SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ अभिधानचिन्तामणौ-... कपाली जृम्भको लिम्पः स्थूलोऽकर्णविकर्णको । लम्बकर्णो महाशीर्षों हस्तिकर्णः प्रमर्दनः ॥ ५॥ ज्वालाजिह्वो धमधमः संहातः क्षेमकः पुलः । भीषको ग्राहकः सिस्नो धीरुण्डो मकराननः ॥ ६ ॥ पिशिताशी महाकुण्डो नखारिरहिलोचनः । कूणकुच्छो महाजानुः कोष्टकोटिः शिवङ्करः ॥ ७ ॥ वेतालो लोमवेतालस्तामसः सुमहाकपिः । उत्तुङ्गो गृध्रजम्बूकः कण्डानककलानको। चर्मग्रीवो जलोन्मादो ज्वालावकत्रो विहुण्डनः । हृदयो वर्तुलः पाण्डुर्भुण्डिरित्यादयोऽपरे ॥ ९ ॥ १२४ ॥ द्रुहिणो विरञ्चिद्रघणो विरिञ्चः परमेष्ठ्यजोऽष्टश्रवणः स्वयंभूः । कमनः कविः सात्त्विकवेदगी स्थविरः शतानन्दपितामहौ कः ॥ १२५ ॥ धाता विधाता विधिवेधसौ ध्रुवः ___पुराणगो हंसगविश्वरेतसौ । प्रजापतिर्ब्रह्म चतुर्मुखो भवा न्तकृद् जगत्कर्त्तसरोरुहासनौ ॥ १२६ ॥ शंभुः शतधृतिः स्रष्टा सुरज्येष्ठो विरिञ्चनः । हिरण्यगर्भो लोकेशो नाभिपद्मात्मभूरपि ॥ १२७ ॥ द्रुह्यत्यसुरेभ्यो द्रुहिणः "ऋगृहेः कित्" ॥ (उणा-१९५) ॥ इतीणः ॥ १॥ विरिङ्ने सूते विरिञ्चिः “वौ रिचेः स्वराद् नोऽन्तश्च" ॥ ( उणा-६१७ ) ॥ इति इ: ॥ २ ॥ द्रुर्हन्यतेऽनेन दुघणः कुठारः, द्रुघण इव द्रुघणः, संसारच्छेदकत्वात् ॥ ३॥ विरिङ्क्ते सूते, विभिहसै रिच्यते उह्यते वा विरिञ्चः, पृषोदरादित्वात् साधुः ॥ ४ ॥ परमे पदे तिष्ठतीति परमेष्ठी “परमात् कित् ” ॥ ( उणा-९२५) ॥इतीनि "भीरुटानादयः” ॥२।३।३३॥ इति षत्वम् , सप्तम्या अलुप् च ॥५॥ न जायतइति अजः ॥ ६ ॥ अष्टौ श्रवणान्यस्य, चतुर्मुखत्वात् अष्टश्रवणः ॥ ७ ॥ स्वयं भवति स्वयंभूः ॥ ८ ॥ कामयतेऽभिलषति सुतां कमनः॥ ९ ॥ कवते वेदान् कविः ॥ १० ॥ सत्त्वानि प्रयोजनमस्य सात्त्विकः ॥ ११ ॥ वेदा गर्भेऽस्य वेदगर्भः॥१२॥ स्थविरः, पुराणपुरुषत्वात् ॥ १३ ॥ शतमानन्दानामस्य शतानन्दः ॥ १४ ॥ पितृणामपि पिता पितामहः “पित्रोर्डामहट्” ॥६।२।६३॥१५॥ कायतरति कः ॥१६॥
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy