी ॥ १४० ॥