________________
२ देवकाण्डः ।
९५ शद्रुवंशः श्रीवराहः सदायोगी सुयामुनः ॥ मधुधेनुकचाणूरपूतनायमलार्जुनाः ॥ १३३ ॥ कालनेमिहयग्रीवशकटारिष्टकैटभाः । कंसकेशिमुराः साल्वमैन्दद्विविदराहवः ॥ १३४ ॥ हिरण्यकशिपुर्वाणः कालीयो नरको बलिः ।
शिशुपालश्चास्य वध्याः मन्यते मधुः ॥ १ ॥ धेनुं कायति धेनुकः ॥ २॥ चणति शब्दायते प्रतिमल्लाह्वाने चाणूरः “महिकणिचणि-" ॥ (उणा-४२८) ॥ इति शूरः ॥ ३ ॥ पुनाति पूतना " पृपूभ्यां कित्" ॥ (उणा-२९३) ॥ इति तनः ॥ ४ ॥ यमलरूपौ अर्जुनवृक्षौ यमलार्जुनौ ॥५॥ १३३ ॥ कालस्य नेमिरिव कालनेमिः ॥ ६॥ हयस्येव ग्रीवाऽस्य हयग्रीवः ॥ ७ ॥ शकटाकारत्वात् शकटः ॥ ८॥ न विद्यते रिष्टं क्षेममस्माद् अरिष्टः ॥ ९॥ कैतवेन भाति कैटभः, पृषोदरादित्वात् ॥ १० ॥ कामयते जयं कंसः “मावावद्यमि-" ॥ (उणा-५६४) ॥ इति सः ॥ ११ ॥ केशाः सन्त्यस्य केशी ॥ १२॥ मुरति चेष्टयति मुरः ॥१३॥ सल्वा आभिजनो निवासोऽस्य साल्वः “ सिन्ध्वादेरञ्॥६।३।२१६॥ इत्यञ् , सलति गच्छतीति वा “सलेर्णिद्वा" ॥(उणा-५१०) ॥ इति वः ॥ १४ ॥ मया लक्ष्म्या इन्दति मेन्दः, प्रज्ञायणि मैन्दः ॥ १५॥ द्वयोः नेताद्वापरयोर्विदो द्विविदः ॥ १६ ॥ रहति गृहीत्वा सूर्याचन्द्रमसौ राहुः ॥ १७ ॥ १३४ ॥ हिरण्येन युक्तः कशिपुरस्य हिरण्यकशिपुः ॥ १८ ॥ वाणयति युद्धाय रिपून् बाणः ॥ १९ ॥ के पानीये आलयोऽस्य कालीयः, पृषोदरादित्वात् ॥ २० ॥ नृणाति नरकः "दृकृनृ-" ॥ (उणा-२७) ॥ इत्यकः ॥ २१ ॥ बलति बलि: “पदिपठि-" ॥ (उणा-६०७)॥ इति इः ॥ २२ ॥ शिशून् पालयति शिशुपालः ॥ २३ ॥ एते त्रयोविंशतिरस्य विष्णोर्वध्याः, यौगिकत्वात् तेन मधुमथनः, धेनुकध्वंसी, चाणूरसूदनः, पूतनादूषणः, यमलार्जुनभञ्जनः, कालनेमिहरः, हयग्रीवरिपुः, शकटारिः, अरिष्टहा, कैटभारिः, कंसजित् , केशिहा, मुरारिः, साल्वारिः, मैंन्दमर्दनः, द्विविदारिः, राहुमूर्धहरः, हिरण्यकशिपुदारणः, बाणजित् , कालियदमनः, नरकारिः, बलिबन्धनः, शिशुपालनिसूदन इति विष्णोर्नामानि भवन्ति ॥
वैनतेयस्तु वाहनम् ॥ १३५॥ विष्णोर्वाहनं वैनतेयः, तेन वैनतेयवाहनः, गरुडगामी इत्यादि सिद्धम्॥१३५॥
शोऽस्य पाञ्चजन्यः .. पञ्चजने पाताले भवः पाञ्चजन्यः “गम्भीरपञ्चजनबहिर्देवात्" ॥६।३।१३५॥ इति ञः ॥ १॥