SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ २ देवकाण्डः । ८९ तारकस्य च दानवस्य, अरिः क्रौञ्चारिः, अन्धकासुरे हि महेश्वरात् क्रौञ्चमध्ये प्रनष्टेऽनेन क्रौञ्चो दारित इति प्रसिद्धिः; तारकारिः, यौगिकत्वात् क्रौञ्चदारणः, तारकान्तक इत्यादयः ॥ १८ ॥ १९ ॥ शराग्निभ्यां भवति शराग्निभूः, शरभूः, अग्निभूः, यौगिकत्वात् शरजन्मा, अग्निजन्मेत्यादयः ॥ २० ॥ २१ ॥ शेषश्चात्र -- स्कन्दे तु करवीरकः । सिद्धसेनो वैजयन्तो बालचर्यो दिगम्बरः ॥ १२३ ॥ भृङ्गी भृङ्गिरिटिभृङ्गिरीटिर्नाड्यस्थिविग्रहः । भृङ्गाः षिङ्गाः क्रीडापात्रत्वात् सन्त्यस्य भृङ्गी ॥ १ ॥ भ्रमन् गिरावटति भृङ्गिरिटिः, पृषोदरादित्वात् ॥ २ ॥ एवं भृङ्गिरीटिः ॥ ३ ॥ नाडीशेषोऽस्थिशेषश्च विग्रहोऽस्येति नाड्यस्थिविग्रहः नाडीविग्रहः, अस्थिविग्रहः, अन्धकासुरो हि रुद्रेण वर्षसहस्राणि शूलप्रोतो धृतो नाड्यस्थिशेषशरीरश्च दासत्वं प्रपन्नो मुक्तो भृङ्गिगोऽभूत् इति प्रसिद्धिः ॥ ४ ॥ ५ ॥ शेवश्चात्र -- भृङ्गी तु चर्मी ॥ कूष्माण्डके केलिकिलः 66 कुण निपात्यते, स्वार्थे के कूष्माण्डकस्तत्र ॥ गुणवृद्धी चादेः " ॥ ( उणा - १९ ) ॥ नन्दीशे तण्डुनन्दिनौ ॥ पिचण्डैरण्ड”- ॥ ( उणा - १७६ ) ॥ इत्यादिशब्दाद् १ ॥ किलति क्रीडति केलिकिलः " बहुलं इत्यः किद्, द्वित्वादि च ॥ २ ॥ १२४ ॥ "" 66 "" नन्दतीति नन्दी " पदिपठि- ॥ ( उणा - ६०७ ) ॥ इति इः, नन्दिश्चासावशश्च नन्दीशस्तत्र ॥ १ ॥ तनोति नृत्तं तण्डुः तनिमनिकणिभ्यो डुः ॥ ( उणा - ७६५ ) ॥ इति डुः ॥ २ ॥ अवश्यं नन्दतीति नन्दी ॥ ३ ॥ गणाअन्येऽप्यत्र, यद् व्याडिः- ➖➖ महाकालः पुनर्बाणो लूनबाहुर्वृषाणकः । . वीरभद्रस्तु धीराजो हेरुकस्तु कृतालकः ॥ १ ॥ अथ चण्डो महाचण्डः कुशाण्डी कङ्कणप्रियः । . मज्जनोन्मज्जनौ छागच्छागमेषौ महाघसः ॥ २ ॥ महाकपाल आलानः सन्तापनविलापनौ । महाकपोल ऐलोजः शङ्खकर्णः खरस्तपः ॥ ३ ॥ उल्कामाली महाजम्भः श्वेतपादः खराण्डकः । गोपाल ग्रामणीमालुर्घण्टाकर्णकरन्धमौ ॥ ४ ॥
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy