SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ २ देवकाण्डः । ८७ एकानसी नारायणी शैला शाकम्भरीश्वरी । प्रकीर्णकेशी कुण्डा च नीलवस्त्रोग्रचारिणी ॥ ८ ॥ अष्टादशभुजा पौत्री शिवदूती यमखसा । सुनन्दा विकचा लम्बा जयन्ती नकुला कुला ॥ ९ ॥ विलङ्का नन्दिनी नन्दा नन्दयन्ती निरञ्जना। कालजरी शतमुखी विकराला करालिका ॥ १० ॥ विरजाः पुरला जारी बहुपुत्री कुलेश्वरी । कैटभी कालदमनी दर्दुरा कुलदेवता ॥ ११ ॥ रौद्री कुन्द्रा महारौद्री कालङ्गमा महानिशा । बलदेवस्वसा पुत्री हीरी क्षेमङ्करी प्रभा ॥ १२ ॥ मारी हैमवती चापि गोला शिखरवासिनी ॥ तस्याः सिंहों मनस्तालः तस्या गौर्याः, सिंहो वाहनं, मनस्ताडयति कम्पयति मनस्तालः ॥ १ ॥ सख्यौ तु विजया जया ॥ ११९ ॥ गौर्याः सख्यौ, विजयते विजया ॥ १ ॥ जयति जया ॥ १ ॥ ११९ ॥ चामुण्डा चर्चिका चर्ममुण्डा मार्जारकर्णिका । कर्णमोटी महागन्धा भैरवी च कपालिनी ॥ १२० ॥ चमत्यत्ति प्रलये जगत् चामुण्डा " पिचण्डैरण्ड-” ॥ ( उणा-१७६ )॥ इत्यादिशब्दात् साधुः, चण्डमुण्डदैत्ययोर्मारणाद् वा; यदाह यस्माच्चण्डं च मुण्डं च गृहीत्वा त्वमुपागता। चामुण्डेति ततो लोके ख्याता देवी भविष्यसि ॥ १ ॥१॥ चर्च्यते पूज्यते चर्चा चचैव चर्चिका ॥ २ ॥ चर्म मुण्डेऽस्याः चर्ममुण्डा ॥३॥ मार्जारः कर्णिकाऽस्याः, मार्जारवत् कर्णावस्या इति वा मार्जारकर्णिका ॥ ४ ॥ कर्णान् मोटयति दैत्यानां कर्णमोटी ॥ ५ ॥ महान् गन्धोऽस्या महागन्धा, दैत्यास्त्रविस्रत्वात् ॥ ६ ॥ भैरवस्य भार्या भैरवी ॥ ७ ॥ कपालमस्त्यस्याः कपालिनीं ॥८॥ शेषश्चात्रचामुण्डायां महाचण्डी चण्डमुण्डाऽपि ॥ १२० ॥ हेरम्बो गणविघ्नेशः पशुपाणिर्विनायकः । द्वैमातुरो गजास्यैकदन्तौ लम्बोदराखुगौ ॥ १२१ ॥ प्रत्यूहे रम्बते शब्दायते हेरम्बः, पृषोदरादित्वात् , देश्योऽपि बहुशः संस्कृते .
SR No.016110
Book TitleAbhidhan Chintamani Nammala Tika
Original Sutra AuthorHemchandracharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages620
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy